गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 259, कुल 286 में से
संदर्भ में पढ़ेंअवलेहाधिकारः ५.] गदनिग्रहः । २३९ अथ परिशिष्टे पञ्चमोऽवलेहाधिकारः। शोषे पिप्पल्याद्योऽवलेहः । कृष्णाचूर्णं क्षिपेत्प्रस्थं सिताप्रस्थद्वयं तथा । प्रस्थार्धं गोघृतं चैव कुडवं माक्षिकं तथा ॥ १ ॥ दुग्धाढकोनसंयुक्तं यथोक्तं विपचेद्भिषक् । चातुर्जातपलं चैकं चूर्णमेतद्विनिक्षिपेत् ॥ २ ॥ प्रत्युषे भक्षयेन्नित्यं ततः कार्यं समाचरेत् । हन्त्यष्टादश कुष्ठानि क्षयमेकादशात्मकम् ॥ ३ ॥ पञ्चकासान् तथा श्वासान् पाण्डुं प्लीहमपंस्मृतिम् । मूत्रकृच्छ्रं तथा रक्तं शुक्रदोषं तथा जराम् ॥ ४ ॥ धातुक्षयं च मन्दाग्निं व्याधिं परमदुस्तरम् । सर्वांस्तानाश्यत्याशु तमः सूर्योदयो यथा ॥ ५ ॥ सुभगो दर्शनीयश्च स गच्छेदप्रमदाशतम् । रसायनमिदं श्रेष्ठमश्विभ्यां परिकीर्तितम् ॥ ६ ॥ शोषे द्वितीयो पिप्पल्याद्यवलेहः । प्रस्थं पिप्पलीमादाय क्षीरं चैव चतुर्गुणम् । अर्धाढकं घृतं गव्यं शुद्धखण्डात्तथाऽऽढकम् ॥ ७ ॥ पचेन्मृद्वग्निना तावद्यावत्पाकमुपागतम् । शीतीभूते क्षिपेत्तस्मिंश्चातुर्जातपलत्रयम् ॥ ८ ॥ योजयेन्मात्रया दोषधात्वग्निबलसात्म्यतः । बल्यो वृष्यस्तथा हृद्यो धातुपुष्टिकरः परः ॥ ९ ॥ जीर्णज्वरहरश्चैव स्त्रियं चैव तु बृंहयेत् । छर्दितृणारुचिश्वासशोषहिक्काः सकामलाः ॥ १० ॥ हृद्रोगं पाण्डुगुल्मं च प्रदरं च त्रिदोषजम् । शोणितानिलकार्श्यं च रक्तपित्तं नियच्छति ॥ ११ ॥ सक्ताभ्यासयोगेन वलीपलितवर्जितः ।