भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 36, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 36

मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा वचा । अजमोदा हरिद्रे द्वे हिङ्गु तिक्तकरोहिणी ॥ १४२ ॥ काकोली क्षीरकाकोली मूलं चैवाश्वगन्धजम् । जीवकर्षभकौ मेदे रेणुका बृहतीद्वयम् ॥ १४३ ॥ उत्पलं चन्दनं द्राक्षा पद्मकं देवदारु च । एभिरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ १४४ ॥ चतुर्गुणेन पयसा विपचेन्मृदुनाऽग्निना । एतत्सर्पिर्नरः पीत्वा स्त्रीषु नित्यं वृषायते ॥ १४५ ॥ पुत्रं जनयते वीरं मेधाव्यं पुष्करेक्षणम् । वन्ध्या च लभते गर्भं श्यामा वेगात्प्रसूयते ॥ १४६ ॥ या चैव स्थिरगर्भास्यान्मृतापत्या तु या भवेत् । अल्पायुर्जननी चैव या च सूत्वा पुनः स्थिता ॥ १४७ ॥ एतदेव कुमाराणां सर्वाङ्ग्रहमोक्षणम् । धन्यं यशस्यमायुष्यं कान्तिलावण्यपुष्टिदम् ॥ १४८ ॥ ये च कल्याणके प्रोक्तास्ते चापीह गुणाः स्मृताः । एतत्फलघृतं नाम ह्यश्विभ्यां परिकीर्तितम् ॥ १४९ ॥ अग्निवेशात्क्षतक्षीणे श्वदंष्ट्राद्यं घृतम् । श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम् । दर्भमूलं पृश्निपर्णी जीवकर्षभकौ स्थिरा ॥ १५० ॥ पालिकै साधयेत्तेषां रसे क्षीरचतुर्गुणे । कल्कैः स्वगुप्ताजीवन्तीमेदकर्षभजीवकैः ॥ १५१ ॥ शतावर्युर्द्धिमृद्वीकाशर्कराश्रावणीबिसैः । प्रस्थः सिद्धो घृताद्वातपित्तनुद्दाही शूलहृत् ॥ १५२ ॥ मूत्रकृच्छ्रप्रमेहार्शःकांसशोषक्षयापहः । धनुःस्त्रीमध्वभाराध्वखिन्नानां बलमांसदः ॥ १५३ ॥