गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 249, कुल 286 में से
संदर्भ में पढ़ेंगुटिकाधिकारः ४.] गदनिग्रहः । २२९ गुडेन द्विगुणेनैव गुटिकां कारयेद्बुधः । ततो वातरुजार्तानां नित्यमेव प्रयोजयेत् ॥ १९ ॥ श्वासादौ सूर्यचन्द्रप्रभागुटिका । त्रिकत्रयं हरिद्रे द्वे तिक्ता तिक्तं शठी वचा । वेल्लचित्रकतालीसभार्गीपद्मकजीरकम् ॥ २० ॥ द्वौ क्षारौ पिप्पलीमूलं पटूनि त्रीणि तुम्बरु । देवदारु वचा चव्यं धान्यकं गजपिप्पली । वत्सकातिविषादन्तीश्यामापुष्करकामृताः ॥ २१ ॥ भागोऽमीषां सूक्ष्मचूर्णीकृतानां भागश्चार्धस्तापितरोज्द्भवस्य । तदर्द्धश्या, भागवृद्ध्या परे स्यु- रभ्रं लोहं शैलजं कौशिकश्च ॥ २२ ॥ संमर्द्य गुटिका कार्या सूर्यचन्द्रप्रभाभिधा । पूर्वाह्ने तां प्रयुञ्जीत माक्षिकेण परिप्लुताम् ॥ २३ ॥ अनुपाने प्रयुञ्जीत तक्रं मधु रसोत्तमम् । क्षीरं बदरतोयं वा शर्करामिश्रितं जलम् ॥ २४ ॥ घृतं मूत्रं तथा चाम्लस्वादुदाडिमजं रसम् । कासं श्वासं तथा शोषमरुचिं पार्श्ववेदनाम् ॥ २५ ॥ अर्शांसि कामलां मेहं पाण्डुरोगं हलीमकम् । हृद्रोगं मूत्रकृच्छ्रं च श्वयथुं ग्रहणीगदम् ॥ २६ ॥ यकृत्प्लीहाभिवृद्धिं च कमिं ग्रन्थि भगन्दरम् । श्लीपदं गण्डमालां च व्रणानाडीव्रणानपि ॥ २७ ॥ अतिस्थौल्यातिकार्श्वं च विद्रधीन्पिटिकाश्चपि । नासानेत्राश्रितान्रोगान् शिरोरोगान् सुदारुणान् ॥ २८ मुखरोगानशेषांश्च रक्तपित्तं खरक्षयम् । ज्वरं च सन्निपातोत्थं विषमं चापि पैत्तिकम् ॥ २९ ॥ ३०