गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 250, कुल 286 में से
संदर्भ में पढ़ें२३० आयुर्वेदौयग्रन्थमाला । [परिशिष्टे विंशतिं श्लैष्मिकांश्चैव संसृष्टान् सन्निपातिकान् । निजानृतुभवांश्चैव ये चान्ये नात्र कीर्तिताः । तान् तान् प्रशमयत्येषा वृक्षमन्द्राशनिर्यथा ॥ ३० ॥ मेधां स्मृतिं कान्तिमनामयत्व- मायूःप्रकर्षं पवनानुलोम्यम् । स्त्रीषु प्रहर्षं बलमिन्द्रियाणा- मग्नेश्च कुर्याद्विधिनोपयुक्ता ॥ ३१ ॥ अतीसारे विशल्या गुटिका । फलत्रयं त्र्यूषणजीरकं च कुबेरसंज्ञं पलमात्रमेतत् । पलद्वयं नूतनधूर्तपत्न्याः कर्षैककं चैव विषस्य योज्यम् ॥ ३२ ॥ पलार्धमात्रं करभस्य चूर्ण ततः समेनैव गुडेन योज्यम् । गुटी निबद्धा चणकप्रमाणा नियोजनीया हि सदातिसारे ॥ ३३ ॥ चतुर्विधाजीर्णभयापहर्त्री इयं विशल्या गुटिकेति नाम्ना ॥ ३४ ॥ त्रोटहरी गुटिका । शुण्ठीसक्तुपुनर्नवात्रिफलिकासैरेयशेफालिका- मुस्तावासकनिम्बपत्रकटुकाबोलाश्वगन्धावचाः । व्योषच्छिन्नरुहाविडङ्गसहिताः सर्वाः समांशा बुधै- विंशांशा च महौषधी परिमिता, खण्डस्य विंशांशकाः॥३५॥ तत्तुल्येन च गोघृतेन मधुना सर्वं च संमर्दितं बद्धा तेन शिवाप्रमाणगुटिका श्लेष्माणमुग्रं जयेत् ।