गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 43, कुल 286 में से
संदर्भ में पढ़ें२२ आयुर्वेदीयग्रन्थमाला । [घृताधिकारः रक्तपित्तहरं खेदक्लेदपूयोपशोषणम् ॥ २२१ ॥ कामलाज्वरवीसर्पगण्डमालाहरं परम् । कृष्णात्रेयाद्विन्दुघृतम् । त्रिवृता त्रिफला पाठा दन्ती कटुकरोहिणी ॥ २२२ ॥ चतुरङ्गुलमज्जा च तथा च कटुकत्रयम् । चित्रकं च बृहत्यौ च तथा च गजपिप्पली ॥ २२३ ॥ स्नुहीक्षीरपलं दद्यात् घृतस्याष्टौ प्रदापयेत् । यावन्तः स पिबेद्विन्दून् तावद्वेगान् विरिच्यते ॥ २२४ ॥ एतद्विन्दुघृतं सिद्धमृषिभिः परिकीर्तितम् । कृष्णात्रेयाद्गुल्मे महाबिन्दुघृतम् । स्नुहीक्षीरपले द्वे च प्रस्थार्धं चैव सर्पिषः ॥ २२५ ॥ कम्पिल्लकपलं चैव शाणार्धं सैन्धवस्य च । त्रिवृतायाः पलं चैव कुडवं धात्रिजाद्रसात् ॥ २२६ ॥ तोयप्रस्थेन संयुक्तं शनैर्मृद्वग्निना पचेत् । कर्षप्रमाणं दातव्यं जठरे प्लीहगुल्मयोः ॥ २२७ ॥ तथा कर्णोत्थरोगेषु युञ्जीत कुशलो भिषक् । एतद्गुल्मादिनिचयान्समूलान् सपरिग्रहान् ॥ २२८ ॥ निहन्त्येष प्रयोगो हि वायुर्जलधरानिव । पञ्चगुल्मवधार्थाय सर्पिरेतत् प्रकीर्तितम् ॥ २२९ ॥ सर्वासुरवधार्थाय यथा वज्रं बिडौजसा । महाबिन्दुघृतं सिद्धं सर्वोदरहरं परम् ॥ २३० ॥ गुल्मे बिन्दुघृतम् । श्यामात्रिवृद्वह्निपलत्रयं हि हरीतकीनां तु शतार्धमन्वक् । तोयाम्भसोऽर्धेन विपाचितेन प्रस्थं पचेद्द्रव्यघृतस्य चैव ॥२३१॥ कम्पिल्लकस्यापि पलप्रमाणं सनीलिनीबीजपलद्वयं च । चतुष्पलं स्नुक्पयसश्च दत्वा गुल्मापहं बिन्दुघृतं विरेकात्॥२३२