गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 253, कुल 286 में से
संदर्भ में पढ़ेंगुटिकाधिकारः ४.] गदनिग्रहः । २३३ शुक्रवृद्धिं तृतीये तु बलवर्णप्रसादनम् । हन्त्यष्टादश कुष्ठानि सप्त चैव महाक्षयान् ॥ ५२ ॥ प्लीहानं श्वासकासौ च अन्त्रवृद्धिमरोचकम् । अशीतिं वातजान्रोगान्मूत्रकृच्छ्रं भगन्दरम् ॥ ५३ ॥ प्रमेहान्विंशतिं चैव तथाऽर्शांसि गलग्रहम् । सर्पलूताविषं हन्ति सर्वं स्थावरजङ्गमम् ॥ ५४ ॥ योनिदोषमपस्मारमुन्मादं विषमज्वरम् । बलेन गजतुल्योऽसौ वेगेन तुरगोपमः ॥ ५५ ॥ मायूरस्तु भवेद्गिर्वावाराहश्रोत्र एव च । चटकः स्त्रीविलासेन गृध्रदृष्टिश्च जायते ॥ ५६ ॥ उपयोगात्परं जीवेन्नरो वर्षशतत्रयम् । न चान्ने परिहारोऽस्ति न चाध्वनि न मैथुने ॥ ५७ ॥ ग्राम्यधर्मं च कुर्वाणो भोजनं च यथेच्छया । विजया नाम गुटिका विख्याता रुद्रभाषिता । भक्षयन्ति नरा ये तु तेषां सिद्धिर्न संशयः ॥ ५८ ॥ वातरोगे योगोत्तमा गुटिका । त्र्यूषणं त्रिफला क्षारौ लवणान्यथ चित्रकम् । तालीसं चविकं शृङ्गी निशे द्वे गजपिप्पली ॥ ५९ ॥ एला त्वचं विडङ्गानि पौष्करं नागकेसरम् । ताप्यकं दीप्यको मुस्ता समभागानि कारयेत् ॥ ६० ॥ यावन्त्येतानि द्रव्याणि तावन्मात्रमयोरजः । तावच्छिलाजतुर्देयः सर्वैस्तुल्यस्तु गुग्गुलुः ॥ ६१ ॥ संक्षुद्य गुटिकां कुर्यादक्षमात्रप्रमाणतः । खादेच्चा मधुना युक्त्या तोयक्षीररसाशनः ॥ ६२ ॥ नियन्त्रितं सदा भोज्यं सर्वर्तुषु निरत्ययम् । अशीतिं वातजान्रोगांश्चत्वारिंशच्च पैत्तिकान् ॥