भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 44, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 44

१.] गदनिग्रहः । २३ चिकित्साकलिकाया गुल्मे महाबिन्दुघृतम् । त्रिवृत्पलं स्नुक्पयसः पलं च कम्पिल्लकस्यापि पलं तृतीयम् । चतुष्पलं चामलकीरसस्य पलार्धमन्यल्लवणस्य चैव ॥ २३३ ॥ प्रस्थार्धमेभिर्हविषो विपक्वं जले महाबिन्दुघृतं प्रसिद्धम् । निहन्ति गुल्मं जठराणि चैव प्लीहामयानाशु विरेकयोगात्॥२३४ कुष्ठे बिन्दुघृतम् । अर्कक्षीरपले द्वे तु स्नुहीक्षीरं पलानि षट् । पथ्या कम्पिल्लकं श्यामा श्यामाकं गिरिकर्णिका ॥ २३५॥ नीलिनी त्रिवृता दन्ती शङ्खिनी चित्रकं तथा । एतेषां पलिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ २३६ ॥ अथास्य मलिने कोष्ठे बिन्दुमात्रं प्रदापयेत् । यावन्तो ना पिवेद्बिन्दून् तावद्वारान्विरिच्यते ॥ २३७ ॥ कुष्ठं गुल्ममुदावर्तं श्वयथुं सभगन्दरम् । शमयत्युदराण्यष्टौ वृक्षमिन्द्राशनिर्यथा ॥ २३८ ॥ एतद्विन्दुघृतं नाम येनाभ्यक्तो विरिच्यते । कुष्ठे पञ्चतिक्तकं घृतम् । निम्बं पटोलं व्याघ्रीं च गडूचीं वासकं तथा ॥ २३९ ॥ कुर्यात्तुलां तु संचूर्ण्य काथयेत्तज्जले शुभे । पादावशेषेण ततो घृतप्रस्थं विपाचयेत् ॥ २४० ॥ त्रिफलागर्भसंयुक्तं पञ्चतिक्तकमुच्यते । अशीतिर्वातजान् रोगांश्चात्वारिंशच्च पैत्तिकान् ॥ २४१ ॥ विंशतिः श्लेष्मजांश्चैव पानादेवापकर्षति । खरनादाच्छूले लशुनघृतम् । प्रस्थं लशुनबीजानां कण्टकार्यास्तथैव च ॥ २४२ ॥ आटरूषकप्रस्थं च जलद्रोणे विपाचयेत् । द्राक्षाया गोस्तनायाश्च कुडवं चात्र मिश्रयेत् ॥ २४३ ॥ तत्र दद्याद्धृतप्रस्थं गोक्षीरप्रस्थमेव च । लशुनस्य तु पिष्टस्य पलं निष्पीड्य योजयेत् ॥ २४४ ॥