गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 35, कुल 286 में से
संदर्भ में पढ़ें१४ आयुर्वेदौयग्रन्थमाला । [घृताधिकारः वातव्याधौ शतावरीघृतम् । शतावरीमूलशतं द्विद्रोणेऽपां विपाचयेत् । अष्टभागावशेषेण घृतप्रस्थं विपाचयेत् ॥ १३० ॥ जीवनीयानि सर्वाणि रास्ना गोक्षुरकं तथा । शतपुष्पा वचा कुष्ठं सरलं सपुनर्नवम् ॥ १३१ ॥ चन्दनं तगरं मांसी पद्मकं रक्तचन्दनम् । सुरसं नागरं कृष्णा विडं नागरमुत्पलम् ॥ १३२ ॥ एभिरक्षसमैर्भागैः क्षीरं दद्याच्चतुर्गुणम् । बृंहणं वातपित्तघ्नं क्षतशोषज्वरापहम् ॥ १३३ ॥ पङ्गनां पृष्ठसर्पिणामर्दितानां च शस्यते ॥ पुंस्त्वोपघातिनां नृणां वन्ध्यानां चैव योजितम् ॥१३४॥ बलवर्णकरं ह्येतदलक्ष्मीघ्नं प्रजाकरम् । शतावरीघृतमिदमश्विभ्यां परिकीर्तितम् ॥ १३५ ॥ सारस्वतं घृतम् । समूलपत्रामादाय ब्राह्मीं प्रक्षाल्य वारिणा । उलूखलेन संक्षुद्य रसं वस्त्रेण गालयेत् ॥ १३६ ॥ चतुर्गुणे रसे तस्मिन् घृतप्रस्थं विपाचयेत् । औषधानि च पुष्पाणि तत्रेमानि प्रदापयेत् ॥ १३७ ॥ हरिद्रा मालती चैव त्रिफला च हरीतकी । एतेषां पालिकान् भागान् शेषाणां कार्षिकाः स्मृताः१३८ पिप्पल्योऽथ विडङ्गानि सैन्धवं शर्करा वृषम् । एतानि तु समालोढ्य शनैर्मृद्वग्निना पचेत् ॥ १३९ ॥ ततः पक्वं विजानीय क्षिप्रं तदवतारयेत् । ततः प्राशितमात्रेण बधिरत्वं प्रणश्यति ॥ १४० ॥ सप्ताहोपयोगेन भवेत्कविरसंशयम् । घृतं सारस्वतं नाम सरस्वत्या विनिर्मितम् ॥ १४१ ॥