गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 33, कुल 286 में से
संदर्भ में पढ़ें१२ आयुर्वेदीयग्रन्थमाला । [घृताधिकारः एतत्कुमारकल्याणं घृतरत्नं सुखप्रदम् । बलवर्णकरं धन्यं पुष्टयग्निरुचिकारकम् ॥ १०६ ॥ छायासर्वग्रहालक्ष्मीदन्तकर्णगदापहम् । सर्वबालामयहरं मेध्यमायुष्यमुत्तमम् ॥ १०७ ॥ रसायनमिदं सेव्यं विशेषाद्दन्तजन्मनि । वाग्भटाद्ब्राह्मीघृतम् । द्वौ प्रस्थौ स्वरसाद्ब्राह्मया घृतप्रस्थं च साधयेत् ॥ १०८ ॥ व्योषश्यामत्रिवृद्ब्राह्मीशङ्खपुष्पीनृपद्रुमैः । ससप्तलाकृमिहरैः कल्कितैरक्षसंमितैः ॥ १०९ ॥ पलवृद्ध्या प्रयुञ्जीत यावन्मात्रा चतुष्पलम् । उन्मादकुष्ठापस्मारहरं वन्ध्यासुतप्रदम् ॥ ११० ॥ वाक्स्मृतिस्वरमेधाकृद्धन्यं ब्राह्मीघृतं शुभम् । शूले बीजपूरकाद्यं घृतम् । घृताच्चतुर्गुणो देयो मातुलुङ्गरसो दधि ॥ १११ ॥ शुष्कमूलककोलाम्लकषायो दाडिमाद्रसः । बिडङ्गलवणक्षीरपञ्चकोलयवानिभिः ॥ ११२ ॥ पाठामूलककल्कैश्च सिद्धं पूरकसंज्ञितम् । हृत्पार्श्वशूलवैस्वर्यहिध्माश्वासशमन्दरात् ॥ ११३ ॥ वर्ध्मगुल्मप्रमेहार्शोवातव्याधीन् विनाशयेत् । कृष्णात्रेयाङ्गे महागौर्याद्यं घृतम् । गौरी हरिद्रा मञ्जिष्ठा मांसी कटुकरोहिणी ॥ ११४ ॥ प्रपौण्डरीकं मधुकं भद्रमुस्तं सचन्दनम् । जातीनिम्बपटोलं च कारञ्जं बीजमेव च ॥ ११५ ॥ कट्फलं समधूच्छिष्टं समभागानि कारयेत् । पञ्चवल्ककषायेण घृतप्रस्थं विपाचयेत् ॥ ११६ ॥ क्षीरद्विगुणसंयुक्तं शनैर्मृद्वग्निना पचेत् । एतद्गौरं महागौर्यं सर्वव्रणविशोधनम् ॥ ११७ ॥