गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 262, कुल 286 में से
संदर्भ में पढ़ें२४२ आयुर्वेदीयग्रन्थमाला । अतीसारे कुटजाष्टकावलेहः । तुलामथार्द्रां गिरिमल्लिकायाः संक्षुद्य पक्त्वा रसमाददीत । तस्मिन् सुपूते पलसंमितानि श्लक्ष्णानि पिष्ट्वा सह शाल्मलेन ॥ ३४ ॥ पाठासमङ्गातिविषाः समस्ता बिल्वं च पुष्पाणि च धातकीनाम् । प्रक्षिप्य भूयो विपचेत्तु ताव- दर्वीप्रलेपं सुरसं च यावत् ॥ ३५ ॥ पीतस्त्वसौ कालविदा जलेन मण्डेन वाऽजापयसाऽथवाऽपि । निहन्ति सर्वं त्वतिसारमुग्रं कृष्णसितं लोहितपीतकं वा ॥ ३६ ॥ दोषं ग्रहण्या विविधं च रक्त- पित्तं तथाऽर्शांसि सशोणितानि । असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् ॥ ३७ ॥ धातुक्षये मधुपकामलकी । धात्रीफलानि भव्यानि तीक्ष्णलोहेन वेधयेत् । विश्वावरणपत्रैश्च फलैश्च खेदयेद्दृशम् ॥ ३८ ॥ उष्णोदकेन संस्वेद्य पानीयेन ततः परम् । मधुमध्ये क्षिपेद्भाण्डे स्थापयेद्दिनविंशतिम् ॥ ३९ ॥ ततो मधु संत्यज्य मधुमध्ये पुनः क्षिपेत् । शर्करां धात्रीफलान्युपरि च न्यसेत् ॥ ४० ॥ ...... मुखोपरि धारयेत् । ...... पुंसां बलक्षये ॥ ४१ ॥