गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 47, कुल 286 में से
संदर्भ में पढ़ें२६ आयुर्वेदीयग्रन्थमाला । [घृताधिकारः यक्ष्मारुचिश्वसनपीनसशोफकास- हृत्पाण्डुरोगमदविद्रधिवातरक्तान् ॥ २६४ ॥ शीतकल्याणकं घृतम् । कुमुदं पद्मकोशीरं गोधूमा रक्तशालयः । शृङ्गपर्णी पयस्या च काश्मरी मधुयष्टिका ॥ २६५ ॥ बलातिबलयोर्मूलमुत्पलं तालमस्तकम् । विदारी शतपत्री च शालपर्णी सजीवकम् ॥ २६६ ॥ फलं त्रपुसबीजानि प्रत्यग्रं कदलीफलम् । एषामर्धपलान् भागान् गव्यं क्षीरं चतुर्गुणम् ॥२६७॥ पानीयं द्विगुणं दत्वा घृतप्रस्थं विपाचयेत् । प्रदरे रक्तगुल्मे च रक्तपित्ते हलीमके ॥ २६८ ॥ बहुरूपं च यत्पित्तं कामलां च सशोणितम् । अरोचके ज्वरे जीर्णे पाण्डुरोगे मदे भ्रमे ॥ २६९ ॥ तरुणा चानपत्या ये या च गर्भं न विन्दति । अहन्यहनि च स्त्रीणां भवति प्रीतिवर्धनम् ॥ २७० ॥ शीतकल्याणकं नाम परमुक्तं रसायनम् । हिक्काश्वासे शम्याथं घृतम् । शठिर्वचाऽभया कुष्ठं पिप्पली बिल्वशुण्ठिका ॥२७१॥ पलांशं सैन्धवं चव्यं तेजोवत्यथ पुष्करम् । सौवर्चलं तामलकी भूतीकं चाक्षकसंमितम् ॥ २७२ ॥ हिङ्ग्वर्धकर्षकोपेतं घृतप्रस्थं विपाचयेत् । चतुर्गुणं जलं चात्र दत्वा मृद्वग्निना पचेत् ॥ २७३ ॥ ग्रहण्यर्शोहितं कासहिक्कोरःपार्श्वशूलनुत् । श्वासान् सन्धिगतांश्चान्यान् हन्याद्वातकफामयान्॥२७४॥ नारसिंहं घृतम् । वह्निंर्भल्लातकं चैव शिंशपा खदिरं तथा । हरीतकींविडङ्गानि बीजके च तथाऽक्षकम् ॥ २७५ ॥