गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 255, कुल 286 में से
संदर्भ में पढ़ेंगुटिकाधिकारः ४.] गदनिग्रहः । २३५ शालिपर्णी मधुरसा द्राक्षा कटुकरोहिणी । भल्लातकानीन्द्रयवा बृहत्यौ द्वे दुरालभा ॥ ७५ ॥ शतावरी विशल्या च पाठा भार्गी हरेणुका । एतानि समभागानि सर्वाण्येकत कारयेत् ॥ ७६ ॥ यावन्त्येतानि चूर्णानि द्विस्तावत्स्यादयोरजः । क्षारं च यावशूकानां ततो द्विगुणमावपेत् ॥ ७७ ॥ गोमूत्रयुक्तांस्तान्कुर्याद्वटकानक्षसंमितान् । खादेदेकं ततो द्वौ वा सुखं चानु पिबेज्जलम् ॥ ७८ ॥ अर्शांसि ग्रहणीदोषं पाण्डुरोगं भगन्दरम् । श्वयथुं श्वासकासौ च कृमिदोषांश्च नाशयेत् ॥ ७९ ॥ व्याधितस्य बलं ज्ञात्वा गवां मूत्रेण दापयेत् । पाण्डुरोगं निहन्त्याशु ब्रह्मदण्ड इवोद्धतम् ॥ ८० ॥ विश्रुताः क्षारवटकाः प्रयोज्याः सिद्धिमिच्छता । एष शङ्करणो योगो वैद्यानामर्थकृत्तथा ॥ ८१ ॥ कुष्ठे पथ्यावटकाः । पथ्यां सेन्द्रयवां सर्किंशुकफलां सार्की तथाऽऽवर्त्तकीं व्याधिघ्नेन तु योजितां हुतभुजा सारुष्करां बाकुचीम् । तद्वच्च क्रिमिशत्रुणाप्युपगतामेकैकवृद्धानिमान् गोमूत्रेण विमृद्य तुल्यतुवरान्कुष्ठी वटान्भक्षयेत् ॥ ८२ ॥ निहन्ति हतनासिकाकरजकर्णपादाङ्गुलि- क्षरद्रुधिरपूतिपूयपरिजग्धजन्तुव्रणान् । प्रभिन्नचिरलक्षितखरमशेषकुष्ठं मह- न्निहन्ति कुरुतेऽरुणावर्कवपुषं नरं योगतः ॥ ८३ ॥ ज्वरे फलत्रिकाद्यो मोदकः । फलत्रिकगुडव्योषशर्करात्रिवृतादिकम् । मोदकं भक्षयित्वाऽनुपिबेत्कोष्णं जलं पुनः । पार्श्वशूलेऽरुचौ कासे ज्वरे चानिलसंभवे ॥ ८४ ॥