भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 261, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 261

अवलेहाधिकारः ५.] गदनिग्रहः । २४१ श्यामेन्द्रवारुणीमूर्वाविडङ्गेन्द्रयवं जलम् । हस्तिकर्ण्यमृताद्राक्षापटोलरजनीद्वयम् ॥ २२ ॥ कणारग्वधसप्ता बिल्वश्योनाकपाटलाः । एषां द्विपलिकान् भागान् जलद्रोणे विपाचयेत् ॥ २३ ॥ अष्टभागावशेषं तु कषायमवतारयेत् । भल्लातकसहस्राणि छित्त्वा द्रोणमितेऽम्भसि ॥ २४ ॥ चतुर्भागावशेषं तु कषायं परिकल्पयेत् । तौ कषायौ समादाय वस्त्रपूतौ तु कारयेत् ॥ २५ ॥ गुडस्य च तुलां दत्त्वा लेहवत्साधयेद्भिषक् । भल्लातकसहस्राणां मज्जानं तत्र दापयेत् ॥ २६ ॥ त्रिकटुत्रिफलामुस्तसैन्धवानां पलं पलम् । सौगन्धिकस्य दातव्यं चूर्णं पलचतुष्टयम् ॥ २७ ॥ दीप्यकस्य पलं चैव चातुर्जातं पलांशकम् । संचूर्ण्य प्रक्षिपेत्कोष्णे घृतभाण्डे निधापयेत् ॥ २८ ॥ महाभल्लातको ह्येष महादेवेन निर्मितः । प्राणिनां च हितार्थं वै जयेच्छीघ्रं निषेवितः ॥ २९ ॥ श्वित्रमौडुम्बरं सिध्मं रुक्षजिह्वं च काकणम् । पुण्डरीकं च चर्माख्यं विस्फोटं रक्तमण्डलम् ॥ ३० ॥ कृच्छ्रं कापालिकं कृष्णं पामां चैव विपादिकाम् । वातरक्तमुदावर्तं पाण्डुरोगं वमिं कृमिम् ॥ ३१ ॥ अर्शांसि षट्प्रकाराणि कासं श्वासं भगन्दरम् । समाभ्यासेन पलितमामवातं सुदुर्जयम् ॥ ३२ ॥ कुरुते च परां कान्तिं प्रदीप्तं जठरानलम् । अनुपाने प्रयोक्तव्यं छिन्नातोयं पयोऽथवा । भोजने च सदा त्याज्यमुष्णं चाम्लं विशेषतः ॥ ३३ ॥ ३१