गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 245, कुल 286 में से
संदर्भ में पढ़ेंचूर्णाधिकारः ३.] गदनिग्रहः । २२५ शोफे अयोरजश्चूर्णम् त्रिफलायास्तु कुडवं पिप्पलीकुडवं तथा । विडङ्गमरिचाभ्यां तु द्वे पले च समावपेत् ॥ ६५ ॥ पलं पलं तु कुर्वीत दन्तीचित्रकयोरपि । गुडूचीपिप्पलीमूलकुष्ठानां च पलं पलम् ॥ ६६ ॥ शृङ्गवेरपले द्वे तु पञ्च चव्यात्पलानि च । शेषाण्यर्धपलीकानि यानि वक्ष्यामि तत्वतः ॥ ६७ ॥ रास्ना स्थिरा गोक्षुरकं मधुकं देवदारु च । वचा चातिविषा चैव मुस्तकं कटुरोहिणी ॥ ६८ ॥ कट्फलं सारिवे द्वे च श्यामा भल्लातकानि च । पुनर्नवा तेजवती त्वचं पत्रं शतावरी ॥ ६९ ॥ निदिग्धिका व्याघ्रनखं मञ्जिष्ठा कूटशाल्मली । निचुलं त्रिवृता भार्गी कुटजस्य फलं त्वचम् ॥ ७० ॥ एतदौषधसंभारं सूक्ष्मचूर्णं तु कारयेत् । यावन्त्येतानि चूर्णानि द्विस्तावत्स्यादयोरजः ॥ ७१ ॥ तदेकत्र कृतं शोफी लेहयेन्मधुसर्पिषा । क्षीरं चानुपिबेद्युक्त्या निरन्नक्षीरसेवनः ॥ ७२ ॥ अयोरजसमित्येतत्ख्यातं सिद्धं रसायनम् । संवत्सरप्रयोगेण शतवर्षं च जीवति ॥ ७३ ॥ निहन्ति श्वयथुं चोग्रं वृक्षमिन्द्राशनिर्यथा । अर्शांसि पाण्डुरोगं च मन्दाग्निं कृमिकोष्ठताम् ॥ ७४ ॥ भगन्दरं च पामां च कुष्ठानि किटिभानि च । यस्मिन् यस्मिन् विकारे हि युज्यते त्वयसो रजः । तं तं निहन्ति वै रोगं देवारीन् केशवो यथा ॥ ७५ ॥ पाण्डुरोगे नवायसं चूर्णम् । किराततिक्तं सुरदारु दार्वी मुस्ता गुडूची कटुका पटोलम् । दुरालभा पर्पटकं सनिम्बं कटुत्रिकं वह्निफलत्रिकं च ॥ ७६ ।