भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 241, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 241

चूर्णाधिकारः ३.] गदनिग्रहः । २२१ ग्रन्थिकं मरिचं चात्र पत्रकं सतुगाह्वयम् । एषामर्धपलान् भागान् सर्वैस्तुल्या सिता भवेत् ॥ २४ ॥ एतन्माकू भोजनाच्चूर्णं दीपनं गुल्मनाशनम् । अर्शांसि ग्रहणीदोषमतीसारं प्रवाहिकाम् । पार्श्वशूलमथानाहं प्रमेहांश्च प्रणाशयेत् ॥ २५ ॥ मन्दाग्नावामलक्यादिचूर्णम् । आमलकवह्निपथ्यामागधिकांसैन्धवैः कृतं चूर्णम् । विनिहन्ति कण्ठरोगं मन्दाग्निं रक्तपित्तमपि ॥ २६ ॥ स्त्रीरोगे मेथिकाद्यं चूर्णम् । मेथिका शतपुष्पा च यवानी मधुयष्टिका । त्रिकटु त्रिफला मुस्ता त्रिजातं च पुनर्नवा ॥ २७ ॥ ऋष्यप्रोक्ता समङ्गा च चन्दनं रक्तचन्दनम् । द्राक्षापुष्करमञ्जिष्ठाः समं चूर्णं प्रकल्पयेत् ॥ २८ ॥ घृतखण्डेन पक्तव्यं काले स्त्रीणां च दापयेत् । वन्ध्यानां गर्भजननं स्त्रीणां बलविवर्धनम् ॥ २९ ॥ रक्तवातप्रशमनं पित्तोपद्रवनाशनम् । त्रिदोषे रुद्धगर्भे च परमं सुखकारकम् ॥ ३० ॥ कामवृद्धौ राजयोगः । अहिफेनं वत्सनागः केशरं चव्यचित्रकम् । धत्तूरभृङ्गशिग्रूणां बीजानि सितजीरकम् ॥ ३१ ॥ कपिकच्छुश्चाश्वगन्धा कलिङ्गकलवङ्गकम् । अजमोदार्ककरभो मुशली च शतावरी ॥ ३२ ॥ पिप्पली पिप्पलीमूलं चातुर्जातकसंयुक्तम् । कटाहे मधुना पक्त्वा कुर्यात्पूगोपमा वटीः ॥ ३३ ॥ भोजनानन्तरं वक्त्रे गुटी धार्या घटीद्वयम् । जातीपत्री विशेषेण धारणीया मुखे सदा ॥ ३४ ॥