गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 31, कुल 286 में से
संदर्भ में पढ़ें१० आयुर्वेदीयग्रन्थमाला । [घृताधिकार अथर्वप्रहितो दीप्तो ब्राह्मयो दण्ड इवासुरान् । विशेषतस्तु श्वित्राणि रञ्जयेच्च भिनत्ति च ॥ ८५ ॥ प्रसङ्गतः सेव्यमानं पानेनाभ्यञ्जनेन च । कुष्ठे त्रिफलाद्यं घृतम् । त्रिफला मदनं कुष्ठं शार्ङ्गष्टा रजनीद्वयम् ॥ ८६ ॥ शुकनासा काकमाची हपुषाऽतिविषा वचा । पाठा कोषातकी मूर्वा तिक्ता काकादनी घृतम् ॥ ८७ ॥ एतत्कषायकल्काभ्यां सिद्धं पीतं घृतोत्तमम् । विशीर्यमाणं विध्वस्तस्नायुकेशनखं नरम् । कुष्ठातुरं तु जनयेन्मुमूर्षुमपि निर्गदम् ॥ ८८ ॥ हसीतात्कुष्ठे आवर्तकीघृतम् । आवर्तकीमूलशतं सुसिद्धं क्वाथीकृतं कल्कपलाष्टयुक्तम् । प्रस्थं पुराणाद्धविषः सुगव्यात् पक्कं शनैः साधु तदावतार्य ॥ ८९ ॥ मात्रां पिबेद्व्याधिबलानुरूपां भुञ्जीत चान्नं सह काञ्जिकेन । दत्तोत्तरं क्रोष्टुकजं सुजीर्णे कामं पुरस्तादपरेऽह्नि शुद्धात् ॥ ९० ॥ त्रिसप्तरात्रं विधिनैवमाशु पीतं निहन्यादचिरेण कुष्ठम् । त्रैवद्रुषं मैथुनसाङ्गदेहं मण्डानुपूर्व्या विधिनाऽथ चैतत् ॥ ९१ ॥ अग्निवेशादुदर्दंशे चव्याद्यं घृतम् । चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बरूणि च । यवानी पिप्पलीमूलमुभे च विडसैन्धवे ॥ ९२ चित्रकं विल्वमध्यां पिष्ट्वा सर्पिर्विपाचयेत् ।