गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 254, कुल 286 में से
संदर्भ में पढ़ें२३४ आयुर्वेदियग्रन्थमाला । [परिशिष्टे विंशतिं श्लैष्मिकांश्चैव प्रमेहांश्चैव विंशतिम् । उदराणि तथा चाष्टौ श्वयथुं पवनात्मकम् ॥ ६४ ॥ विंशतिं मूत्रकृच्छ्राणि दुष्टनाडीव्रणानि च । हन्त्यष्टादश कुष्ठानि सप्त चैव महाक्षयान् ॥ ६५ ॥ कासं श्वासं तथा हिक्कां हृच्छूलं छर्द्यरोचकम् । गुल्मांश्च पाण्डुरोगं च जयेत्पञ्च प्रकारजम् ॥ ६६ ॥ चत्वारो ग्रहणीदोषाः षडर्शांसि तथैव च । सर्वांस्तान्नाशयत्याशु तमः सूर्योदयो यथा ॥ ६७ ॥ तथाऽर्बुदं गण्डमालां विद्रधिं सभगन्दरम् । हरते सर्वरोगांश्च वृक्षमिन्द्राशनिर्यथा । योगोत्तमेति विख्याता गुटिका वैद्यपूजिता ॥ ६८ ॥ प्रमेहे कर्पूरादिगुटिका । कर्पूरशृङ्गीमनुमत्तबीजं जातीफलं लोहमृताभ्रकं च । रसोऽथ गन्धं त्रपु नागशुल्बे एला विषं धान्यकटुत्रिकं च ॥६९॥ तालीसपत्रं त्वथ नागपुष्पं तमालपत्रं कपिकच्छुबीजम् । सत्त्वंगुडूच्याः क्षुरकस्य बीजं वटी विधेया सितया समेता ॥७०॥ वातप्रमेहं सकफं सपित्तं श्वासं च कासं बहुसन्निपातान् बलं च हीनं खरमङ्कजाख्यं निहन्ति कामं खलु दीपयत्यपि ॥७१ गुल्मे गुडवटकाः । गुडविश्वौषधपथ्यामागधिकादाडिमैः कृता गुटिकाः । विनिहन्ति भक्ष्यमाणा गुल्मार्शोवह्निसादगदान् ॥ ७२ ॥ पाण्डुरोगे क्षारवटकाः । शृङ्गवेरविडङ्गानि पिप्पली मरिचानि च । नीलीपत्रं पृथकपर्णी हरिद्राद्वयमेव च ॥ ७३ ॥ मञ्जिष्ठा भद्रमुस्तं च शिग्रुबीजानि चित्रकम् । देवदारुं वचा दन्ती त्रिफला हस्तिपिप्पली ॥ ७४ ॥