गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 258, कुल 286 में से
संदर्भ में पढ़ें२३८ आयुर्वेदियग्रन्थमाला । [परिशिष्टे एषामर्धपलैर्भागैः पलानि दश गुग्गुलोः । संमिश्र्य सर्पिषा सार्धं गुटिकां कारयेद्बुधः ॥ १०४ ॥ भक्षयित्वा ससर्पिष्कां जीर्णे च प्रमिताशनम् । वातश्लेष्मविकारेषु नाडीदुष्टव्रणेषु च ॥ १०५ ॥ श्लेष्मकासे च शोफे च योगमेनं प्रयोजयेत् । जठरे योनिशूलेषु त्वन्तर्भूतं च विद्रधिम् ॥ १०६ ॥ पार्श्वशूलं कृमीन् गुल्मान्प्रमेहान् छर्द्यरोचकौ । केवलानिलजात्रोगानशीतिं श्लैष्मिकानपि । विंशतिं नाशयत्याशु रसायनमनुत्तमम् ॥ १०७ ॥ गुल्मे त्रिवृताद्या गुटिका । त्रिवृत्पलं हिङ्गुकर्षस्त्रिक्षारस्य पलत्रयम् । यवान्यजाजीमरिचं धान्यकं शितिवारकम् ॥ १०८ ॥ उपकुञ्चीविडङ्गाजमोदाश्चार्धपलोन्मिताः । पृथक्पलद्वयं दद्यादम्लवेतसजं रजः ॥ १०९ ॥ मातुलुङ्गरसैनेषां गुटिकां कारयेद्भिषक् । सुखाम्बुनाम्लैर्मन्थैर्वा पिबेत्क्षीरेण सर्पिषा ॥ ११० ॥ काङ्कायनोक्तगुटिका वातगुल्मविनाशिनी । गोमूत्रयुक्ता कफजं पयसा पित्तसंभवम् ॥ १११ ॥ त्रिफलारसमूत्रैस्तु निहन्यात्सान्निपातिकम् । रक्तगुल्मे तु नारीणामुष्ट्रीदुग्धेन वा पिबेत् ॥ ११२ ॥ कृष्णाद्या गुटिका । कृष्णाशताह्वाशुण्ठीनां साभयानां पलं पलम् । गुडस्य षट्पलान्येषा गुटिका भ्रमनाशिनी ॥ ११३ ॥ इति श्रीवैद्यसोढलग्रथिते गदनिग्रहे परिशिष्टे गुटिकाधिकारश्चतुर्थः समाप्तः ।