गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 46, कुल 286 में से
संदर्भ में पढ़ेंगदनिग्रहः । २५ शोफे चित्रकाद्यं घृतम् । चित्रकं धान्ययवान्यजाजीसौवर्चलत्र्यूषणवेतसाम्लम् । ल्वोत्पलं दाडिमयावशूकं सपिप्पलीमूलमथापि चव्यम् २५६ ष्टाऽक्षमात्राणि जलाढकेन पक्त्वा घृतप्रस्थमथापि युञ्ज्यात् । र्शांसि गुल्मान् श्वयथुं सकृच्छ्रं निहन्ति वह्निं च करोति दीप्तम्॥ प्लीह्नि तृतीयं रोहीतकाद्यघृतम् । रोहीतकत्वचः श्रेष्ठात्पलानां पञ्चविंशतिः । कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत् ॥ २५८ ॥ पालिकैः पञ्चकोलैश्च तैः सर्वैश्चापि तुल्यया । रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत् ॥ २५९ ॥ प्लीहाभिवृद्धिं शमयेदेतदाशु प्रयोजितम् । तथा गुल्मज्वरश्वासकृमिपाण्डुत्वकामलान् ॥ २६० ॥ कुष्ठे गुग्गुलुपञ्चतिक्तकं घृतम् । निम्बामृतावृषपटोलनिदिग्धिकानां भागानिमान्दशपलान्विपचेद्वटेऽपाम् । अष्टांशशेषितशृतेन पुनश्च तेन प्रस्थं घृतस्य विपचेद्धृतभागकल्कैः ॥ २६१ ॥ पाठाविडङ्गसुरदारुगजौपकुल्या- द्विक्षारनागरनिशामिशिचव्यकुष्ठैः । तेजोवतीमरिचवत्सकदीप्यकाग्नि- रोहिण्यरुष्करवचाकणमूलयुक्तैः ॥ २६२ ॥ मञ्जिष्ठयाऽतिविषया विषया यवान्या संशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः । तत्सेवितं विधुवति प्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥ २६३ ॥ नाडीव्रणार्बुदभगन्दरगण्डमाला- जत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान् । ३