गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 34, कुल 286 में से
संदर्भ में पढ़ें२-] गदनिग्रहः । १३: आगन्तुसहजांश्चैव शिरःश्लिष्टांश्च ये व्रणाः । विषममपि नाडीं च रोहयेच्छीघ्रमेव च ॥ ११८ ॥ रक्तपित्ते दूर्वाद्यं घृतम् । दूर्वामुत्पलकिञ्जल्कं मञ्जिष्ठा चैलवालुकम् । श्वेतदूर्वा तथोशीरं मुस्ता चन्दनपञ्चकम् ॥ ११९ ॥ द्राक्षा मधूकयष्ट्याह्वं काश्मरी सितचन्दनम् । पिष्टैस्तैः कार्षिकैर्द्रव्यैर्घृतप्रस्थं विपाचयेत् ॥ १२० ॥ अजाक्षीरं तण्डुलाम्बु पृथग्दद्याच्चतुर्गुणम् । तत्पानं वमतो रक्तं नावनं नासिकागते ॥ १२१ ॥ कर्णाभ्यां यस्य गच्छेत तस्य कर्णौ प्रपूरयेत् । चक्षुर्गते च रक्ते वै पूरयेत्तेन चक्षुषी ॥ १२२ ॥ मेढ्रपायुगते चापि बस्तिकर्म प्रयोजयेत् । प्रवृत्ते रोमकूपेभ्यस्त्वभ्यङ्गे योजयेद्धृतम् ॥ १२३ ॥ वैदेहनेत्ररोगे महात्रैफलं घृतम् । त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य च । पीडयित्वा वृषं बालं रसप्रस्थं च दापयेत् ॥ १२४ ॥ अजाक्षीरस्य च प्रस्थं, प्रस्थं तैः सर्पिषः पचेत् । त्रिफला चन्दनं द्राक्षा पिप्पली मधुकं बला ॥ १२५ । काकोलीक्षीरकाकोलीमेदामरिचसैन्धवैः । शर्करा पुण्डरीकं च हरिद्रोत्पलनागरैः ॥ १२६ ॥ कल्कैः सिद्धं भिषग्दद्यान्नेत्ररोगविनाशनम् । काचं शुक्नं नीलिकां च वर्त्मरोगांश्च नाशयेत् ॥ १२७ नक्तान्ध्यं नकुलान्ध्यं च कण्डुं पिल्लमथापि च । अजकां तिमिरांश्चैव नेत्रस्त्रावांश्च दारुणान् ॥ १२८ ॥ त्रिफलासर्पिरेतद्धि पाननावनतर्पणैः । विदेहराज्ञा निर्दिष्टं दृष्टिनैर्मल्यकारकम् ॥ १२९ ॥ २