भारतकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

अवलेहाधिकारः ५.] गदनिग्रहः । २३९ अथ परिशिष्टे पञ्चमोऽवलेहाधिकारः। शोषे पिप्पल्याद्योऽवलेहः । कृष्णाचूर्णं क्षिपेत्प्रस्थं सिताप्रस्थद्वयं तथा । प्रस्थार्धं गोघृतं चैव कुडवं माक्षिकं तथा ॥ १ ॥ दुग्धाढकोनसंयुक्तं यथोक्तं विपचेद्भिषक् । चातुर्जातपलं चैकं चूर्णमेतद्विनिक्षिपेत् ॥ २ ॥ प्रत्युषे भक्षयेन्नित्यं ततः कार्यं समाचरेत् । हन्त्यष्टादश कुष्ठानि क्षयमेकादशात्मकम् ॥ ३ ॥ पञ्चकासान् तथा श्वासान् पाण्डुं प्लीहमपंस्मृतिम् । मूत्रकृच्छ्रं तथा रक्तं शुक्रदोषं तथा जराम् ॥ ४ ॥ धातुक्षयं च मन्दाग्निं व्याधिं परमदुस्तरम् । सर्वांस्तानाश्यत्याशु तमः सूर्योदयो यथा ॥ ५ ॥ सुभगो दर्शनीयश्च स गच्छेदप्रमदाशतम् । रसायनमिदं श्रेष्ठमश्विभ्यां परिकीर्तितम् ॥ ६ ॥ शोषे द्वितीयो पिप्पल्याद्यवलेहः । प्रस्थं पिप्पलीमादाय क्षीरं चैव चतुर्गुणम् । अर्धाढकं घृतं गव्यं शुद्धखण्डात्तथाऽऽढकम् ॥ ७ ॥ पचेन्मृद्वग्निना तावद्यावत्पाकमुपागतम् । शीतीभूते क्षिपेत्तस्मिंश्चातुर्जातपलत्रयम् ॥ ८ ॥ योजयेन्मात्रया दोषधात्वग्निबलसात्म्यतः । बल्यो वृष्यस्तथा हृद्यो धातुपुष्टिकरः परः ॥ ९ ॥ जीर्णज्वरहरश्चैव स्त्रियं चैव तु बृंहयेत् । छर्दितृणारुचिश्वासशोषहिक्काः सकामलाः ॥ १० ॥ हृद्रोगं पाण्डुगुल्मं च प्रदरं च त्रिदोषजम् । शोणितानिलकार्श्यं च रक्तपित्तं नियच्छति ॥ ११ ॥ सक्ताभ्यासयोगेन वलीपलितवर्जितः ।

२४० आयुर्वेदौयग्रन्थमाला । क्षयादिरोगे रसाङ्गहरीतक्यवलेहः । हरीतक्याः शतं द्रोणे पयसि परिसाधयेत् ॥ १२ ॥ घृतावशेषमुत्तार्य निष्कुलीकृत्य च क्रमात् । रसगन्धकलोहानां चूर्णेनापूर्य वेष्टयेत् ॥ १३ ॥ सूत्रेण मासमेकं तु मधुमध्ये निधापयेत् । पथ्याशी भक्षयेदेकां सर्वरोगविमुक्तये ॥ १४ ॥ खण्डार्द्रकावलेहः । सुस्विन्नाच्छृङ्गवेरात्पलशतमिनवं निस्तुषं संविधाय प्रस्थे चाज्यस्य पक्त्वा पलशतसहितं शुद्धमत्स्यण्डिकायाः । कौराङ्गी देवपुष्पं मधुदलकणानागकिञ्जल्कभृङ्गं शुक्लाजाजी सघनमरिचतुगा सार्धकर्षद्वयाः स्युः ॥ १५ ॥ तस्मिन्क्षीरं विदित्वा ज्वलनमुखगतं पात्रमुत्तार्य यत्ना- त्कृत्वा चेष्ममदशशिसुरभितं चूर्णितेनावचूर्ण्य । प्रातः शीतेऽतिमात्रं मधुकुडवयुगं सार्धमावाप्य सान्द्रं तल्लीढं हन्ति जीर्णज्वरमथ कसनं राजयक्ष्माणमेव ॥ १६ ॥ अतीसारेऽङ्कोलमूलावलेहः । पलमङ्कोलमूलस्य दशांशं बिल्वमेव च । तद्भागो राजवृक्षस्य क्वाथयमष्टगुणे जले ॥ १७ ॥ तेन पादावशेषेण फाणितं कारयेद्भिषक् । शीतीभूते प्रदातव्यं मस्तुना सहितं बुधैः ॥ १८ ॥ फाणिते दीयमाने तु सत्वरं छर्दयेद्यदा । शीतलं भोजनं देयं दध्यन्नं भक्तमेव च ॥ १९ ॥ पक्वापकमतीसारं नानावर्णं सवेदनम् । दुर्वारं ग्रहणीदोषं जयेच्चैव प्रवाहिकाम् ॥ २० ॥ अर्शसि भल्लातकावलेहः । पर्पटावल्गुजानन्तात्वचाखंदिरचन्दनम् । पाठाशुण्ठीशठीमार्थीवासाभूनिम्बवत्सकम् ॥ २१ ॥

अवलेहाधिकारः ५.] गदनिग्रहः । २४१ श्यामेन्द्रवारुणीमूर्वाविडङ्गेन्द्रयवं जलम् । हस्तिकर्ण्यमृताद्राक्षापटोलरजनीद्वयम् ॥ २२ ॥ कणारग्वधसप्ता बिल्वश्योनाकपाटलाः । एषां द्विपलिकान् भागान् जलद्रोणे विपाचयेत् ॥ २३ ॥ अष्टभागावशेषं तु कषायमवतारयेत् । भल्लातकसहस्राणि छित्त्वा द्रोणमितेऽम्भसि ॥ २४ ॥ चतुर्भागावशेषं तु कषायं परिकल्पयेत् । तौ कषायौ समादाय वस्त्रपूतौ तु कारयेत् ॥ २५ ॥ गुडस्य च तुलां दत्त्वा लेहवत्साधयेद्भिषक् । भल्लातकसहस्राणां मज्जानं तत्र दापयेत् ॥ २६ ॥ त्रिकटुत्रिफलामुस्तसैन्धवानां पलं पलम् । सौगन्धिकस्य दातव्यं चूर्णं पलचतुष्टयम् ॥ २७ ॥ दीप्यकस्य पलं चैव चातुर्जातं पलांशकम् । संचूर्ण्य प्रक्षिपेत्कोष्णे घृतभाण्डे निधापयेत् ॥ २८ ॥ महाभल्लातको ह्येष महादेवेन निर्मितः । प्राणिनां च हितार्थं वै जयेच्छीघ्रं निषेवितः ॥ २९ ॥ श्वित्रमौडुम्बरं सिध्मं रुक्षजिह्वं च काकणम् । पुण्डरीकं च चर्माख्यं विस्फोटं रक्तमण्डलम् ॥ ३० ॥ कृच्छ्रं कापालिकं कृष्णं पामां चैव विपादिकाम् । वातरक्तमुदावर्तं पाण्डुरोगं वमिं कृमिम् ॥ ३१ ॥ अर्शांसि षट्प्रकाराणि कासं श्वासं भगन्दरम् । समाभ्यासेन पलितमामवातं सुदुर्जयम् ॥ ३२ ॥ कुरुते च परां कान्तिं प्रदीप्तं जठरानलम् । अनुपाने प्रयोक्तव्यं छिन्नातोयं पयोऽथवा । भोजने च सदा त्याज्यमुष्णं चाम्लं विशेषतः ॥ ३३ ॥ ३१

२४२ आयुर्वेदीयग्रन्थमाला । अतीसारे कुटजाष्टकावलेहः । तुलामथार्द्रां गिरिमल्लिकायाः संक्षुद्य पक्त्वा रसमाददीत । तस्मिन् सुपूते पलसंमितानि श्लक्ष्णानि पिष्ट्वा सह शाल्मलेन ॥ ३४ ॥ पाठासमङ्गातिविषाः समस्ता बिल्वं च पुष्पाणि च धातकीनाम् । प्रक्षिप्य भूयो विपचेत्तु ताव- दर्वीप्रलेपं सुरसं च यावत् ॥ ३५ ॥ पीतस्त्वसौ कालविदा जलेन मण्डेन वाऽजापयसाऽथवाऽपि । निहन्ति सर्वं त्वतिसारमुग्रं कृष्णसितं लोहितपीतकं वा ॥ ३६ ॥ दोषं ग्रहण्या विविधं च रक्त- पित्तं तथाऽर्शांसि सशोणितानि । असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् ॥ ३७ ॥ धातुक्षये मधुपकामलकी । धात्रीफलानि भव्यानि तीक्ष्णलोहेन वेधयेत् । विश्वावरणपत्रैश्च फलैश्च खेदयेद्दृशम् ॥ ३८ ॥ उष्णोदकेन संस्वेद्य पानीयेन ततः परम् । मधुमध्ये क्षिपेद्भाण्डे स्थापयेद्दिनविंशतिम् ॥ ३९ ॥ ततो मधु संत्यज्य मधुमध्ये पुनः क्षिपेत् । शर्करां धात्रीफलान्युपरि च न्यसेत् ॥ ४० ॥ ...... मुखोपरि धारयेत् । ...... पुंसां बलक्षये ॥ ४१ ॥

अवलेहाधिकारः ५.] गदनिग्रहः । २४३ वाजीकरणमत्युग्रं फलानां सेवनं सदा । वीर्यवृद्धिकराण्याहुर्बुद्धिवृद्धिकराणि च ॥ ४२ ॥ त्वग्दोषं पित्तकोपं च शमयन्ति न संशयः । स्वरभङ्गे कुलिञ्जनाद्योऽवलेहः । कुलिञ्जनं समानीय नवीनं पलविंशतिम् । तुलाद्वये जले क्वाथ्यं तुलार्धमवशेषयेत् ॥ ४३ ॥ वस्त्रपूते जले तस्मिन् चूर्णान्येतानि दापयेत् । कट्फलं पौष्करं भार्गी पञ्चकोलं कटुत्रिकम् ॥ ४४ ॥ त्रिफला च विडङ्गं च धान्यकं जीरकद्वयम् । वासा करञ्जः शिखरी प्रत्येकं च पलद्वयम् ॥ ४५ ॥ सवार्धां प्रक्षिपेच्छुद्धां शर्करां गुडमेव च । हन्त्ययं पञ्चकासांश्च हिक्का अपि सवेदनाः ॥ ४६ ॥ स्वरभङ्गं महाघोरं कण्ठरोगं मुखामयम् । मन्दाग्निं च प्रतिश्यायं स्वरभङ्गं विशेषतः ॥ ४७ ॥ कासे भार्ग्याद्यवलेहः । भार्गी हरीतकीं वासां कण्टकारीं तथैव च । प्रत्येकं प्रस्थमादाय द्रोणेऽपां साधयेद्भिषक् ॥ ४८ ॥ क्वाथे पादावशेषे तु गुडं प्रस्थमितं क्षिपेत् । ततः पाकघनीभूते शीतेऽर्धकुडवं मधु ॥ ४९ ॥ पिप्पलीं कट्फलं शृङ्गीं मधुयष्टिं लवङ्गकम् । त्वक्क्षीरीं रजनीं चैव पलार्धप्रमितां क्षिपेत् ॥ ५० ॥ एषोऽवलेहः शमेत् पञ्च कासान् सुदारुणान् । हृद्रोगे चन्दनावलेहः । मातुलुङ्गरसप्रस्थं प्रस्थार्धं दाडिमाद्रसः ॥ ५१ ॥ तत्तुल्यं नारिकेलाम्बु शर्करा कुडवद्वयम् । पाकं कृत्वा यथान्यायं सिद्धे शीते समावपेत् ॥ ५२ ॥

२४४ आयुर्वेदौयग्रन्थमाला । [परिशिष्टे चन्दनं च तुगाक्षीरीं धान्यकं सारिवां तथा । कङ्कोलकमुशीरं च कुङ्कुमं शतपत्रिकाम् ॥ ५३ ॥ सत्त्वं गुडूच्याश्च तथा कर्षमानं पृथक् पृथक् । एषोऽवलेहो हृद्रोगं भ्रमं मूर्च्छा वमिं तथा ॥ ५४ ॥ दाहं च सुमहाघोरं शमयेन्नात्र संशयः । धातुक्षयेऽश्वगन्धाद्यवलेहः । अश्वगन्धा गोक्षुरश्च शतवीर्या विदारिका ॥ ५५ ॥ बलाबीजानि यष्ट्याह्वं बीजानिक्षुरकस्य च । कपिकच्छोश्च बीजानि शाल्मलीमूलकं तथा ॥ ५६ ॥ वृद्धदारुकबीजानि लवङ्गं जातिपत्रिका । जातीफलं केशरं च त्वक् पत्रं वंशरोचना ॥ ५७ ॥ एलाद्वयं कुङ्कुमं च गुडूचीसत्त्वमेव च । एतेषां कर्षमादाय मधुनः कुडवत्रयम् ॥ ५८ ॥ कृत्वा लेहं ततो मात्रां यथायोग्यां प्रदापयेत् । धातुक्षयं तथा वातं ध्वजभङ्गं नियच्छति । अनेनाशीतिवर्षोऽपि युवेव च वृषायते ॥ ५९ ॥ इति श्रीवैद्यसोढलग्रथिते गदनिग्रहे परिशिष्टे पञ्चमोऽवलेहाधिकारः । समाप्तं चेदं प्रयोगखण्डपरिशिष्टम् ।

स्नेहचूर्णगुटीलेहासवानां परिभाषा । अत्र गदनिग्रहे वैश्यवरसोढलेन घृतादिसाधनपरिभाषा नोक्ता, अतोऽध्येतॄणां सौकर्यार्थं मया संक्षेपेण परिभाषा निर्दिश्यते । तत्र पूर्वं मानपरिभाषैव ज्ञेया भवति । अतः सोच्यते— न मानेन विना युक्तिर्द्रव्याणां जायते क्वचित् । अतः प्रयोग- कार्यार्थं मानमत्रोच्यते मया ॥ यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्त- च्चतुष्टयम्। षड्भिस्तु रक्तिकाभिः स्यान्माषको हेमधान्यकौ ॥ माषै- श्चतुर्भिः शाणः स्याद्धरणं तन्निगद्यते । टङ्कः स एव कथितस्तद्वयं कोल उच्यते ॥ क्षुद्रको वटकश्चैव द्रङ्क्षणः स निगद्यते । कोलद्वयं च कर्षः स्यात्स प्रोक्तः पाणिमानिका ॥ अक्षः पिचुः पाणितलं किञ्चित्पाणिश्च तिन्दुकम् । बिडालपदकं चैव तथा षोडशिका मता ॥ करमध्यो हंसपदं सुवर्णं कवडग्रहः । उदुम्बरं च पर्यायैः कर्ष एव निगद्यते ॥ स्यात्कर्षाभ्यामर्धपलं शुक्तिरष्टमिका तथा । शुक्तिभ्यां च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका ॥ प्रकुञ्चः षोडशी बिल्वं पलमेवात्र कीर्त्यते । पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतश्च निग- द्यते ॥ प्रसृतिभ्यामञ्जलिः स्यात्कुडवोऽर्धशरावकः । अष्टमानं च स ज्ञेयः, कुडवाभ्यां च मानिका ॥ शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः । शरावाभ्यां भवेत्प्रस्थश्चतुःप्रस्थैस्तथाऽऽढकम् ॥ भाजनं कंसपात्रे च चतुःषष्टिपलं स्मृतम् । चतुर्भिराढकैर्द्रोणः कलशो नलवणोऽर्मणः ॥ उन्मानं च घटो राशिर्द्रोणपर्यायसंज्ञकाः । द्रोणाभ्यां सूर्पकुम्भौ च चतुःषष्टिशरावकः ॥ सूर्पाभ्यां च भवे- द्रोणी वहो गोणी च सा स्मृता । द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः ॥ चतुःसहस्रपलिका षण्णवत्यधिका च सा । पलानां द्विसहस्रं च भार एकः प्रकीर्तितः ॥ तुला पलशतं ज्ञेयं सर्व- त्रैष विनिश्चयः । माषटङ्काख्यबिल्वानि कुडवः प्रस्थ आढकम् । राशिर्द्रोणिः खारिकेति यथोत्तरचतुर्गुणाः ॥ युक्तिः योजना, कर्तव्यविधिरिति यावत् । यवेत्यादि अत्र परमाण्वादिमाना- कथनं तु तेषां चिकित्सायामनुपयोगादेव । सर्षपोऽत्र गौरसर्षपः । तैरष्टभिरेको यवः । यवोऽत्र निस्तुषो ग्राह्यः । चतुर्भिर्यवैरेका गुञ्जा, सा चात्र रक्ता ज्ञेया । षड्भिः रक्तगुञ्जाभिरेको माषकः । अयं च सुवर्णमाषक इति सुश्रुतादौ

प्रसिद्धः । चतुर्भिर्माषकैरेकः शाणः । द्वाभ्यां शाणाभ्यामेकः कोलः, द्वाभ्यां कोलाभ्यां चैकः कर्षः । स च संप्रति भारतवर्षे प्रचलितरूप्यकाख्यव्यावहारिक- द्रव्यपरिमितः। अतो माषशाणकोला यथाक्रमं एकाणक-आणकचतुष्टय-अर्धरूप्यक- (रु० ४-, रु० ०।-, रु० ०।।,) परिमिता ज्ञेयाः । शरावस्य 'शेर' इति नाम्ना भाषायां व्यवहारः, द्रोणस्य च 'मण' इति नाम्ना । अन्यत्स्पष्टम् । शुष्काणां स्यादिदं मानं द्विगुणं तद्रवार्द्रयोः । न द्वैगुण्यं तुला- माने पलोल्लेखागते तथा ॥ शुष्कद्रव्येषु यन्मानमार्द्रस्य द्विगुणं हि तत् । शुष्कस्य गुरुतीक्ष्णत्वं तस्मादर्धे प्रयोजयेत् ॥ शुष्कं नवीनं यद्द्रव्यं योज्यं सकलकर्मसु । आर्द्रं च द्विगुणं दद्यादेष सर्वत्र निश्चयः ॥ यत्र प्रयोगे यद्द्रव्यं शुष्कमुपयुज्यते तस्य यावन्मानं लिखितं तावन्मितमेव तद्ग्राह्यं; तदेव यद्यार्द्रमुपयुज्यते तदोक्तमानापेक्षया द्विगुणं ग्राह्यं; यच्च द्रव्यं क्षीर- तोयादिकं द्रवमेवोपयुज्यते तदप्युक्तमानापेक्षया द्विगुणं ग्राह्यं; एतच्च द्रवार्द्रयोर्द्वैगुण्यं रक्तिकादौ कुडवादौ च सर्वत्रैव ज्ञेयं; परं यत्र तुलामानं यत्र वा पलशब्देन मानो- ल्लेखः यथा-'रोहितकत्वचः श्रेष्ठात्पलानां पञ्चविंशतिः' इत्यादौ तत्र तु द्रवार्द्रयोर्द्वैगुण्यं न कार्यम् । यत्तु “गुञ्जादिमानमारभ्य यावत्स्यात्कुडवस्थितिः । द्रवार्द्र- शुष्कद्रव्याणां तावन्मानं समं मतम् ॥ प्रस्थादिमानमारभ्य द्विगुणं तद्द्रवार्द्रयोः”—इति तन्न प्रमाणं, युक्तिविरोधाच्चरकसुश्रुतविरोधाच्च । येषां तु द्रव्याणामार्द्रतायामेव नियमतः प्रयोगो न शुष्कतायां, तेषामाद्रीणां द्वैगुण्यं न कार्यं; आर्द्रतायामेवैषामुपयोगस्तु तदवस्थायामेवैषामुत्कृष्टवीर्यत्वात् । तानि च यथा— “गुडूची कुटजो वासा कूष्माण्डं च शतावरी । अश्वगन्धा- सहचरौ शतपुष्पा प्रसारणी ॥ प्रयोक्तव्या सदैवार्द्रा द्विगुणं नैव कारयेत्—” इति । अन्यच्च—“वासानिम्बपटोलकेतकिबलाकुष्मा- ण्डकेन्दीवरीवर्षाभूकूटजाश्वगन्धसहितास्ताः पूतिगन्धामृताः । मांसं नागबला सहाचरपुरौ हिङ्ग्वार्द्रके नित्यशो ग्राह्यास्तत्क्षण- मेव न द्विगुणिता ये चेक्षुजाता घनाः”—इति । अथ भेषजादिग्रहणसंकेतः—लवणं सैन्धवं प्रोक्तं चन्दनं रक्तचन्द- नम् । चूर्णलेहासवस्नेहाः साध्या धवलचन्दनैः ॥ कषायलेपयोः प्राप्तो युज्यते रक्तचन्दनम् । पयःसर्पिःप्रयोगेषु गव्यमेव हि गृह्यते ॥ शकृद्रसो गोमयकं मूत्रं गोमूत्रमुच्यते । सिद्धार्थः सर्षपे ग्राह्य उत्पले नीलमुत्पलम् ॥ कालेऽनुक्ते प्रभातं स्यादङ्गेऽनुक्ते

जटा भवेत् । भागेऽनुक्ते च साम्यं स्यात् पात्रेऽनुक्ते च मृण्मयम् ॥ द्रवेऽनुक्ते जलं ग्राह्यं तैलेऽनुक्ते तिलोद्भवम् । एकमप्यौषधं योगे यस्मिन्त्यत्पुनरुच्यते ॥ मानतो द्विगुणं ग्राह्यं तद्द्रव्यं तत्त्वदर्शिभिः । व्याधेरयुक्तं यद्द्रव्यं गणोक्तमपि तत्यजेत् ॥ अनुक्तमपि युक्तं यद्यो- जयेत्तत्र तद्बुधः । कदाचिद्द्रव्यमेकं वा यदि योगे न लभ्यते ॥ तत्त- द्गुणयुतं द्रव्यं परिवर्तेन गृह्यते । द्रव्याभावे तु तत्तुल्यं द्रव्यमेव प्रदीयते ॥ न्यग्रोधादेस्त्वचो ग्राह्या सारः स्याद्वीजकादितः । तालीसादेश्च पत्राणि फलं स्यात्त्रिफलादितः ॥ धातक्यादेश्च पुष्पाणि स्नुह्यादेः क्षीरमाहरेत् । महान्ति यानि मूलानि काष्ठगर्भाणि यानि च ॥ तेषां तु वल्कलं ग्राह्यं सूक्ष्ममूलानि कृत्स्नतः । जाङ्गलानां वयःस्थानां चर्मरोमनखादिकम् ॥ क्षीरमूत्रपुरीषाणि जीर्णाहारे तु ग्राहयेत् । चतुष्पात्सु स्त्रियः श्रेष्ठाः पुमांसो विहगेषु च ॥ वल्मीक- कुत्सितानूपश्मशानोषरमार्गजाः । जन्तुवह्निहिमव्याप्ता नौषध्यः कार्यसाधिकाः ॥ शरद्यखिलकार्यार्थं ग्राह्यं सरसमौषधम् । विरे- कवमनार्थं च वसन्तान्ते समाहरेत् ॥ अथ स्नेहपाकपरिभाषा—अत्राह सुश्रुतः,—“स्नेहाच्चतुर्गुणो द्रवः, स्नेह- चतुर्थांशो भेषजकल्कः, तदेकध्यं संसृज्य विपचेदित्येष स्नेहपाक- कल्पः । भवति चात्र—स्नेहभेषजतोयानां प्रमाणं यत्र नेरितम् । तत्रायं विधिरास्थेयो निर्दिष्टे तत्तदेव तु” इति । स्नेहाच्चतुर्गुणो द्रव इति वचनं एकद्वित्रिद्रवेषु चतुर्गुणत्वन्यूने स्नेहसाधननिषेधार्थं, नतु पञ्चप्रभृतिद्रवेषु चतुर्गुणाधिक्ये प्रतिषेधार्थं, तेन यत्रैकेन द्रवेण पाकस्तत्रैकेनैव चातुर्गुण्यं, यत्र द्वाभ्यां द्वाभ्यां स्नेहपाकस्तत्र स्नेहद्विगुणाभ्यां ताभ्यां चातुर्गुण्यं, यत्र त्रिभिर्द्रवैः स्नेहपाकस्तत्र त्रिभिः मिलितैश्चातुर्गुण्यं, यत्र तु चतुर्भिर्द्रवैः स्नेहपाकस्तत्र स्नेह- समैश्चतुर्भिंश्चातुर्गुण्यमिति । यत्र तु पञ्चप्रभृतीनि द्रवाणि तत्र तु सर्वाणि स्नेह- समान्येव ग्राह्याणि । तत्र क्षीरे विशेषः-, यत्र द्रवान्तरं नोक्तं तत्र क्षीरं चतुर्गुणम् । द्रवान्तरप्रयोगे तु क्षीरं स्नेहसमं मतम्-इति । अस्या- यमर्थः—यत्र केवलेन क्षीरेणैव पाकस्तत्र क्षीरमेव चतुर्गुणं दत्त्वा स्नेहः साध- नीयः । यत्र तु एकद्रवान्तरयुतेन क्षीरेण पाकस्तत्र क्षीरं स्नेहसमं द्रवान्तरं च स्नेहत्रिगुणमिति मिलित्वा स्नेहचतुर्गुणेन द्रवेण पाकः, यत्र च द्रवान्तरद्वययुतेन क्षीरेण पाकस्तत्र क्षीरं स्नेहसमं द्रवान्तरद्वयं च स्नेहसार्धमिति मिलित्वा स्नेहचतु- र्गुणेन द्रवेण पाकः, यत्र द्रवान्तरत्रययुतेन क्षीरेण पाकस्तत्र क्षीरं द्रवान्तरत्रयं च स्नेहसममिति प्रत्येकं मिलितैश्चतुर्गुणैः स्नेहपाकः । तदूर्ध्वं चतुःप्रभृतिद्रवान्तरयोगे

४ क्षीरं द्रवान्तरं च प्रत्येकं स्नेहसमं दत्त्वा पाको निष्पादनीयः। अथ कल्कमानावपादः- “वृषादिकुसुमैः कल्कैर्यत्रोक्तं स्नेहसाधनम्। कल्काढ्यत्वात्तु पादार्धं तत्र कल्कं प्रदापयेत्” इति । यत्र स्नेहे कल्को नोक्तस्तत्र केवलेन द्रवेणैव चतुर्गुणेन स्नेहसाधनम् । यदुक्तं—“अकल्कः खलु यः स्नेहः स साध्यः केवले द्रवे” इति । यत्र योगे द्रव्यगण एव निर्दिष्टः क्वाथो वा कल्को वा न निर्दिष्टस्तस्मिन्ननिर्देशे तस्माद्द्रव्यगणात्कल्कक्वाथावुभावपि प्रयोजयेत् । यदुक्तं सुश्रुते—“कल्कक्वाथावनिर्देशे गणात्तस्मात्प्रयोजयेत्”—इति । अत्र च गणशब्दो गणसंज्ञया यो गणः पञ्चमूलादिरुक्तस्तन्मात्रे न विवक्षितः, किंतु त्रिप्रभृतिद्रव्यसमूहे विवक्षितः, गणात्तस्मादित्युक्तेः । एतेन यत्रैकेन द्रव्येण द्रव्य- द्वयेन वा पाकस्तत्र कल्केनैव, यत्र तु त्रिप्रभृतिभिर्द्रव्यैः पाकस्तत्र क्वाथकल्काभ्या- मुभाभ्यामिति ज्ञेयम् । स्नेहसाधने क्वाथकल्पनोक्ता सुश्रुतेन—“तत्र यथायोगं त्वक्पत्रफलमूलादीनामातपपरिशोषितानां छेद्यानि खण्डशश्छेद- यित्वा भेद्यान्यणुशो भेदयित्वाऽवकुट्याष्टगुणेन षोडशगुणेन वाऽम्भसाऽभिषिच्य स्थाल्यां चतुर्थांशावशिष्टं क्वाथयित्वाऽपहरे- दित्येष कषायपाककल्पः” इति । अत्राष्टगुणतोयं मृद्वादिसंघाताभिप्रायेण द्रवद्वैगुण्येनैवोक्तम् । यदुक्तमन्यत्र—“मृदौ चतुर्गुणं देयं कठिनेऽष्टगुणं जलम् । कठिनात्कठिनं यच्च तत्र षोडशिकं जलम् ॥ मृद्वादौ द्रव्य- संघाते मानानुक्तौ चिकित्सकाः । मध्यस्थोभयभागित्वादिच्छन्त्य- ष्टगुणं जलमिति । तथा—क्वाथ्यादष्टगुणं वारि, पादस्थं स्याच्चतुर्गु- णम् । स्नेहात्, स्नेहसमं क्षीरं, कल्कस्तु स्नेहपादिकः । चतुर्गुणं त्वष्टगुणं द्रवद्वैगुण्यतो भवेत्” इति । यत्र क्वाथ्यद्रव्यमानमल्पमष्टगुणे तोये क्वाथकरणे स्नेहचतुर्गुणः क्वाथो न भवति तत्रोक्तमानेन क्वाथ्यद्रव्यं गृहीत्वा षोडशगुणे तोये क्वाथयित्वा पादशेषं स्नेहचतुर्गुणं कुर्यादित्यभिप्रायेणोक्तं षोडश- गुणेन वाऽम्भसाऽभिषिच्येति । “अथवा तत्रोक्तद्रोणे त्वक्पत्रमूलादीनां तुलामावाप्य चतुर्थांशावशिष्टमपहरेदित्येष कषायपाककल्पः । तुलाद्रव्ये जलद्रोणो द्रोणे द्रव्यतुलाऽम्भसि । ततः पलशते द्रव्ये जलद्रोणोऽपि चेष्यते ॥” यत्र तुलाद्रव्यं जले पचेदित्युक्तं परं जलप्रमाणं नोक्तं, तत्र द्रोणमितं जलं ग्राह्यं; यत्र तु द्रोणमिते जले द्रव्यं पचेदित्युक्तं परं द्रव्यप्रमाणं नोक्तं, तत्र द्रव्यं तुलाप्रमाणं ग्राह्यमिति भावः । ‘अनिर्दिष्ट- प्रमाणानां स्नेहानां प्रस्थ इष्यते’ इति । स्नेहपाककालनियमः—स्नेहान् विपाच्यैव विरामयेत्तु क्षीरे द्विरात्रं स्वरसे त्रिरात्रम् । कल्के कषायेषु च पञ्चरात्रं दध्य़ारनाले पुनरे- करात्रम् ॥ अस्यायमर्थः—क्षीरादिद्रवाणि कल्कं चैकत्र्यं संसृज्य विपचेत् । तत्र,

५ क्षीरं कल्कश्च यत्र तत्रैकध्यं द्वयं संसृज्य पक्त्वा द्विरात्रं विश्रामयेत्; स्वरसः कल्कश्च यत्र तत्रैकध्यं द्वयं संसृज्य पक्त्वा त्रिरात्रं विश्रामयेत्; यत्र केवलः कल्कस्तत्र कल्कं चतुर्गुणं जलं च संसृज्य पक्त्वा पञ्चरात्रं विरामयेत्; यत्र कषायः कल्कश्च तत्रैकध्यं द्वयं संसृज्य पक्त्वा पञ्चरात्रं विरामयेत्; यत्र दधि कल्कश्च तत्रै- कध्यं द्वयं संसृज्य पक्त्वा एकरात्रं विश्रामयेत्, यत्र आरनालः कल्कश्च तत्रैकध्यं द्वयं संसृज्य पक्त्वा एकरात्रं विरामयेत्; अत्र दधिशब्दस्तक्रस्य, आरनालशब्दश्च सुरादीनां संधानविशेषाणां मूत्रादीनां च उपलक्षणम् । यत्र कल्कश्च क्षीरादीनां द्वित्र्यादिकानि द्रवाणि च तत्र कल्कं गर्मे दत्त्वा तत्तत् क्षीरादिकं प्रत्येकं दत्त्वा संसृज्य पक्त्वा स्वस्खोक्तकालं विरामयेत्, यथा-क्षीरे द्विरात्रं, स्वरसे त्रिरात्रं, कषाये पञ्चरात्रं, दध्येकरात्रं, आरनाले चैकरात्रमिति । एतच्च विशेषेण गुणा- धानार्थम् । उक्तं हि-“घृततैलगुडादींश्च नैकाहादवतारयेत् । न्युषि- तास्तु प्रकुर्वन्ति विशेषेण गुणान् यतः”—इति । विरामरात्रान्यूनत्वे तु विशेषेण गुणाधानाभावमात्रं नतु स्नेहपाकासिद्धिः, अधिके च न दोषः । सिद्धं स्नेहं वस्त्राद्गालयिलोपयुञ्ज्यात् । तत्र मृदुपाके द्रवद्भावात्क्लिष्टं सर्वथा न पीडनीयं; मध्यमे मनाक् पीडनीयं, द्रवाभावात्; खरे तु यथेष्टं पीडनीयं, द्रव- रहितत्वात् । मध्यपाकस्तु सर्वत्र प्रशस्तः । यदुक्तं,–‘वरं पाको मृदु कार्यः स्नेहादीनां न वै खरः । स पूर्णे वीर्यमादत्ते तज्जहाति खरः पुनः’ । अथ स्नेहपाकविज्ञानम् । अत्राह सुश्रुतः-अत ऊर्ध्वं स्नेहपाकक्रममु- पदेक्ष्यामः । स च त्रिविधः । तद्यथा-मृदुः, मध्यः, खर इति । तत्र स्नेहौषधिविवेकमात्रं यत्र भेषजं स मृदुः, मधूच्छिष्टमिव विशदमविलेपि च यत्र भेषजं स मध्यमः, कृष्णमवसन्नमीषद्विशदं चिक्कणं च यत्र भेषजं स खर इति । अत ऊर्ध्वं दग्धस्नेहो भवति, तं पुनः साधु साधयेत् । तत्र पानाभ्यवहारयोर्मृदुः, नस्याभ्य- अञ्जयोर्मध्यमः, बस्तिकर्णपूरणयोस्तु खर इति । भवतश्चात्र- शब्दस्योपरमे प्राप्ते फेनस्योपरमे तथा । गन्धवर्णरसादीनां संपत्तौ सिद्धिमादिशेत् ॥ घृतस्यैवं विपक्वस्य जानीयात्कुशलो भिषक् । फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत् ॥ इति ॥ अथ चूर्णपरिभाषा-अत्यन्तशुष्कं यद्द्रव्यं सुपिष्टं वस्त्रगालितम् । तत् स्याच्चूर्णं रजः क्षोदस्तन्मात्रा कर्षसंमिता ॥ चूर्णे गुडः समो देयः शर्करा द्विगुणा भवेत् । चूर्णेषु भर्जितं हिङ्गु देयं नोत्क्लेश- कृद्भवेत् ॥ लिहेच्चूर्णं द्रवैः सर्वैर्घृताद्यैर्द्विगुणोन्मितैः । पिबेच्चतु- र्गुणैरेव चूर्णमालोडितं द्रवैः ॥ चूर्णविधाने द्विविधः प्रचारो दृश्यते वृद्ध- वैद्यानाम्। तत्रैके द्वित्र्यादिद्रव्यनिष्पाद्ये चूर्णप्रयोगे प्रत्येकं द्रव्यं संचूर्ण्य वस्त्रगालितं

कृत्वा ततो यथोक्तमानेन गृहीत्वा एकीकृत्य प्रयुञ्जन्ति; अपरे तु सर्वाण्यपि द्रव्याणि यथोक्तमानानि संगृह्य एकत्र्यं संचूर्ण्य वस्त्रगालितं कृत्वा व्यवहरन्ति । बहुषु प्रयोगेषु चूर्णं जम्बीराद्र्रकादीनां रसैर्भावयेदित्युक्तं, तत्र यस्य भावना देया तस्य यदि स्वरस उपलभ्यते तदा स्वरसेनैव भावयेत्, यदा तु स्वरसो नोपभ्येत तदा “भाव्यद्रव्यसमं क्वाथ्यं क्वाथ्यादष्टगुणं जलम् । अष्टां- शशेषितः क्वाथो भाव्यानां तेन भावना—” इति परिभाषया क्वाथं निष्पाद्य तेनैव भावयेत् । भावनाविधिस्तु—“द्रवेण यावता सम्यक् चूर्णं सर्वं प्लुतं भवेत् । भावनायाः प्रमाणं तु चूर्णे प्रोक्तं भिषग्वरैः॥ दिवा दिवातपे शुष्कं रात्रौ रात्रौ निवासयेत् । शुष्कं चूर्णीकृतं द्रव्यं यथोक्तं भावनाविधिः” इति । यथोक्तं भावनाविधिरिति सप्तवारं त्रिवारमेकवारं वा यावद्वारं भावनोक्ता तावद्वारं भावयेदित्यर्थः । अनुक्ते तु सप्तवारं भावयन्ति वृद्धवैद्याः । गुटिकापरिभाषा—वटकाश्चाथ कथ्यन्ते तन्नाम गुटिका वटी । मोदको वटकः पिण्डी गुण्डी वर्तिस्तथोच्यते ॥ लेहवत्साध्यते वह्नौ गुडो वा शर्कराऽथवा । गुग्गुलुर्वा, क्षिपेत्तत्र चूर्णं तन्निर्मिता वटी ॥ कुर्याद्वह्निसिद्धेन क्वचिद्गुग्गुलुना वटीम् । द्रवेण मधुना वाऽपि गुटिकां कारयेद्बुधः ॥ यथा लेहार्थं गुडादिकं साध्यते तथैवात्र गुडः शर्करा गुग्गुलुर्वा पक्तव्यः । पाके सति चूर्णं प्रक्षिप्य वटकान् कुर्यादिति भावः । गुडपाकलक्षणं तु गदनिग्रह एव प्रोक्तम् (प्रयोगखण्ड पृ. ११८) । गुडवद्गुग्गुलोः पाकः सबन्धस्तु विशेषतः । मण्डूराणां च सर्वेषां पाकोऽयं परिकीर्तितः॥ पक्षान्तरमाह-क्वचिदिति; न सर्वत्र । अवह्निसिद्धेन कुट्टितेन गुग्गुलुना वटकाः कार्याः । अथवा द्रवेण तोयक्षीरादिना, वा मधुना क्षौ- द्रेण संप्लाव्य संमर्द्य वटिकां कारयेत् । वटिकायां गुडशर्करादीनां मानं—सिता चतुर्गुणा देया वटीषु द्विगुणो गुडः। चूर्णाच्चूर्णसमः कार्यो गुग्गुलुर्मधु तत्समम् । द्रवं च द्विगुणं देयं मोदकेषु भिषग्वरैः॥ एतच्च शर्करादीनां मानमनुक्तप्रमाणेषु प्रयोगेषु ज्ञेयम् । अवलेहपरिभाषा—क्वाथादीनां पुनःपाकाद्धनत्वं सा रसक्रिया । सोऽवलेहश्च लेहश्च तन्मात्रा स्यात्पलोन्मिता ॥ अनुक्ते सितादीनां परिमाणमुच्यते—सिता चतुर्गुणा देया चूर्णाच्च द्विगुणो गुडः। द्रवं चतुर्गुणं दद्यादिति सर्वत्र निश्चयः ॥ द्रवमिति क्षौद्रघृतादिकम् । चतुर्धा खलु निष्पाद्यते लेहः । तत्र प्रथमः दार्व्यादिद्रव्याणां सामान्यक्वाथपरिभाषया क्वाथं निष्पाद्य तं पुनर्वस्त्रगालितं यावद्धनं भवेत्तावत्पक्त्वा निष्पाद्यते, तस्य निक्षेपतो 'रसक्रिया' इति नाम्ना प्रसिद्धिः । तथाहि—“गृहीत्वा क्वाथकल्पेन

७ क्वाथं पूतं पुनः पुनः । काथयेत्फाणिताकारमेषा प्रोक्ता रसक्रिया" इति । द्वितीयस्तु क्वाथ्यद्रव्याणि यथोक्तमानेन क्वाथयित्वा तं क्वाथं वस्त्रपूतं कृत्वा, तत्र शर्करादिकं प्रक्षिप्य पुनः पक्त्वा पाके सिद्धे चूर्णं प्रक्षिप्य निष्पाद्यते । तृतीयः केवलं शर्करादिकं जले पक्त्वा सिद्धे पाके चूर्णादिकं प्रक्षिप्य निष्पाद्यते । चतुर्थस्तु चूर्णे यथोक्तमानैः क्षौद्रघृतादिभिः संप्लाव्य निष्पाद्यते । अथ लेहादौ चूर्णप्रक्षेपविचारः—प्रायो न पाकश्चूर्णानां भूरिचूर्णस्य तेन हि । आसन्नपाके प्रक्षेपः स्वल्पस्य पाकमागते ॥ आसन्नपाक इति उपस्थि- तपाके नतु पाकमापन्ने, तथा सति प्रचुरचूर्णस्य प्रवेशो न स्यादित्यर्थः । स्वल्पस्य चूर्णस्य पाकान्ते कदुष्णदशायां प्रक्षेप इति । पाकलक्षणं तु—सुपक्के तन्तु- मत्त्वं स्यादवलेहेऽप्सु मज्जनम् । स्थिरत्वं पीडिते मुद्रा गन्धवर्ण- रसोद्भवः ॥ तथा—रसो गन्धः शुभः पाके वर्त्तिः स्याद्गाढमर्दनात् ॥ इति । स्थिरत्वमिति निश्चलत्वम् । एतेन द्रवरहित इत्यर्थः । मुद्राऽत्र निम्नता । अथ आसवारिष्टपरिभाषा—द्रवेषु चिरकालस्थं द्रव्यं यत्संहितं भवेत् । आसवारिष्टभेदैस्तत्प्रोच्यते भेषजोचितम् ॥ यदपक्वौषधा- म्बुभ्यां सिद्धं मद्यं स आसवः । अरिष्टः क्वाथसिद्धः स्यात्तन्मानं द्विपलोन्मितम् ॥ अनुक्तमानारिष्टेषु द्रवद्रोणे गुडतुलाम् । क्षौद्रं दद्याद्गुडादर्धं प्रक्षेपं दशमांशिकम् ॥ प्रक्षेपं पश्चाद्देयं द्रव्यं धातकीपुष्पा- दिकं, दशमांशिकं गुडपरिमाणादित्यर्थः । क्वाथ्यद्रव्याणि द्राक्षादीनि यथोक्तमानै- र्जले निष्क्वाथ्य वस्त्रपूतं विधाय गुडादिकं धातकीकुसुमादिकं च यथोक्तमानेन प्रक्षिप्य घृतभाविते दृढे मृण्मये कुम्भे यावदर्थं प्रपूर्य पक्षं मासं वा भूमौ स्थाप्य जातरसे उद्धृत्य वस्त्रगालितं कृत्वा उपयुञ्ज्यादित्यरिष्टविधिः । आसव- करणे तु जलादौ द्रवे एव गुडादीनि प्रक्षिप्य संधानं, न क्वाथकरणम् । शेषं अरिष्टवत् । अथ भेषजमात्राविचारः—न्यूनं चेन्मात्रया द्रव्यं न व्याधीन् विनि- वर्तयेत् । मात्रयाऽधिकया युक्तं जनयेच्चापदं परम् ॥ मात्राया नास्त्यवस्थानं दोषमग्निं बलं वयः। व्याधिं द्रव्यं च कोष्ठं च वीक्ष्य मात्रां प्रयोजयेत् ॥ तथाऽल्पपशुबुद्धीनामवबोधाय तत्र तत्र यथास्थूलं मात्रा- निर्देशः कृत इति ज्ञेयम् । संप्रति मनुष्याणां अल्पदेहबलवत्त्वात् प्राचीनग्रन्थे- षूक्तमात्रापेक्षया पादप्रमाणा अर्धा वा मात्रा देया ।

ॐ आयुर्वेदीयग्रन्थमाला। (दुष्प्रापप्राचीनायुर्वेदग्रन्थानां क्रमशः प्रकाशिका मासिकपत्रिका) एषा खलु खिस्तीय १९१० वत्सरस्य नोंवेम्बरमासात् प्रतिमासं प्रसि- ध्यति । अस्यां मासिकपत्रिकायामद्यावधि क्वाप्यमुद्रिता दुष्प्रापाश्च विविधा आयुर्वेदीयग्रन्था भूयसा यत्नेन संपाद्य, बहूनामादर्शपुस्तकानां साहाय्येन संशोध्य, पाठान्तरादिभिश्च संयोज्य प्रसिद्धिं नीयन्ते । येषां ग्रन्थानां टीको- पलभ्यते ते सटीका एव मुद्राप्यन्ते, अन्येषु च विषमपदोपरि टिप्पणं दीयते । प्रतिग्रन्थं ग्रन्थकर्तुर्जन्मदेशोत्पत्तिकालादिप्रदर्शिका भूमिका, विषयानुक्रम- णिका, शुद्धिपत्रं च दीयते । मासिकेयं भारतवर्षे मुद्रणकार्यार्थे सुविख्याति- मापन्ने निर्णयसागरयन्त्रालये सुपुष्टचिक्कणपत्रोपरि (50 Pounds glaze paper) मुद्राप्यते । अस्यां प्रतिमासमेतस्या विज्ञापनपत्रिकाया अन्ते प्रदत्तादर्शपृष्ठद्वयरूपाण्यष्टचत्वारिंशत्पृष्ठानि (royal 12 P. 4 Forms.) दीयन्ते । पत्रिकेयं प्राचीनविविधायुर्वेदग्रन्थदिदृक्षूणां वैद्यजनानां कियदुपयोगार्हा संमाह्या चेति अस्यां विज्ञापनपत्रिकायां तृतीयपृष्ठमारभ्य चतुर्दशपृष्ठपर्यन्तं [मुद्रितेभ्यो] भारतवर्षस्य नानास्थलनिवासिनां वैद्यमहोदयानां प्रशंसापत्रेभ्य एव [ज्ञातव्यं] विपश्चितः । अस्या मासिकपत्रिकाया नियमाः । १ अस्या वार्षिकमूल्यं भारतवर्षब्रह्मदेशसिंहलदेशनिवासिभिर्ग्राहकैः प्रापण- मृतिसहितं रूपकत्रयं, अन्यदेशनिवासिभिश्च पादोनरूपकचतुष्टयं वर्षारम्भ एव देयं भवेत्; छात्रैस्तु यदि स्वगुरोः 'अनेनास्मत्समीपेऽधीयते' इत्येवं रूपं प्रमाणपत्रं प्रेष्येत चेत्तर्हि रूप्यकद्वयमात्रमेव देयं भवेत् । २ आदर्शाङ्कः (नमूना-Sample copy.) कस्यैचिदपि विनामूल्यं न प्रेष्यते, नच वी. पी. द्वारा । अस्या विज्ञापनपत्रिकाया अन्ते संप्रति मुद्यमानेभ्यो

रससार-राजमार्तण्ड-गदनिग्रहेभ्यः कियदंशमुद्धृत्य आदर्शरूपं पृष्ठद्वयं दत्तं, तद्दर्शनेनैव कीदृशपत्रोपरि कथंभूतैरक्षरैरियं मुद्राय्यते इत्यादिकं सुविज्ञेयमेव । तथाऽपि येषामादर्शाङ्कदर्शनेच्छा भवेत्तैराणकचतुष्टयरूपं मूल्यं प्रथममेव पोष्टद्वारा प्रेषणीयम् । ततः प्रथमवर्षस्य प्रथममङ्कमादर्शत्वेन प्रेषयिष्यामः । अन्यः कोऽप्यङ्क आदर्शत्वेन न प्रेषयितुं शक्यते । अस्यां पत्रिकायामद्यावधि प्रसिद्धीभूता ग्रन्थाः ।रसहृदयतन्त्रम्—श्रीमद्गोविन्दभगवत्पादाचार्यविरचितं, चतुर्भुजमिश्र- विरचितमुग्धावबोधिनीव्याख्यासहितम् । अस्मिन् ग्रन्थे रसस्य स्वेदन- मर्दनमूर्च्छनादीनामष्टादशसंस्काराणामतिविशदतथा वर्णनं कृतमस्ति । रसग्र- न्थेषु टीकया सह मुद्रितोऽयमाद्य एव ग्रन्थः । मूल्यमेको रूप्यकः । २ रसप्रकाशसुधाकरः—श्रीयशोधरविरचितः । अस्मिन् ग्रन्थे रसस्या- ष्टादश संस्काराः, रसबन्धभस्मविधाने, स्वर्णादिधातुमहारसोपरसरत्नादीनां लक्षणगुणशोधनमारणादिकं, एकशतरसप्रयोगाः, यन्त्रमूषापुटादीनां लक्षणानि, वाजीकरणशुक्रस्तम्भनयोगाश्चेत्यादयो रसशास्त्रप्रतिपाद्याः प्रायः सर्वेऽपि विषया अतिसरलतयोपवर्णिताः, अतोऽयं ग्रन्थोऽल्पेनायासेन रसशास्त्रतत्त्वज्ञाने भिषजामतीवोपयुक्तः । मूल्यमेको रूप्यकः । ३ गदनिग्रहस्य प्रयोगखण्डः । अस्मिन् खण्डे घृततैलचूर्णगुटीलेहास- वाख्याः षडधिकारा विद्यन्ते । तेषु षट्स्वधिकारेषु पञ्चाशीत्यधिकपञ्चशतमितः प्रत्यक्षफलदा नित्यपयोगिनश्च प्रयोगा उक्ताः । मूल्यं सार्धरूप्यकः । पुस्तकत्रयमिदं सुवर्णनामाङ्कितपटबद्धं, प्रापणव्ययस्त्वेतेषां क्रेतुरेव देयो भवेत् । पत्रिकाविषयः सर्वोऽपि व्यवहारः सुवाचैर्नागराक्षरैराङ्गलभाषया वा अधो- लिखितस्थलोपरि करणीयः । ता० १-४-१९१२ } वैद्य जादवजी त्रिकमजी आचार्य ३७२, बोराबजार स्ट्रीट, फोर्ट, मुंबई.

अथ ग्रन्थमालाया विषये विद्वद्वर्याणामभिप्रायः। आयुर्वेदीयचिकित्सकानां, जयपुरराजकीयसंस्कृतमहाविद्यालयस्य आयुर्वेद- परीक्षकाणां, चरकसंहितायाः स्वतन्त्रव्याख्याप्रणेतॄणां, वङ्गीयराॅयलएशियाटिक- समाजसदस्यानां, 'एम्. ए. विद्याभूषण' इत्याद्युपाधिविभूषितानां कविराजश्री- योगीन्द्रनाथसेनमहोदयानामभिप्रायः— दुरासदपुराणायुर्वेदग्रन्थप्रकाशने । महाधनानां जीर्णानां मणीनां संस्कृताविव ॥ १ ॥ आचार्योपाह्वय श्रीमद्भिषग्यादवशर्मणः । अतिशस्ततया भाति साधुरेष समुद्यमः ॥ २ ॥ श्रेयसा कर्मणाऽनेन केवलं भिषजां नहि । आर्याणामेव सर्वेषां सुकृतज्ञत्वमर्हति ॥ ३ ॥ द्वारकानाथकारुण्यादायुर्वेदविशारदः । सुसंस्कारेषु जीर्णानामाप्तकामो भवत्वयम् ॥ ४ ॥ प्रोत्साहनीयो विद्वद्भिः सर्वैरेष भिषग्वरः । इति योगीन्द्रनाथस्य भिषजः प्रार्थना सदा ॥ ५ ॥ कलिकातानगरवास्तव्यानां 'एम्. ए; एल्. एम्. एन्ड एस्; विद्यानिधि, कविभूषण' इत्युपाधिविभूषितानां कविराजश्रीयुतगणनाथसेनमहोदया- नामभिप्रायः— हन्त खल्वेष महानेव भाग्योदयो भिषजां यदद्य हीयमानवैद्यकज्योतिःसमु- दीपनाथ समुदिता नवीना मासिकपत्रिका वैद्यजनकण्ठललाममालेवमायुर्वेदीय- ग्रन्थमाला नाम । सेयं वैद्यवरश्रीमदाचार्ययादव-त्र्यम्बकशर्मभिः सम्पाद्यमाना नवनवग्रन्थरत्नसमुज्ज्वला परां श्रियं पुष्णाति । विशेषतश्चात्र रसहृदवादिकान- तिदुर्लभान् ग्रन्थान् प्रकाश्यमानानालोक्य परां कोटिमानन्दस्याध्यगमम् । यथा चास्याः संपादकप्रवरैर्बद्धपरिकरं प्रयतते ग्रन्थसंग्रहाय तथा चिरायुष्मत्याऽनया पत्रिकया महानेवोपकारः संपत्स्यतेऽचिरेणेति साग्रहमाशास्ते— Calcutta, } कलिकातावास्तव्यः Dt. 1-12-1910. } श्रीगणनाथसेनः

४ सुश्रुतसंहितायाः सुश्रुतार्थसंदीपनभाष्याख्यव्याख्याप्रणेतॄणां राजशाहीवास्त- व्यानां कविराजश्रीहारणचन्द्रशर्मचक्रवर्तिनामभिप्रायः— श्रीश्रीशः शरणम् । वैद्य श्रीयादवजी त्रिविक्रमजी महोदयं प्रति यथाविहितसम्मानपुरःसरं विनि- वेदयति— तत्र भवद्भिः प्रेषितामायुर्वेदीयग्रन्थमालानाम्नीं पत्रिकामवाप्य नितरां परि- तुष्टोऽस्मि । भारतीयानां दौर्भाग्यवशाच्चिरन्तनैर्भिषग्भिरुपनिबद्धा बहवो ग्रन्था विलुप्तिमापुः । ये च केचन लुप्तप्राया राजपुरुषाणां प्रयत्नात् यथाकथमपि मुद्रिताः समुपलभ्यन्ते त एवेदानीं पाश्चात्यविज्ञानदृप्तेऽपि देशे भारतीयार्याणां वैद्यकविद्यायामतितरां नैपुण्यविशेषमाख्यापयन्ति । अधुनापि बहवो ग्रन्था अमुद्रिता आकरगता मणय इव न जातु जनानामुपकारायौयुर्वेदस्य गौरववर्धनाय वा प्रभवन्ति । धन्योऽसि त्वं यज्जनहितेच्छया रक्षार्थं चायुर्वेदतन्त्राणाममुद्रितांस्तां- स्तान् प्राचीनान् ग्रन्थान् बहुप्रयासेनोपसंगृह्य प्रतिमासमायुर्वेदीयग्रन्थमालायां प्रकाशयसीति । सांवत्सरिकमूल्यमप्यस्या नातिदुर्बहम् । नह्यपायान्तरेण रूप्य- कत्रयव्ययात् कथमपि रसहृदयादिकास्ते ते दुर्लभा ग्रन्थाः शक्यन्ते नाम दृष्टिपथमप्यारोहयितुम् । प्रतिग्रन्थं सुयुक्तिपूर्णा भूमिका दुरूहार्थबोधिका टिप्प- न्यपि वर्तेत इति सानन्दमभिनन्दयामि । पत्रिकेयं सर्वथायुर्वेदानुशीलयि- तॄणामुपयोगिनी भविष्यतीति परमाशासे इति । $\left.{l}राजशाही ६ डिसें० १९१० सः\right}$ श्रीहारणचन्द्रचक्रवर्ती । जयपुरराजकीयसंस्कृतमहाविद्यालये आयुर्वेदप्रधानाध्यापकानां, आयुर्वेदा- चार्योपाधिभृतां राजवैद्य पं० श्रीलक्ष्मीराम स्वामी महोदयानामभिप्रायः— अद्य प्रादुर्भूतमान्तरिकमानन्दं बहिः प्रकाशयन् सत्यं सन्तोषमावहामि । यतो हि बहोः कालादुपेक्षापथमारोपिते विषये साम्प्रतं समाजे लोकानां दृष्टि- पातः । नैतदवधि परमोपयोगिनः खल्वायुर्वेदशास्त्रस्य पुरातनग्रन्थानां प्रकाशने समभूत्समवधानम् । परमद्य नवीनमाविष्कृतामायुर्वेदीयग्रन्थमालां पश्यन् सन्तुष्यामि हृदये । एषा हि मोहमयीनगरात् प्रचरिष्यन्ती मासिकपत्रिका । एत्तस्याः खलु सम्पादका मोहमयीनगरमधिवसन्त आचार्योपाह्वा यादव- शर्मणः । एषा हि परमोपयोगिनः प्राचीनानायुर्वेदग्रन्थान् प्रकाशयितुमा- विर्भूता । एवंविधान् ग्रन्थान् प्रकाशयन्ती सैषा कियदुपकरिष्यति लोकानामिति सर्वेऽप्यनुमिन्युयुः । अस्यां हि प्रकाशयितुमभिलषितानां विरलपठनपाठनप्रचा-

राणां ग्रन्थानां परिशोधनकर्मणि बहून्यादर्शपुस्तकान्यपेक्ष्यन्त इति सम्पादक- महाशयैरवश्यमस्मिन्विषये समवधातव्यम् । सुयोग्यसम्पादकमधिगतवतीमिमा- मायुर्र्वेदविषयरसिका अवश्यमेव समाद्रियेरन्निति विश्वसिमि । चराचरगुरुः परमेश्वरः कुर्यादेनां यशस्विनीमिति निर्मायं समाशासे— जयपुर, ता. ६।१।१९११ $\qquad\qquad$ श्रीलक्ष्मीरामस्वामी जयपुरराजकीयसंस्कृतमहाविद्यालये आयुर्वेदाध्यापकानां, तर्कोपाध्यायसाहि- त्यशास्त्रिणां, अखिलभारतवर्षीयसयाजीआयुर्वेदविद्यापीठस्य द्वितीयवैद्यकसंमेलन- सभाधिपतीनामायुर्वेदविद्यानिधीनां व्यासोपाह्वयराजवैद्यभट्टगंगाधरशर्मणा मभिप्रायः— अयि सुहृद्गणा उद्घाट्यतां चक्षुर्द्दश्यतामनुपमं वस्तु गृह्यतामायुर्यततां त्रि- वर्गप्राप्तौ बहुकालात् प्राप्तोऽयमवसरः निष्पन्नोऽथैवात्मनामवितर्कितो विचारः माभवन्तु तूर्यशब्द इवार्थशून्याः । यतः शास्त्रमूलं हि ज्ञानं तन्मूला च सिद्धिः सिद्धेः फलमनामयः, तथाहि जीवानन्दनीयः श्लोकः,— “प्राग्जन्मीयतपःफलं तनुभृतां प्राप्येत मानुष्यकं, तच्च प्राप्तवतः किमन्य- दुचितं प्राप्तुं त्रिवर्गं विना । तत्प्राप्तेरपि साधनं प्रथमतॊ देहो रुजावर्जितस्तेना- रोग्यमभीप्सितं दिशतु वो देवः पशूनां पतिः ॥” इति । प्रार्थनीयतमस्य नैरूज्योपजीवनभूता नानाविधाः सद्यःफलप्रदा अदृष्टचरा अश्रुतचरा रसहृदयगदनिग्रहादयः प्राचीना आयुर्वेदग्रन्था यत्र मुद्राय्यन्ते । कृते प्रयत्न उपलभ्यमाना आयुर्वेदप्रकाशराजमार्त्तण्डपाकार्णवशालिहोत्रसमुच्चयरसक- ल्पलतारसावलि-रसपारिजात-रसेन्द्रचूडामणयो यत्रोद्धारश्च शिवकल्याणाय्य- संहिता-हितोपदेश-हिकमतप्रदीप-रोगब्बादकामरत्नानि वृक्षचिकित्सा द्रव्या- भिधानं शब्दरत्नप्रदीपो निघण्टुर्माधवनिदानस्य पद्यमयी टीका टीकान्तराणी- तरेषां राघवपाण्डवीयकाव्यमिव क्रोडीकृतार्थद्वयीकः शृङ्गारातरङ्गविलास इत्या- दयस्ते ते च वैद्यग्रन्था मुद्रापयितुमाशास्याः । सेयमायुर्वेदीयग्रन्थमाला केषां न प्रमोदमुद्वहेत् । शास्त्ररसिकानां भिषजामवश्यमादरणीया नेतरमासिकपत्रिकेव मूल्यभारं बिभर्तीति सहर्षमुपादेया । इमामायुर्वेदीयमासिकपत्रिकामवलोकमानो बहुलमावहामि संतोषम् । अस्या मासिकपत्रिकाया असंभावितप्रादुर्भावायाः संपादका आचोर्यापाहा- स्त्रिविक्रमतनुजा वैद्यप्रकाण्डा यादवशर्माणः पुरुषोत्तमाः श्लाघ्यतमाः ।

६ किं त्वेतस्यां तैस्तैराचार्यप्रवरैः समूहितान्यनेकमुनिजनस्वान्तखनिजानि विवि- धसूत्रस्यूतानि भारतीयानां हृदयङ्गमानि प्रत्नानि योगरत्नानि स्थले स्थले तत्त्वार्थावगमकैस्तत्तदौषधीनां शक्यार्थविशेषाभिधायकैरनेकार्थानां भेषजनाम्नां तन्त्रान्तरसंवादात् प्रकरणादिवशाच्चैकार्थे नियन्तृभिर्गूढवाक्यप्रसाधकैर्वाक्यैरनु- काव्यकलेशोक्तसंदिग्धार्थप्रकाशकैः परिभाषावाक्यैः सांप्रतिकोपयुज्यमानमाना- दिभिः साधनविधया च पूर्णगर्भया टिप्पण्या तथा संस्कारमर्हन्ति यथाधीयाना- श्चिकित्सकानां बटवोपि पटवो भवेयुः । नहि यथायथज्ञानमन्तरा भवन्ति प्राणाभिसरा वैद्याः; अतः संपादकमहोदयैः सहायकमहाशयैरन्तान्यैर्वा विद्व- द्वैर्य्यवरैः सान्द्रस्नेहैः संश्रियमाणानानातन्त्रैः साहाय्ये समवधेयम् । यतः सतां विभूतयः परानुपकुर्वन्ति । प्राप्तश्चायुर्वेदोद्धारसमयः । चिरस्थायिनीं क्रियादेना- मायुर्र्वेदीयग्रन्थमालामवाङ्मनसगोचरप्रभावोऽस्पष्टरूपोऽनादिमध्यनिधनः कालो- नाम भगवानित्याशीः $\left.{l}जयपुरम्. ता. २-३-११.\right}$ गङ्गाधरभट्टस्य. सर्वतन्त्रापरतन्त्राणां सुप्रसिद्धनामधेयानां मिथिलाभूषणानां नवानीवास्त- व्यानां धर्मदत्तापरनामधेयानां पण्डितश्रीबब्वाझामहोदयानामभिप्रायः— “जीवनसुखलुण्ठनैकरतानतामयदस्युप्रचयदमननिपुणभिषग्जह्वारथसूतस्य जरा- भुजगीकवलितोत्साहजनदुष्पारविविधव्याधिमकरप्रचारभीषणसंसारजलधिपार- दस्य चिकित्सावधूहृदयहृद्यरसस्य रसस्य विविधप्रक्रियाप्रकाशकानि तन्त्राणि गदनिदानप्राप्त्युपशयोपशमप्रकाशकभास्वदपूर्वायुर्वेदग्रन्थांश्च संशोध्य दुर्बोधस्थान- व्याख्यानमपि विधाय सन्निवेश्य च मासिकपत्रे मार्मिकजनलोचनगोचरतां नयता भिषग्वरेण श्रीमता यादवशर्मणा यथायमुपकृतो भैषज्यतत्त्वविविदिषुर्जुन- निचहस्तथा वर्णयितुमपेक्ष्यमाणया शेषतया रहिता वयमेतावदीशवरादभ्यर्थयामो भुचमलङ्कुर्वाणास्तुचिरं भूयासुरेतादृशा विद्वन्मणय इति” 'तृचिनाप्पल्लि' वास्तव्यानां 'अभिनवभट्टबाण' इत्युपाधिविभूषितानां व्याक- रणग्रन्थरत्नावलिसंपादकानां पं० रा. च. वि. कृष्णमाचार्याणामभिप्रायः— 'आर्याः, अधिगता संचिका अतीवानन्दयति माम् । श्रीमतामायुर्वेदग्रन्थ- प्रकठनव्यवसायश्च नितरामखिलैरप्यभिनन्दनीयः । श्रीमद्भिश्च तन्मुद्रणे शोधना- दिषु च सुबहु आधीयते श्रद्धेति मे मतिः' भवतां—कृष्णमाचार्यः ता. ३-१-१९११.

७ बळिआमण्डलान्तःपातिपनिवाग्रामवास्तव्यानां व्याकरणसाहित्यानेकशास्त्रा- वगाहनगम्भीरमतीनां 'उत्तरमोहनचरित्र'द्यनेक काव्यविरचयितॄणां पं. श्रीरमा- पतिमिश्राणामभिप्रायः— अदृष्टालभ्यानां विविधविधरोगौघनिधनं विधातॄणामद्यावधि नहि गतानामनुगुणम् प्रसिद्धिं, ग्रन्थानां प्रकटनपरैर्यादवबुधैर्हतैतद्देशीयेदृशविषयबाहुल्यविमतिः ॥ १ ॥ विधायागम्यानां विषमविषयाणां कचिदपि विशालं व्याख्यानं बुधजनविलोक्याव्यविषयम् । उपोद्घातं चादौ हतमपि महाशोकजनन- मधीतो नो वैद्येष्विति जनजनव्यापि कुमतम् ॥ २ ॥ मूल्याल्पत्वादगुणाधिक्यान्मुद्रणासुविधानात्। उपादेयत्वमप्यस्य पत्रस्य सुलभं कृतम् श्रीरमापतिमिश्रः । जयपुरराजकीयमहाविद्यालयस्याऽऽयुर्वेदाचार्यपरीक्षोत्तीर्णानां, पञ्चनदविश्व- विद्यालयालब्धशास्त्रीपदवीकानां, इन्द्रप्रस्थीय बी. एल्. आयुर्वेदविद्यालयस्य परीक्षकाणां, जींदराज्याधीशस्थापितराजकीयधर्मव्यवस्थापककमीटीसीनियरसभा- सदानां श्रीयुत पं. श्यामलालशर्ममहोदयानामभिप्रायः— वैद्य यादवजी त्रिकमजी आचार्यमहाशयं प्रति यथोचितमानपुरःसरं निवे- दयति-'आचार्य'इत्युपाधिभूषितैस्तत्र भवद्भिः श्रीयादवशर्मभिः संपाद्यमानामिमां 'आयुर्वेदीयग्रन्थमालाख्यां' मासिकपत्रिकामवलोकनेन प्रफुल्लितहृदयोऽहं विज्ञा- पयामि किञ्चिद्विद्वज्जनेषु । यदत्र मुद्रिता आयुर्वेदग्रन्था दुष्प्राप्या एव, नैवाया- वधि कुत्रापि मुद्रिताः । स्वल्पव्ययेनैव प्राप्या एषा पत्रिका आयुर्वेदरसिकजनै- रवश्यमेव संग्रहणीयेति । श्रीमन्तश्च पुरातनायुर्वेदप्रकाशनद्वारा वैद्यजनोपकार- करणाय समर्था भवन्विति याचते जगदीश्वरम् संगरुर } भवदीयः ता. २-१९११ } श्रीश्यामलालशर्मा शास्त्री आयुर्वेदाचार्यः। जयपुरराजकीयसंस्कृतमहाविद्यालयस्य आयुर्वेदाचार्यपरीक्षोत्तीर्णानां, मुंबई- स्थायुर्वेदविद्यालयस्य वाग्भटाध्यापकानां, पञ्चनदविश्वविद्यालयस्य शास्त्रीपरीक्षो- त्तीर्णानां, वैद्यकिशोरीवल्लभशर्मणामभिप्रायः— प्रियसहृदयाः ! भावत्कायुर्वेदीयग्रन्थमालानामकं मासिकपत्रमासाद्यातीव चेतस्तुष्यति । यत्र खलु दुष्प्राभा योग्याश्चायुर्वेदीया रसाह्वयादिग्रन्थाः प्रकाश्यन्ते । अपि नाम विदितमेवैतद्विदुषां यथा संप्रति प्रारब्धवशात्परम्पराप्राप्तप्रचुरपुस्तकचयानां स्वयं तान्यानुपयुञ्जानानां परेभ्यश्च प्रेक्षणमात्रार्थमप्यददानानां पुस्तककीनाशानां