गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 252, कुल 286 में से
संदर्भ में पढ़ें२३२ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे मुखरोगे द्वितीया खदिरगुटिका । पद्माह्ववक्रागुरुकुङ्कुमैश्च तुल्यांशकैः श्लक्ष्णशिलाविपिष्टैः । सर्वैः समः स्यात्खदिरस्य सारः सारङ्गदर्पस्फटिकाधिवासिताः ॥ ४३ ॥ वल्लप्रमाणा गुटिका विधेया- स्ताः सेविता घ्नन्ति कफप्रमेहम् । हिकाग्निसादारुचिपीनसांश्च रोगानशेषान् खलु चास्य जातान् ॥ ४४ ॥ सूताभ्रहेमसहितां पूर्वोक्तां भक्षयेत्प्रातः । नाम्ना खादिरवटिका कथितेयं सिंहगुप्तेन ॥ ४५ ॥ वातरोगे त्वगाद्या गुटिका । त्वगेला गन्धकश्चैव गुग्गुलुः समभागतः । कुर्याद्वातारितैलेन गुटिका वातरोगिणाम् ॥ ४६ ॥ रसायनार्थे विजयागुटिका । पलत्रयं हरीतक्याश्चित्रकस्य तथैव तु । एलात्वक्पत्रमुस्तानां भागोऽर्धपलिकः स्मृतः ॥ ४७ ॥ व्योषं पिप्पलिमूलं च विषं च पलमात्रकम् । नागकेसरचूर्णं तु कर्षं दद्याद्विचक्षणः ॥ ४८ ॥ रेणुकार्धपलं चात्र रसस्य कर्षमेव च । एतत्संभृत्य संभारं सूक्ष्मचूर्णं तु कारयेत् ॥ ४९ ॥ गुडस्यार्धतुलां दत्त्वादर्व्या सम्यग्विघट्टयेत् । ततस्तु गुटिकाः कृत्वा तस्मात्षष्टिशतत्रयम् ॥ ५० ॥ एकैकां भक्षयेत्प्रातः कृताहारो यथाबलम् । मासेन पलितं हन्ति करोत्यग्निं द्वितीयके ॥ ५१ ॥