गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 243, कुल 286 में से
संदर्भ में पढ़ेंचूर्णाधिकारः ३.] गदनिग्रहः । २२३ मन्दाग्नौ रुचकाद्यं चूर्णम् । रुचकमरिचशुण्ठीजीरकैर्भागवृद्धै- र्बिडलवणविभागः सैन्धवं चापि सार्धम् । कफपवनविकारे शस्यते वातगुल्मे जनयति जठराग्निं भोजने चेत्सतक्रम् ॥ ४७ ॥ मन्दाग्नौ सिंहचूर्णम् । अर्धं हिङ्गुपलं पलं सुविमलं सौवर्चलं द्वे पले प्रत्येकं मरिचाम्लदीप्यलवणाम्भोराशिजातान् क्षिपेत् । शुण्ठ्याश्च त्रिपलं चतुष्पलमपि स्याद्दाडिमं जीरकं श्रीमत्सिंहणभूमिपालकथितं सेव्यं सदेदं बुधैः ॥ ४८ ॥ अर्शसि सूरणाद्यं चूर्णम् । सूरणं दहनं क्षारो मरिचं नागरं क्रमात् । अर्धार्धकमिदं चूर्ण क्षाराम्लार्द्रकभावितम् ॥ ४९ ॥ हन्यादर्शांसि शूलं च गुल्मप्लीहोदरकृमीन् । भुक्तं भुक्तं पचत्याशु शान्तमग्निं च दीपयेत् ॥ ५० ॥ वातरोगे हरीतकीयोगः । धान्यकाञ्जिकयुता हरीतकी हिङ्गुसैन्धवकणासुपूरिता । भक्षिता भवति वातरोगहा हन्त्यजीर्णमथ च क्षुधाकरी ॥ ५१ ॥ विद्रधौ भूनिम्बाद्यं चूर्णम् । भूनिम्बार्धपलं निशापलयुतं दार्व्याः पले द्वे तथा दार्व्यर्धेन पुनर्नवां कुरु समां दार्वीसमः प्रग्रहः । सार्धे दुःस्पर्शया तु कटुका योज्या तदर्धेन वै अश्माहं निशया समानममृता पादाधिकं खात्यलम्॥५२॥ एतद्वत्सकसप्तपर्णसहितं सुश्लक्ष्णचूर्णीकृतं वासायाः स्वरसेन भावितमिदं त्रीन् सप्त वा वासरान् । भूयस्तण्डुलवारिणा प्रमुदितं पेयं पुरःस्थे रवौ एतद्विद्रधिरोगिणां विजयकृत् चूर्णं तु गुह्योत्तमम् ॥ ५३ ॥