गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 246, कुल 286 में से
संदर्भ में पढ़ें२२६ आयुर्वेदियग्रन्थमाला । [परिशिष्टे विडङ्गकं चैव समांशकानि सर्वैः समं चूर्णमथापि लौहम् । सर्पिर्मधुभ्यां गुटिका विधेयाः सेव्या सदा वै बदरप्रमाणाः॥७७ निहन्ति पाण्डुं श्वयथुं प्रमेहं हलीमकं संग्रहणीप्रदोषम् । श्वासं च कासं च सरक्तपित्तमर्शांसि चोर्ध्वग्रहमामवातम् ॥७८ प्रवाहिकायां कुटजाद्यं चूर्णम् । कुटजत्वगिन्द्रयवान् पाठां मुस्तं रसाञ्जनं शुण्ठीम् । बालं बिल्वमतिविषां कटुकं वै धातकीं समाहृत्य ॥ ७९ ॥ मधुनाऽऽलोड्य निपीतं तण्डुलपयसा प्रवाहिकां हरति । अर्शांसि गुदे शूलं पित्तरक्तातिसारं च ॥ ८० ॥ गुल्मे समशर्करं चूर्णम् । त्रिवृत्तुल्यार्धकर्षाणि हिङ्गुसौवर्चलत्वचः । श्रेष्ठाऽम्लवेतसव्योषं सर्वैस्तुल्या तु शर्करा ॥ ८१ ॥ समकं नाम तच्चूर्णं पिबेदुष्णेन वारिणा । गुल्मान् पञ्च सहृद्रोगान् कुक्षिशूलं च नाशयेत् ॥ ८२ ॥ शोषे तिलाद्यं चूर्णम् । तिलकर्केन्धुलाजानां चूर्णं मध्वाज्यसंयुतम् । क्षीरानुपानं मासेन शोषघ्नं नास्त्यतः परम् ॥ ८३ ॥ मन्दाग्नौ आमलकादिचूर्णम् । धात्री भागैकमुक्तं च पथ्या भागत्रयं तथा । कृष्णाभागत्रयं चैव द्वौ भागौ चित्रकस्य च ॥ ८४ ॥ भागैकं सैन्धवस्यैतच्चूर्णमामलकादिकम् । क्षुधाकरमिदं चूर्णं मन्दाग्निं विनिवारयेत् ॥ ८५ ॥ मन्दाग्नौ सौवर्चलाद्यं चूर्णम् । सौवर्चलं कणा शुण्ठी रामठं जीरकद्वयम् । अम्लसोदा च मरिचमम्लवेतसमेव च ॥ ८६ ॥ समभागमिदं चूर्णं मन्दाग्निविनिवारणम् ।