भारतकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

२-] गदनिग्रहः । १३: आगन्तुसहजांश्चैव शिरःश्लिष्टांश्च ये व्रणाः । विषममपि नाडीं च रोहयेच्छीघ्रमेव च ॥ ११८ ॥ रक्तपित्ते दूर्वाद्यं घृतम् । दूर्वामुत्पलकिञ्जल्कं मञ्जिष्ठा चैलवालुकम् । श्वेतदूर्वा तथोशीरं मुस्ता चन्दनपञ्चकम् ॥ ११९ ॥ द्राक्षा मधूकयष्ट्याह्वं काश्मरी सितचन्दनम् । पिष्टैस्तैः कार्षिकैर्द्रव्यैर्घृतप्रस्थं विपाचयेत् ॥ १२० ॥ अजाक्षीरं तण्डुलाम्बु पृथग्दद्याच्चतुर्गुणम् । तत्पानं वमतो रक्तं नावनं नासिकागते ॥ १२१ ॥ कर्णाभ्यां यस्य गच्छेत तस्य कर्णौ प्रपूरयेत् । चक्षुर्गते च रक्ते वै पूरयेत्तेन चक्षुषी ॥ १२२ ॥ मेढ्रपायुगते चापि बस्तिकर्म प्रयोजयेत् । प्रवृत्ते रोमकूपेभ्यस्त्वभ्यङ्गे योजयेद्धृतम् ॥ १२३ ॥ वैदेहनेत्ररोगे महात्रैफलं घृतम् । त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य च । पीडयित्वा वृषं बालं रसप्रस्थं च दापयेत् ॥ १२४ ॥ अजाक्षीरस्य च प्रस्थं, प्रस्थं तैः सर्पिषः पचेत् । त्रिफला चन्दनं द्राक्षा पिप्पली मधुकं बला ॥ १२५ । काकोलीक्षीरकाकोलीमेदामरिचसैन्धवैः । शर्करा पुण्डरीकं च हरिद्रोत्पलनागरैः ॥ १२६ ॥ कल्कैः सिद्धं भिषग्दद्यान्नेत्ररोगविनाशनम् । काचं शुक्नं नीलिकां च वर्त्मरोगांश्च नाशयेत् ॥ १२७ नक्तान्ध्यं नकुलान्ध्यं च कण्डुं पिल्लमथापि च । अजकां तिमिरांश्चैव नेत्रस्त्रावांश्च दारुणान् ॥ १२८ ॥ त्रिफलासर्पिरेतद्धि पाननावनतर्पणैः । विदेहराज्ञा निर्दिष्टं दृष्टिनैर्मल्यकारकम् ॥ १२९ ॥ २

१४ आयुर्वेदौयग्रन्थमाला । [घृताधिकारः वातव्याधौ शतावरीघृतम् । शतावरीमूलशतं द्विद्रोणेऽपां विपाचयेत् । अष्टभागावशेषेण घृतप्रस्थं विपाचयेत् ॥ १३० ॥ जीवनीयानि सर्वाणि रास्ना गोक्षुरकं तथा । शतपुष्पा वचा कुष्ठं सरलं सपुनर्नवम् ॥ १३१ ॥ चन्दनं तगरं मांसी पद्मकं रक्तचन्दनम् । सुरसं नागरं कृष्णा विडं नागरमुत्पलम् ॥ १३२ ॥ एभिरक्षसमैर्भागैः क्षीरं दद्याच्चतुर्गुणम् । बृंहणं वातपित्तघ्नं क्षतशोषज्वरापहम् ॥ १३३ ॥ पङ्गनां पृष्ठसर्पिणामर्दितानां च शस्यते ॥ पुंस्त्वोपघातिनां नृणां वन्ध्यानां चैव योजितम् ॥१३४॥ बलवर्णकरं ह्येतदलक्ष्मीघ्नं प्रजाकरम् । शतावरीघृतमिदमश्विभ्यां परिकीर्तितम् ॥ १३५ ॥ सारस्वतं घृतम् । समूलपत्रामादाय ब्राह्मीं प्रक्षाल्य वारिणा । उलूखलेन संक्षुद्य रसं वस्त्रेण गालयेत् ॥ १३६ ॥ चतुर्गुणे रसे तस्मिन् घृतप्रस्थं विपाचयेत् । औषधानि च पुष्पाणि तत्रेमानि प्रदापयेत् ॥ १३७ ॥ हरिद्रा मालती चैव त्रिफला च हरीतकी । एतेषां पालिकान् भागान् शेषाणां कार्षिकाः स्मृताः१३८ पिप्पल्योऽथ विडङ्गानि सैन्धवं शर्करा वृषम् । एतानि तु समालोढ्य शनैर्मृद्वग्निना पचेत् ॥ १३९ ॥ ततः पक्वं विजानीय क्षिप्रं तदवतारयेत् । ततः प्राशितमात्रेण बधिरत्वं प्रणश्यति ॥ १४० ॥ सप्ताहोपयोगेन भवेत्कविरसंशयम् । घृतं सारस्वतं नाम सरस्वत्या विनिर्मितम् ॥ १४१ ॥

मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा वचा । अजमोदा हरिद्रे द्वे हिङ्गु तिक्तकरोहिणी ॥ १४२ ॥ काकोली क्षीरकाकोली मूलं चैवाश्वगन्धजम् । जीवकर्षभकौ मेदे रेणुका बृहतीद्वयम् ॥ १४३ ॥ उत्पलं चन्दनं द्राक्षा पद्मकं देवदारु च । एभिरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ १४४ ॥ चतुर्गुणेन पयसा विपचेन्मृदुनाऽग्निना । एतत्सर्पिर्नरः पीत्वा स्त्रीषु नित्यं वृषायते ॥ १४५ ॥ पुत्रं जनयते वीरं मेधाव्यं पुष्करेक्षणम् । वन्ध्या च लभते गर्भं श्यामा वेगात्प्रसूयते ॥ १४६ ॥ या चैव स्थिरगर्भास्यान्मृतापत्या तु या भवेत् । अल्पायुर्जननी चैव या च सूत्वा पुनः स्थिता ॥ १४७ ॥ एतदेव कुमाराणां सर्वाङ्ग्रहमोक्षणम् । धन्यं यशस्यमायुष्यं कान्तिलावण्यपुष्टिदम् ॥ १४८ ॥ ये च कल्याणके प्रोक्तास्ते चापीह गुणाः स्मृताः । एतत्फलघृतं नाम ह्यश्विभ्यां परिकीर्तितम् ॥ १४९ ॥ अग्निवेशात्क्षतक्षीणे श्वदंष्ट्राद्यं घृतम् । श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम् । दर्भमूलं पृश्निपर्णी जीवकर्षभकौ स्थिरा ॥ १५० ॥ पालिकै साधयेत्तेषां रसे क्षीरचतुर्गुणे । कल्कैः स्वगुप्ताजीवन्तीमेदकर्षभजीवकैः ॥ १५१ ॥ शतावर्युर्द्धिमृद्वीकाशर्कराश्रावणीबिसैः । प्रस्थः सिद्धो घृताद्वातपित्तनुद्दाही शूलहृत् ॥ १५२ ॥ मूत्रकृच्छ्रप्रमेहार्शःकांसशोषक्षयापहः । धनुःस्त्रीमध्वभाराध्वखिन्नानां बलमांसदः ॥ १५३ ॥

३६ आयुर्वेदीयग्रन्थमाला । [घृताधिकारः कामलायां हारीताद्राक्षाद्यं घृतम् । पिष्ट्वा गोस्तनिकायास्तु पलान्यष्टौ समावपेत् । पुराणसर्पिषः प्रस्थं पचेत्क्षीरे चतुर्गुणे । कामलापाण्डुरोगार्शोज्वरकासार्तिनाशनम् ॥ १५४ ॥ वाग्भटात्कुष्ठे महावज्रकं घृतम् । वासामृतानिम्बपटोलतिक्ताव्याघ्रीकरञ्जोदककल्कसिद्धम् । सर्पिर्विसर्पज्वरकामलार्तिकुष्ठापहं वज्रकमामनन्ति ॥ १५५ ॥ वाग्भटात्कुष्ठे महावज्रकं घृतम् । त्रिफलात्रिकटुद्विकण्टकारीकटुकाकुम्भनिकुम्भराजवृक्षैः । सवचातिविषाग्निकैः सपाठैः पिचुभागैर्नव वज्रदुग्धमुष्ट्याः१५६ पिष्टैः सिद्धं सर्पिषः प्रस्थमेभिः क्रूरे कोष्ठे स्नेहनं रेचनं च । कुष्ठश्वित्रप्लीहवध्र्माश्मगुल्मान् हन्यात्कृच्छ्रांस्तन्महावज्रकाख्यम्॥ अग्निवेशात्कुष्ठे तिक्तकं घृतम् । निम्बपटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम् । कुर्यादर्धपलांशान् पर्पटकं त्रायमाणां च ॥ १५८ ॥ सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत्पूते । चन्दनकिराततिक्तकमागधिकात्रायमाणाश्च ॥ १५९ ॥ मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान् । नवसर्पिषश्च षट्पलमेतत्सिद्धं घृतं पेयम् ॥ १६० ॥ कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि । विसर्पपामापिडकाकण्डूमदगण्डनुत्तिक्तम् ॥ १६१ ॥ अग्निवेशात्कुष्ठे महातिक्तकं घृतम् । सप्तच्छदं प्रतिविषां शम्याकं तिक्तरोहिणीं पाठाम् । मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम् ॥ १६२ धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे । षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे ॥ १६३ ।

[Header] गदनिग्रहः । १७. वत्सकबीजं वासां मूर्वाममृतां किराततिक्तं च । कल्कान्कुर्यान्मतिमान् यष्टयाह्वं त्रायमाणां च ॥ १६४ ॥ कल्कस्य चतुर्थभागो जलमष्टगुणं रसोऽमृतफलानाम् । द्विगुणो घृतात्प्रदेयस्तत्सिद्धं पाययेत्सर्पिः ॥ १६५ ॥ कुष्ठानि वातपित्तप्रबलान्यर्शांसि रक्तवाहीनि । वीसर्पमम्लपित्तं वातासृक् पाण्डुतां गुल्मम् ॥ १६६ ॥ विस्फोटकान् सपामामुन्मादं कामलां कृमीन् कण्डूम् । हृद्रोगं ज्वरपिडकामसृग्दरं गण्डमालां च ॥ १६७ ॥ हन्यादेतत् सद्यः पीतं काले यथाबलं सर्पिः । योगशतैरप्यजितान्महाविकारान्महातिक्तम् ॥ १६८ ॥ जतुकर्णोक्तकुष्ठे द्वितीयं महातिक्तकं घृतम् । करञ्जसप्तच्छदपिप्पलीनां मूलानि कृष्णा मधुकं विशाला । यवासकं चन्दनमुत्पलं च स्यात्रायमाणा कटुका वचा च ॥ १६९ उशीरपाठातिविषारजन्यः किराततिक्तं कुटजस्य बीजम् । निम्बासनारग्वधमालतीनां पत्राणि मूलानि च कण्टकार्याः १७० शतावरीपद्मकदेवदारुमुस्तानि कालीयककेसराणि । वासागुडूचीनतसारिवाश्च बला पटोलं त्रिफला च मूर्वा ॥ १७१ नीपं कदम्बो धववेतसौ च कर्कोटं पर्पटकं पयस्या । वाराहकन्दं मदयन्तिका च ब्राह्मी समङ्गर्लभकं बला च ॥ १७२ एतैः समांशैरथ कार्षिकैश्च घृतस्य पात्रं विपचेन्नवं च । द्रोणं जलस्याकलुषस्य दद्यात् पात्रद्वयं चामलकीरसस्य ॥ १७३ ॥ पक्कं प्रशान्तं गतफेनशब्दं प्रयोजयेत् कुष्ठहरं प्रशस्तम् । तद्रक्तपित्तानिलसन्निपातविस्फोटपाल्यामयविद्रधीनाम् ॥ १७४ किलासकासज्वरगण्डमालाग्रन्थ्यर्बुदानि त्वथ वातरक्तम् । हृत्पाण्डुरोगान् सभगन्दरांश्च निषेव्यमाणं नियमेन काले ॥ १७५ घृतं महातिक्तमिदं प्रशस्तं निहन्ति सर्वान् श्वयथूपदिष्टान् ।

३८ आयुर्वेदौयग्रन्थमाला । [घृताधिकारः कृष्णात्रेयात् प्लीहि रोहीतकं घृतम् । रोहीतकात् पलशतं संक्षुद्य बदराढके । पाचयित्वा जलद्रोणे चतुर्थांशावशेषिते ॥ १७६ ॥ घृतप्रस्थं समावाप्य छागं क्षीरं चतुर्गुणम् । तस्मिन् द्रव्याणिमांश्चैव सर्वान् कर्षसमन्वितान् ॥ १७७ ॥ व्योषं फलत्रयं हिङ्गु यवानीं तुम्बुरुं बिडम् । अजाजीकुष्ठलवणं दाडिमं देवदारु च ॥ १७८ ॥ पुनर्नवां विशालां च यवक्षारं सपुष्करम् । विडङ्गं चित्रकं चैव हपुषां चविकां वचाम् ॥ १७९ ॥ एभिर्द्रव्यैर्घृतप्रस्थं स्थापयेद्भाजने शुभे । पाययेच्च पलं मात्रां व्याधीन् शमयते हठात् ॥ १८० ॥ प्लीहं प्लीहोदरं चैव प्लीहशूलं तथैव च । हृच्छूलं पार्श्वशूलं च कुक्षिशूलमरोचकम् ॥ १८१ ॥ विबन्धशूलं शमयेत् पाण्डुरोगं सकामलम् । छर्द्यतीसारशूलघ्नं तन्द्राज्वरविनाशनम् ॥ १८२ ॥ रोहीतकघृतं ह्येतत् प्लीहानं शमयेद्द्रुतम् । क्षारपाणेः प्लीहनि बिल्वाद्यं घृतम् । बिल्वं पाठाऽभया धान्यं यवानी सैन्धवं विडम् । पञ्चकोलं समरिचं क्षारैश्चैभिर्घृतं पचेत् ॥ १८३ ॥ दध्ना चतुर्गुणेनैव शकृद्वातविवन्धनुत् । सर्वामप्लीहवातार्तिगुदभ्रंशरुजापहम् ॥ १८४ ॥ हारीतात् सर्वोदरे द्विपञ्चमूलाद्यं घृतम् । द्वे पञ्चमूल्यौ त्रिवृतानिकुम्भे सप्तपलं चित्रकशिग्रुमूलम् । कुष्टबीजं त्रिफलां गुडूचीमेरण्डमूलं मदयन्तिकां च ॥१८५॥ पाठोऽपमार्गी सुवनीं सनीलां सरोहिषां पापञ्चेलिकां च । पृथक् पृथक् पञ्चपलं जलस्य द्रोणे पचेत्तच्चतुर्थावशेषम्॥१८६॥ घृतं विपक्वं सकषायकल्कैर्निहन्ति प्लीहं सकलोदराणि ।

शिलाह्वयं नागरकालशाके काकादनीमूलनिदिग्धिके च ॥१८७ पञ्चैव दद्याल्लवणानि हिङ्गु कृष्णां च तै रक्षसमैः पृथक् च । प्रस्थं घृतस्याथ पचेद्गवस्य चतुर्गुणं मूत्रमथ प्रदाप्य ॥ १८८॥ पयश्च दद्याद्द्विगुणं विपक्वं तद्ब्रह्मसृष्टं प्रवदन्ति सर्पिः । प्लीहोदरं दूष्यमथाङ्गरोगं संसेव्यमानं जठरं निहन्यात् ॥१८९॥ कासे कण्टकारीघृतम् । पाठाविडव्योषविडङ्गसैन्धवत्रिकण्टरास्नाहुतभुग्बलाभिः । शृङ्गीवचाम्भोधरदेवदारुदुरालभाभार्ग्यभयाशठीभिः ॥ १९० ॥ सम्यग्विषक्वं द्विगुणेन सर्पिर्निदिग्धिकायाः स्वरसेन चैतत् । श्वासाग्निसारस्वरभेदभिन्नान्निहन्त्युदीर्णानपि पञ्चकासान् १९१ कासे द्वितीयं कण्टकारीघृतम् । निदिग्धिकायाः स्वरसं ग्राहयेद्यन्त्रपीडितम् । चतुर्गुणे रसे तस्मिन् घृतप्रस्थं विपाचयेत् ॥ १९२ ॥ गर्भे दद्यात्त्रिकटुकं रास्नां गोक्षुरकं बलाम् । पञ्चकासानिदं सर्पिः पीतं सद्यो व्यपोहति ॥ १९३ ॥ अग्निवेशात् कासे त्र्यूषणाद्यं घृतम् । त्र्यूषणं त्रिफलां द्राक्षां काश्मर्यं च परूषकम् । द्वे पाठे देवदार्हृद्धिः स्वगुप्तां चित्रकं शठीम् ॥ १९४ ॥ व्याघ्रीमामलकीं मेदां काकनासां शतावरीम् । त्रिकण्टकं गुडूचीं च पिष्ट्वा कर्षसमान् घृतात् ॥ १९५ ॥ प्रस्थं चतुर्गुणे क्षीरे सिद्धं कासहरं पिबेत् । ज्वरगुल्मारुचिप्लीहशिरोहृत्पार्श्वशूलनुत् ॥ १९६ ॥ कामलार्शोऽनिलार्त्तिघ्नं क्षतशोषक्षयापहम् । त्र्यूषणं नामविख्यातमेतद्भूतमत्नुत्तमम् ॥ १९७ ॥ कृष्णात्रेयाद्रणे गार्योद्यं घृतम् । गौर्यारिष्टपटोलरोध्रफलिनी यष्ट्याह्वनीलोत्पलै- र्मञ्जिष्ठाकटुकेन्द्रवारुणिजपामूर्वानिशाचन्दनैः ।

२० आयुर्वेदीयग्रन्थमाला । [घृताधिकारः जातीक्षीरकपत्रकेशरदलैः पूतीकघोटाफलै- स्तुल्यैः सिक्थकसारिवाइययुतैर्गन्ध्यं घृतं पाचयेत् ॥१९८॥ यष्टिक्षीरसपञ्चकोलजलदक्वाथैश्च गौर्यादिभिः सिद्धं सर्पिरिदं हितं त्रिषु भवेत्सद्यःक्षतेषु ध्रुवम् । ये गूढाश्चिरकालजातगतयः प्रोच्छिन्नमांसा व्रणाः सस्रावाः सरुजः सदाहपिडिकाः शुष्यन्ति रोहन्ति च ॥१९९ भेडाङ्गुग्गुलुतिक्तकं घृतम् । निम्बामृतापटोलानां कण्टकार्या वृषस्य च । पृथग्दशपलान् भागान् जलद्रोणे विपाचयेत् ॥ २०० ॥ तेन पादावशेषेण घृतप्रस्थं विपाचयेत् । त्रिकटुत्रिफलामुस्तारजनीद्वयवत्सकम् ॥ २०१ ॥ शुण्ठी दारुहरिद्रा च पिप्पलीमूलचित्रकम् । भल्लातकं यवक्षारं कटुकाऽतिविषा वचा ॥ २०२ ॥ विडङ्गं खर्जिकाक्षारः शतपुष्पाऽजमोदकम् । एषामक्षसमैर्भागैर्गुग्गुलोः पञ्चभिः पलैः ॥ २०३ ॥ सुसिद्धं पीयमानं च एतद्गुग्गुलुतिक्तकम् । विद्रधिं हन्ति सद्यो हि त्वग्दोषानपि दारुणान् ॥ २०४ ॥ कुष्ठानि स्वापसङ्कोचवेगवन्ति स्थिराणि च । वातश्लेष्मसमुत्थानि मारुतासृग्प्रभेदि च ॥ २०५ ॥ गण्डमालाऽर्बुदग्रन्थिनाडीदुष्टभगन्दरान् । कासं श्वासं प्रतिश्यायं पाण्डुरोगं ज्वरं क्षयम् ॥ २०६ ॥ विषमज्वरहृद्रोगलिङ्गदोषविषक्रिमीन् । प्रमेहासृग्दरोन्मादशुक्रदोषगदान् जयेत् ॥ २०७ ॥ हारीताच्छोथे द्राक्षाद्यं घृतम् । द्राक्षायाः संमितं प्रस्थं मधुकस्य पलाष्टकम् । पचेत्तोयार्मणे शुद्धे पादशेषेण तेन च ॥ २०८ ॥ पलिके मधुकद्राक्षे पिष्टे कृष्णापलद्वयम् ।

१] गदनिग्रहः । २१ प्रदाय सर्पिषः प्रस्थं पचेत् क्षीरं चतुर्गुणम् ॥ २०९ ॥ सिद्धे शीते पलान्यष्टौ शर्करायाः प्रदापयेत् । एतद्राक्षाघृतं नाम क्षीणक्षुत्तृट्सुखावहम् ॥ २१० ॥ वातपित्तज्वरश्वासविस्फोटकहलीमकान् । प्रदरं रक्तपित्तं च हन्यान्मांसबलप्रदम् ॥ २११ ॥ विदेहात्सर्वनेत्ररोगे त्रिफलाद्यं घृतम् । त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य च । पीडयित्वा वृषं बालं रसप्रस्थं प्रदापयेत् ॥ २१२ ॥ अजाक्षीरस्य च प्रस्थं कार्षिकैः श्लक्ष्णपेषितैः । पिप्पली शर्करा द्राक्षा त्रिफला नीलमुत्पलम् ॥ २१३ ॥ मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका । मञ्जिष्ठापद्मकोशीरसारिवादारुचन्दनैः ॥ २१४ ॥ घृतं प्रस्थं पचेत् प्राज्ञः कल्कैरेभिः समन्वितम् । ऊर्ध्वपानमधः पानं मध्ये पानं विशिष्यते ॥ २१५ ॥ अति प्रदुष्टे रक्ते च रक्ते वातिस्रुते तथा । नक्तान्ध्ये तिमिरे काचे सर्वनेत्ररुजासु च ॥ २१६ ॥ बकविद्योतितं भ्रान्तं सूर्यतेजोद्विषं तथा । गृध्रदृष्टिकरं धन्यं बलवर्णाग्निवर्धनम् ॥ त्रिफलाया घृतं सिद्धं सर्वनेत्ररुजान्तकृत् ॥ २१७ ॥ पटोलाद्यं घृतम् । पटोलं मधुकं दार्बी निम्बं वासां फलत्रिकम् । दुरालभां पर्पटकं त्रायन्तीं च पलोन्मिताम् ॥ २१८ ॥ प्रस्थमामलकानां च क्वाथयेत्सलिलार्मणे । तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ॥ २१९ ॥ कल्कैर्भूनिम्नकटुजमुस्तयष्ट्याह्वचन्दनैः । सपिप्पलीकैस्तत् सर्पिश्चक्षुष्यं श्रोत्रयोर्हितम् ॥ २२० ॥ घ्राणकर्णाक्षिवर्त्मत्वग्दन्तरोगव्रणापहम् ।

२२ आयुर्वेदीयग्रन्थमाला । [घृताधिकारः रक्तपित्तहरं खेदक्लेदपूयोपशोषणम् ॥ २२१ ॥ कामलाज्वरवीसर्पगण्डमालाहरं परम् । कृष्णात्रेयाद्विन्दुघृतम् । त्रिवृता त्रिफला पाठा दन्ती कटुकरोहिणी ॥ २२२ ॥ चतुरङ्गुलमज्जा च तथा च कटुकत्रयम् । चित्रकं च बृहत्यौ च तथा च गजपिप्पली ॥ २२३ ॥ स्नुहीक्षीरपलं दद्यात् घृतस्याष्टौ प्रदापयेत् । यावन्तः स पिबेद्विन्दून् तावद्वेगान् विरिच्यते ॥ २२४ ॥ एतद्विन्दुघृतं सिद्धमृषिभिः परिकीर्तितम् । कृष्णात्रेयाद्गुल्मे महाबिन्दुघृतम् । स्नुहीक्षीरपले द्वे च प्रस्थार्धं चैव सर्पिषः ॥ २२५ ॥ कम्पिल्लकपलं चैव शाणार्धं सैन्धवस्य च । त्रिवृतायाः पलं चैव कुडवं धात्रिजाद्रसात् ॥ २२६ ॥ तोयप्रस्थेन संयुक्तं शनैर्मृद्वग्निना पचेत् । कर्षप्रमाणं दातव्यं जठरे प्लीहगुल्मयोः ॥ २२७ ॥ तथा कर्णोत्थरोगेषु युञ्जीत कुशलो भिषक् । एतद्गुल्मादिनिचयान्समूलान् सपरिग्रहान् ॥ २२८ ॥ निहन्त्येष प्रयोगो हि वायुर्जलधरानिव । पञ्चगुल्मवधार्थाय सर्पिरेतत् प्रकीर्तितम् ॥ २२९ ॥ सर्वासुरवधार्थाय यथा वज्रं बिडौजसा । महाबिन्दुघृतं सिद्धं सर्वोदरहरं परम् ॥ २३० ॥ गुल्मे बिन्दुघृतम् । श्यामात्रिवृद्वह्निपलत्रयं हि हरीतकीनां तु शतार्धमन्वक् । तोयाम्भसोऽर्धेन विपाचितेन प्रस्थं पचेद्द्रव्यघृतस्य चैव ॥२३१॥ कम्पिल्लकस्यापि पलप्रमाणं सनीलिनीबीजपलद्वयं च । चतुष्पलं स्नुक्पयसश्च दत्वा गुल्मापहं बिन्दुघृतं विरेकात्॥२३२

१.] गदनिग्रहः । २३ चिकित्साकलिकाया गुल्मे महाबिन्दुघृतम् । त्रिवृत्पलं स्नुक्पयसः पलं च कम्पिल्लकस्यापि पलं तृतीयम् । चतुष्पलं चामलकीरसस्य पलार्धमन्यल्लवणस्य चैव ॥ २३३ ॥ प्रस्थार्धमेभिर्हविषो विपक्वं जले महाबिन्दुघृतं प्रसिद्धम् । निहन्ति गुल्मं जठराणि चैव प्लीहामयानाशु विरेकयोगात्॥२३४ कुष्ठे बिन्दुघृतम् । अर्कक्षीरपले द्वे तु स्नुहीक्षीरं पलानि षट् । पथ्या कम्पिल्लकं श्यामा श्यामाकं गिरिकर्णिका ॥ २३५॥ नीलिनी त्रिवृता दन्ती शङ्खिनी चित्रकं तथा । एतेषां पलिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ २३६ ॥ अथास्य मलिने कोष्ठे बिन्दुमात्रं प्रदापयेत् । यावन्तो ना पिवेद्बिन्दून् तावद्वारान्विरिच्यते ॥ २३७ ॥ कुष्ठं गुल्ममुदावर्तं श्वयथुं सभगन्दरम् । शमयत्युदराण्यष्टौ वृक्षमिन्द्राशनिर्यथा ॥ २३८ ॥ एतद्विन्दुघृतं नाम येनाभ्यक्तो विरिच्यते । कुष्ठे पञ्चतिक्तकं घृतम् । निम्बं पटोलं व्याघ्रीं च गडूचीं वासकं तथा ॥ २३९ ॥ कुर्यात्तुलां तु संचूर्ण्य काथयेत्तज्जले शुभे । पादावशेषेण ततो घृतप्रस्थं विपाचयेत् ॥ २४० ॥ त्रिफलागर्भसंयुक्तं पञ्चतिक्तकमुच्यते । अशीतिर्वातजान् रोगांश्चात्वारिंशच्च पैत्तिकान् ॥ २४१ ॥ विंशतिः श्लेष्मजांश्चैव पानादेवापकर्षति । खरनादाच्छूले लशुनघृतम् । प्रस्थं लशुनबीजानां कण्टकार्यास्तथैव च ॥ २४२ ॥ आटरूषकप्रस्थं च जलद्रोणे विपाचयेत् । द्राक्षाया गोस्तनायाश्च कुडवं चात्र मिश्रयेत् ॥ २४३ ॥ तत्र दद्याद्धृतप्रस्थं गोक्षीरप्रस्थमेव च । लशुनस्य तु पिष्टस्य पलं निष्पीड्य योजयेत् ॥ २४४ ॥

२४ आयुर्वेदियग्रन्थमाला । [घृताधिकारः] आटरूषकपत्राणां पेषयित्वा पलं तथा । एतन्मृद्वग्निना सिद्धं सितं पूतमथापि वा ॥ २४५ ॥ द्विपलं शर्कराचूर्णं क्षीरार्धकुडवं तथा । त्वक्क्षीर्याश्च पलार्धं हि तत्सर्वं खजमूर्च्छितम् ॥ २४६ ॥ निदध्याद्भाजने शुद्धे काञ्चने राजतेऽपिवा । एतत्प्रायोगिकं सर्पिरिमान् व्याधीन् व्यपोहति ॥ २४७ ॥ कासं श्वासं ज्वरं गुल्मं कार्यं छर्दिमरोचकम् । हृद्रोगं पार्श्वशूलं च क्षतक्षीणं प्लीहोदरम् ॥ २४८ ॥ जीवनं बृंहणं वृष्यं पाण्डुश्वयथुनाशनम् । तन्त्रान्तराद्दाडिमाद्यं घृतम् । दाडिमात्कुडवो धान्यात्कुडवार्धं पलं पलम् ॥ २४९ ॥ चित्रकाच्छृङ्गवेराच्च पिप्पल्यष्टमिका तथा । कल्कैस्तैर्विंशतिपलं घृतस्य सलिलाढके ॥ २५० ॥ सिद्धं हृत्पाण्डुगुल्मार्शः प्लीहवातार्तिशूलनुत् । दीपनं श्वासकासघ्नं मूढवातानुलोमनम् ॥ २५१ ॥ दुःखप्रसविनीनां च वन्ध्यानां चैव पुत्रदम् । चित्रकाद्यं घृतम् । चित्रकस्य तुलाक्वाथे घृतप्रस्थं विपाचयेत् ॥ २५२ ॥ आरनालं च द्विगुणं दधिमण्डं चतुर्गुणम् । पञ्चकोलकतालीसक्षारैर्लवणसंयुतैः ॥ २५३ ॥ द्विजीरकनिशायुग्मैर्मरिचं तत्र दापयेत् । गुल्मप्लीहोदराध्मानपाण्डुरोगारुचिज्वरान् ॥ २५४ ॥ बस्तिहृत्पार्श्वकट्यूरुशूलोदावर्त्तजान् गदान् । निहन्यात् पीतमशोंघ्नं पाचनं वह्निदीपनम् । बलवर्णकरं चापि भसकं च नियच्छति ॥ २५५ ॥ १ प्रायोगिकमिति प्रयोगः स्वास्थस्य सततोपयोगः, तत्र साधु प्रायोगिकम् ।

गदनिग्रहः । २५ शोफे चित्रकाद्यं घृतम् । चित्रकं धान्ययवान्यजाजीसौवर्चलत्र्यूषणवेतसाम्लम् । ल्वोत्पलं दाडिमयावशूकं सपिप्पलीमूलमथापि चव्यम् २५६ ष्टाऽक्षमात्राणि जलाढकेन पक्त्वा घृतप्रस्थमथापि युञ्ज्यात् । र्शांसि गुल्मान् श्वयथुं सकृच्छ्रं निहन्ति वह्निं च करोति दीप्तम्॥ प्लीह्नि तृतीयं रोहीतकाद्यघृतम् । रोहीतकत्वचः श्रेष्ठात्पलानां पञ्चविंशतिः । कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत् ॥ २५८ ॥ पालिकैः पञ्चकोलैश्च तैः सर्वैश्चापि तुल्यया । रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत् ॥ २५९ ॥ प्लीहाभिवृद्धिं शमयेदेतदाशु प्रयोजितम् । तथा गुल्मज्वरश्वासकृमिपाण्डुत्वकामलान् ॥ २६० ॥ कुष्ठे गुग्गुलुपञ्चतिक्तकं घृतम् । निम्बामृतावृषपटोलनिदिग्धिकानां भागानिमान्दशपलान्विपचेद्वटेऽपाम् । अष्टांशशेषितशृतेन पुनश्च तेन प्रस्थं घृतस्य विपचेद्धृतभागकल्कैः ॥ २६१ ॥ पाठाविडङ्गसुरदारुगजौपकुल्या- द्विक्षारनागरनिशामिशिचव्यकुष्ठैः । तेजोवतीमरिचवत्सकदीप्यकाग्नि- रोहिण्यरुष्करवचाकणमूलयुक्तैः ॥ २६२ ॥ मञ्जिष्ठयाऽतिविषया विषया यवान्या संशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः । तत्सेवितं विधुवति प्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥ २६३ ॥ नाडीव्रणार्बुदभगन्दरगण्डमाला- जत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान् । ३

२६ आयुर्वेदीयग्रन्थमाला । [घृताधिकारः यक्ष्मारुचिश्वसनपीनसशोफकास- हृत्पाण्डुरोगमदविद्रधिवातरक्तान् ॥ २६४ ॥ शीतकल्याणकं घृतम् । कुमुदं पद्मकोशीरं गोधूमा रक्तशालयः । शृङ्गपर्णी पयस्या च काश्मरी मधुयष्टिका ॥ २६५ ॥ बलातिबलयोर्मूलमुत्पलं तालमस्तकम् । विदारी शतपत्री च शालपर्णी सजीवकम् ॥ २६६ ॥ फलं त्रपुसबीजानि प्रत्यग्रं कदलीफलम् । एषामर्धपलान् भागान् गव्यं क्षीरं चतुर्गुणम् ॥२६७॥ पानीयं द्विगुणं दत्वा घृतप्रस्थं विपाचयेत् । प्रदरे रक्तगुल्मे च रक्तपित्ते हलीमके ॥ २६८ ॥ बहुरूपं च यत्पित्तं कामलां च सशोणितम् । अरोचके ज्वरे जीर्णे पाण्डुरोगे मदे भ्रमे ॥ २६९ ॥ तरुणा चानपत्या ये या च गर्भं न विन्दति । अहन्यहनि च स्त्रीणां भवति प्रीतिवर्धनम् ॥ २७० ॥ शीतकल्याणकं नाम परमुक्तं रसायनम् । हिक्काश्वासे शम्याथं घृतम् । शठिर्वचाऽभया कुष्ठं पिप्पली बिल्वशुण्ठिका ॥२७१॥ पलांशं सैन्धवं चव्यं तेजोवत्यथ पुष्करम् । सौवर्चलं तामलकी भूतीकं चाक्षकसंमितम् ॥ २७२ ॥ हिङ्ग्वर्धकर्षकोपेतं घृतप्रस्थं विपाचयेत् । चतुर्गुणं जलं चात्र दत्वा मृद्वग्निना पचेत् ॥ २७३ ॥ ग्रहण्यर्शोहितं कासहिक्कोरःपार्श्वशूलनुत् । श्वासान् सन्धिगतांश्चान्यान् हन्याद्वातकफामयान्॥२७४॥ नारसिंहं घृतम् । वह्निंर्भल्लातकं चैव शिंशपा खदिरं तथा । हरीतकींविडङ्गानि बीजके च तथाऽक्षकम् ॥ २७५ ॥

गदनिग्रहः । २७ एषामाहृत्य भागांस्तु सम्यग्दशपलोन्मितान् । जलद्रोणे युतं कृत्वा लोहभाण्डे निधापयेत् ॥ २७६ ॥ लोहभाण्डे पचेत्तावद्यावत्पादावशेषितम् । क्वाथं लोहयुतं कृत्वा स्थापयेद्दिवसत्रयम् ॥ २७७ ॥ त्रिगुणं तु शतावर्या रसं धात्र्याश्च निःक्षिपेत् । निःक्षिपेत्त्रिगुणं चात्र भृङ्गराजरसं शुभम् ॥ २७८ ॥ छागक्षीरं च तत्रैव त्रिगुणं च नियोजयेत् । पक्त्वा घृताढकं तेन मधुना सितयाऽथवा ॥ २७९ ॥ गुडेन वा पिबेत्सार्धं केवलं वा पलोन्मितम् । न किंचित्परिहार्यं स्याद्वातातपनिषेवणम् ॥ २८० ॥ अजीर्णे पिवतश्चापि वनितासेविनस्तथा । नान्धता नामिहानिश्च न वलीपलितं भवेत् ॥ २८१ ॥ अनेन च भवत्याशु नरः सिंहपराक्रमः । भवत्यश्वजवश्चैव हेमवर्णश्च जायते ॥ २८२ ॥ कान्ताऽपि सेविता तेन गुणैरेतैश्च युज्यते । नारसिंहमिति ख्यातं घृतं बलविवर्धनम् ॥ २८३ ॥ विषेऽमृतं घृतम् । शिरीषस्य त्वचं व्योषं त्रिफलां चन्दनोत्पलम् । द्वे बले सारिवास्फोटासुरभीनिम्बपाटलाः ॥ २८४ ॥ बन्धुजीवातसीमूर्वावासासुरसवत्सकम् । पाठाङ्कोलाश्वगन्धार्कमूलं यष्ट्याह्वपद्मके ॥ २८५ ॥ विशालां बृहतीं द्राक्षां कोविदारं शतावरीम् । कटभीदन्त्यपामार्गपृश्निपर्णीरसाञ्जनम् ॥ २८६ ॥ शणश्वशुरकौ श्वेतौ कुष्ठं दारु प्रियङ्कुकम् । विदारी मधुकात्सारं करञ्जस्य फलं वचा ॥ २८७ ॥ राजन्यौ लोध्रमक्षांशान् पिष्ट्वा साध्यं घृताढकम् । तुल्याम्बुच्छागगोमूत्रे त्र्याढके तद्विषापहम् ॥ २८८ ॥

२८ आयुर्वेदयीयग्रन्थमाला । [घृताधिकारः अपस्मारक्षयोन्मादभूतग्रहगलोदरान् । पाण्डुरोगान् क्रिमीन् मेहान् सप्लीहोदरकामलान् २८९ हनुस्तम्भग्रहादींश्च पानाभ्यञ्जननावनैः । हन्यात्संजीवयेच्चापि विषोदधिमृतान्ररान् ॥ २९० ॥ अमेघममृतं सर्वविषाणां स्याद्दृतोत्तमम् । ग्रहण्यामग्निघृतम् । चतुष्पलं चव्यकचित्रपाठतेजस्विनीपिप्पलीमूलमेदाः । दद्याच्च मुस्तात्रिफलं विशुद्धं मुष्टिं समग्रामथ पल्लवानाम्॥२९१॥ आस्फोटजाती अथ सप्तपर्णं पटोलशाखोटकनक्तमालम् । निम्बं प्रदद्यादथ कल्कमस्मिन्नधिश्रयेत्ताम्रमये कटाहे ॥२९२॥ सुक्वाथितं द्रोणजलेन पूर्णं पादावशिष्टं पुनरुद्धरेत्तत् । पलार्धतुल्याऽतिविषा सभद्रा कल्कीकृतानि द्विपलानि दद्यात् ॥ सयावशूकं विडसैन्धवं च पलानि चत्वारि च पिप्पलीनाम् । कल्कैः कषायेण च सिद्धमेतन्मृद्वग्निसिद्धं ह्यवतारयेच्च ॥२९४॥ पिबेच्च जीर्णे तु घृतस्य कर्षं विष्टम्भदोषे द्विगुणं पिबेच्च । अनेन सर्वे ग्रहणीविकाराः शाम्यन्ति गुल्माश्च बहुप्रकाराः २९५ विंशत्क्रिमीणामथ जातयश्च शाम्यन्ति सर्वा विविधप्रयोगात् । पाण्ड्वामयप्लीहशरोद्भवाश्च सोमा भविष्याश्च समं व्रजेयुः ॥२९६॥ सेवेत मद्यं पिशितानि चैव विवर्जकः स्यान्मधुतर्पणस्य । नाम्ना तदप्यग्निघृतं प्रसिद्धं वह्निं च संदीधयते प्रसह्य ॥२९७॥ ग्रहण्यां भल्लातकाद्यं घृतम् । भल्लातकानां द्विपलं पलांशं विदारिगन्धादिकपञ्चमूलम् । जलाढके जर्जरितं विपाच्य विस्राव्य पूतं विपचेद्धि कल्कैः२९८॥ रास्ना विडं सैन्धवयावशूकं विडङ्गकृष्णामधुकं वचा च । सविश्वकर्पूरहुताशहिङ्गु रास्नादिभिः पाणितलप्रमाणैः॥२९९॥ प्रस्थं विपक्वं पयसा समांशं घृतस्य योज्यं कफजे विकारे । प्लीहोदरे यक्ष्मणि वातरोगे श्वासे सकासे च हितं वदन्ति॥३००

व्यापन्नवह्नौ कफगुल्मिनां च कण्डूविकारेषु च शस्तमेतत् । भल्लातकाख्यं नियमेन पीतं जयेच्च सर्वान् ग्रहणीविकारान् ३०१ जीर्णज्वरे पिप्पल्याद्यं घृतम् । पिप्पलयतिविषाद्राक्षासारिवाबिल्वचन्दनैः । कटुकेन्द्रयवोशीरशठीतामलकीघनैः ॥ ३०२ ॥ त्रायमाणास्थिराधात्रीविश्वभेषजचित्रकैः । पक्वेनैतैर्घृतं पर्क विच्छिद्य विषमाश्रिताम् ॥ ३०३ ॥ जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान् । क्षयकासान् ससंतापान् पार्श्वशूलान्यपास्यति ॥३०४॥ मायूरघृतम् । हेमन्तकाले शिशिरे च सेव्यं वसन्तकाले च मयूरसर्पिः । औष्ण्याद्धि बर्ही विषभक्षणाच्च वर्षाशरद्ग्रीष्ममुखे व्यपास्य ३०५ आहारजातं हि विहङ्गमस्य कीटाश्च सर्पाश्च सरीसृपाश्च । पिपीलिकामत्कुणमक्षिकाश्च तेनोष्र्णकालेष्वहितो मयूरः ३०६ तथैव काले जलदाभिरामे विसृज्य शुक्रं च मदं च बर्ही । कृशत्वमायाति हि हीनतां च शरन्मुखे तेन विवर्जनीयः३०७ अथाऽऽहरेत्स्वस्थमृतं वयस्थं निस्तुण्डपत्रात्रनखं मयूरम् । द्विद्रोणमात्रे पयसो निधाय विपाचयेन्द्रेषजसंप्रयुक्तम् ॥३०८॥ सश्रावणीमंशुमतीमनन्तां काकोलीमेदे वृषभे वयस्याम् । सविश्वदेवां सहदेवसाहां सप्तच्छदान्मूलफले बलां च ॥३०९॥ शतावरीजीवकसोमवल्कमेकैकशः स्युः पलसंमिताश्च । ततोऽर्धशिष्टे कथिते सुपूते घृताढकं तत्र पुनर्विपाच्य ॥३१०॥ कल्केरिमैः कर्षसमप्रमाणैर्द्रोणेन दुग्धस्य युतैः सुपिष्टैः । मुञ्जातकाक्षोडमथात्मगुप्ता वृद्धिस्तथा तामलकी सबीरा ३११ पियालमज्जा मधुकं तथैव सिद्धं प्रशान्तं गतफेनशब्दम् । पानेषु भोज्येषु च देयमेतद्भक्तेषु नानाप्रभवेषु चैव ॥ ३१२॥ मन्दाग्निरेतोविषपीडिताश्च क्षीणक्षताश्चापि कृषातिवृद्धाः ।

३० आयुर्वेदियम्रन्थमाला । [घृताधिकारः कासार्दिताः शोणितपित्तिनश्च पिवेयुरेते शिखिसर्पिरग्र्यम् ३१३ वृष्यं च बल्यं च रसायनं च सर्वेन्द्रियाणां बलवर्धनं च । ओजःखरं प्रीणयते च मात्रं विषघ्नमेतद्दरनाशनं च ॥ ३१४॥ एतेन वृद्धाः कृशदुर्बलाश्च तथैव वाग्ध्वससङ्गाहताश्च । प्रक्षीणवीर्याश्च रतिप्रसक्ताः स्त्रियः समागम्य तृषीमवन्ति ३१५ हिमव्यपाये हिमदग्धपल्लवाः पुनः प्ररोहन्ति यथा महीरुहाः । पुनस्तथा यौवनपुष्टिमन्तो नरा भवन्तीह घृतप्रयोगात्॥३१६॥ तिमिरे जीवन्त्याद्यं घृतम् । तुलां पचेद्वि जीवन्त्या द्रोणेऽपां पादशेषिते । दत्वा चतुर्गुणं क्षीरं घृतप्रस्थं विपाचयेत् ॥ ३१७ ॥ प्रपौण्डरीककाकोलीपिप्पलीरोध्रसैन्धवैः । शताह्वामधुकद्राक्षासितादारुफलत्रयैः ॥ ३१८ ॥ कार्षिकैर्निशि तत्पीतं तिमिरापहरं परम् । अपस्मारे पञ्चगव्यं घृतम् । दशमूलेन्द्रवृक्षत्वङ्मूर्वाभार्गीफलत्रयैः । शम्याकश्रेयसीसप्तपर्णापामार्गफल्गुभिः ॥ ३१९ ॥ शृतैः कल्कैश्च भूनिम्बतृवृताव्योषचित्रकैः । त्रिवृत्पाठाविशालारुङ्मलारिविडङ्गपौष्करैः ॥ ३२० ॥ कटुकावासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः । सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्रसैः ॥ ३२१ ॥ साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत् । चतुर्थकज्वरश्वासानुन्मादांश्च नियच्छति ॥ ३२२ ॥ ज्वरे महापञ्चगव्यं घृतम् । दशमूलमपामार्गं त्रिफलां कुटजत्वचम् । सप्तपर्णं हरिद्रे द्वे नीलिनीं कटुरोहिणीम् ॥ ३२३ ॥ आरग्वधं पुष्करं च फल्गुमूलं दुरालभाम् । द्विपलांशान् पचेद् द्रोणे साधयेत्पादशेषिते ॥ ३२४ ॥

गदनिग्रहः । ३१ त्रिवृतां निचुलं भार्गी श्रेयसीं मदयन्तिकाम् । पूतीकं रोहिसं पाठां दन्तीं चित्रकमाढकीम् ॥३२५॥ किराततिक्तकं मूर्वी व्योषं द्वे चापि सारिवे । सकषायं घृतप्रस्थमेभिः पेष्य विपाचयेत् ॥ ३२६ ॥ गव्यं शकृद्रसं क्षीरं तक्रं मूत्रं तथा दधि । तदैकध्यं पचेत्सर्पिः सिद्धं चैवावतारयेत् ॥ ३२७ ॥ एतन्महापञ्चगव्यं विख्यातदमृतं यथा । चातुर्थकान्मोचयति मन्त्रसिद्धो मुनिर्यथा ॥ ३२८ ॥ श्वयथुं पाण्डुरोगं च प्लीहार्शः सभगन्दरम् । उदराणि तथा गुल्मं कामलां चापकर्षति ॥ ३२९ ॥ तस्माद्भिष्क् प्रयुञ्जीत विधियुक्तेन योगवित् । बिन्दुसाराख्यं घृतम् । शतावरीबलारास्नादशमूलीत्रिकण्टकान् । अश्वगन्धासमायुक्तान् कुशकाससमन्वितान् ॥ ३३० ॥ दर्भेक्षुमूलसंयुक्तान् शरमूलविमिश्रितान् । मण्डूक्या च समायुक्तान् द्विपञ्चपलिकान् भिषक् ३३१ पुनर्नवायाः श्वेतायाः शिफां पलशतोन्मिताम् । जलद्रोणे प्रयत्नेन पचेत्सम्यक् चतुर्गुणे ॥ ३३२ ॥ पादावशेषे निःस्राव्य क्वाथमत्रावधिश्रयेत् । यवानीपिप्पलीद्राक्षाशुण्ठीयष्ट्याह्वसैन्धवान् ॥ ३३३ ॥ द्विपलिकान् विनिःक्षिप्य श्लक्ष्णं पिष्ट्वा विधानतः । घृतप्रस्थं पचेत्सम्यक् क्षीरप्रस्थद्वयान्वितम् ॥ ३३४ ॥ एरण्डतैलप्रस्थार्द्धं त्रिंशद्गुडपलैर्युतम् । एतदीश्वरपुत्राणां राज्ञां चैव विशेषतः ॥ ३३५ ॥ स्त्रीसंभोगरतानां च ग्राम्यभोजननिन्दितम् । ऊरुशूले कटिस्तम्भे योनिशूले च दारुणे ॥ ३३६ ॥ बस्तिवाते प्रवृद्धे च वातरोगे सुदुःसहे ।

३२ आयुर्वेदीयग्रन्थमाला । [तैलाधिकार घृतमेतत्प्रशंसन्ति सुकुमारं रसायनम् ॥ ३३७ ॥ कासे दशमूलाद्यं घृतम् । दशमूल्याढके प्रस्थं घृतस्याक्षसमैः पचेत् । पुष्कराह्वशठीबिल्वसुरसान्व्योषहिङ्गुभिः ॥ ३३८ ॥ पेयानुपानं तत्पेयं कासे श्वासे कफात्मके । श्वासरोगेषु सर्वेषु कफवातात्मकेषु च ॥ ३३९ ॥ इति श्रीसोढलग्रथिते गदनिग्रहे घृताधिकारः प्रथमः । अथातो द्वितीयस्तैलाधिकारः प्रारभ्यते । कुष्ठे कटुकालाबुतैलम् । कटुकालाबुबीजं द्वे तुत्थे रोचना हरिद्रे द्वे । बृहतीफलमेरण्डः सविशालश्चित्रको मूर्वा ॥ १ ॥ कासीसहिङ्गुत्र्यूषणसुरदारुतुम्बरुविडङ्गम् । लाङ्गलकी कुटजत्वक् कटुकारूष्या रोहिणी चैव ॥ २ ॥ सर्षपतैलं कल्कैर्मूत्रेण चतुर्गुणेन गवां सात्म्यम् । कण्डूकुष्ठविनाशनमभ्यङ्गाद्वातकफहन्तृ ॥ ३ ॥ कुष्ठे भद्रार्यं तैलम् । भद्रश्रीदारुमरिचद्विहरिद्रात्रिवृद्धनैः । गोमूत्रपिष्टैः पलिकैर्विषस्यार्धपलेन तु ॥ ४ ॥ जाम्बीरसार्कजक्षीरगोशकृद्रससंयुतम् । प्रस्थं सर्षपतैलस्य सिद्धमाशु व्यपोहति ॥ ५ ॥ पानाद्यैः शीलितं कुष्ठदुष्टनाडीव्रणापचीन् । वातव्याधौ बलातैलम् । बलाया जातसारायास्तुलां कुर्यात्सुकुट्टिताम् ॥ ६ ॥ क्वाथयेच्चतुर्द्रोणे चतुर्भागावशेषिते । पलानि दश पिष्टानि बलायास्तत्र दापयेत् ॥ ७ ॥