गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 45, कुल 286 में से
संदर्भ में पढ़ें२४ आयुर्वेदियग्रन्थमाला । [घृताधिकारः] आटरूषकपत्राणां पेषयित्वा पलं तथा । एतन्मृद्वग्निना सिद्धं सितं पूतमथापि वा ॥ २४५ ॥ द्विपलं शर्कराचूर्णं क्षीरार्धकुडवं तथा । त्वक्क्षीर्याश्च पलार्धं हि तत्सर्वं खजमूर्च्छितम् ॥ २४६ ॥ निदध्याद्भाजने शुद्धे काञ्चने राजतेऽपिवा । एतत्प्रायोगिकं सर्पिरिमान् व्याधीन् व्यपोहति ॥ २४७ ॥ कासं श्वासं ज्वरं गुल्मं कार्यं छर्दिमरोचकम् । हृद्रोगं पार्श्वशूलं च क्षतक्षीणं प्लीहोदरम् ॥ २४८ ॥ जीवनं बृंहणं वृष्यं पाण्डुश्वयथुनाशनम् । तन्त्रान्तराद्दाडिमाद्यं घृतम् । दाडिमात्कुडवो धान्यात्कुडवार्धं पलं पलम् ॥ २४९ ॥ चित्रकाच्छृङ्गवेराच्च पिप्पल्यष्टमिका तथा । कल्कैस्तैर्विंशतिपलं घृतस्य सलिलाढके ॥ २५० ॥ सिद्धं हृत्पाण्डुगुल्मार्शः प्लीहवातार्तिशूलनुत् । दीपनं श्वासकासघ्नं मूढवातानुलोमनम् ॥ २५१ ॥ दुःखप्रसविनीनां च वन्ध्यानां चैव पुत्रदम् । चित्रकाद्यं घृतम् । चित्रकस्य तुलाक्वाथे घृतप्रस्थं विपाचयेत् ॥ २५२ ॥ आरनालं च द्विगुणं दधिमण्डं चतुर्गुणम् । पञ्चकोलकतालीसक्षारैर्लवणसंयुतैः ॥ २५३ ॥ द्विजीरकनिशायुग्मैर्मरिचं तत्र दापयेत् । गुल्मप्लीहोदराध्मानपाण्डुरोगारुचिज्वरान् ॥ २५४ ॥ बस्तिहृत्पार्श्वकट्यूरुशूलोदावर्त्तजान् गदान् । निहन्यात् पीतमशोंघ्नं पाचनं वह्निदीपनम् । बलवर्णकरं चापि भसकं च नियच्छति ॥ २५५ ॥ १ प्रायोगिकमिति प्रयोगः स्वास्थस्य सततोपयोगः, तत्र साधु प्रायोगिकम् ।