गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 37, कुल 286 में से
संदर्भ में पढ़ें३६ आयुर्वेदीयग्रन्थमाला । [घृताधिकारः कामलायां हारीताद्राक्षाद्यं घृतम् । पिष्ट्वा गोस्तनिकायास्तु पलान्यष्टौ समावपेत् । पुराणसर्पिषः प्रस्थं पचेत्क्षीरे चतुर्गुणे । कामलापाण्डुरोगार्शोज्वरकासार्तिनाशनम् ॥ १५४ ॥ वाग्भटात्कुष्ठे महावज्रकं घृतम् । वासामृतानिम्बपटोलतिक्ताव्याघ्रीकरञ्जोदककल्कसिद्धम् । सर्पिर्विसर्पज्वरकामलार्तिकुष्ठापहं वज्रकमामनन्ति ॥ १५५ ॥ वाग्भटात्कुष्ठे महावज्रकं घृतम् । त्रिफलात्रिकटुद्विकण्टकारीकटुकाकुम्भनिकुम्भराजवृक्षैः । सवचातिविषाग्निकैः सपाठैः पिचुभागैर्नव वज्रदुग्धमुष्ट्याः१५६ पिष्टैः सिद्धं सर्पिषः प्रस्थमेभिः क्रूरे कोष्ठे स्नेहनं रेचनं च । कुष्ठश्वित्रप्लीहवध्र्माश्मगुल्मान् हन्यात्कृच्छ्रांस्तन्महावज्रकाख्यम्॥ अग्निवेशात्कुष्ठे तिक्तकं घृतम् । निम्बपटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम् । कुर्यादर्धपलांशान् पर्पटकं त्रायमाणां च ॥ १५८ ॥ सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत्पूते । चन्दनकिराततिक्तकमागधिकात्रायमाणाश्च ॥ १५९ ॥ मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान् । नवसर्पिषश्च षट्पलमेतत्सिद्धं घृतं पेयम् ॥ १६० ॥ कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि । विसर्पपामापिडकाकण्डूमदगण्डनुत्तिक्तम् ॥ १६१ ॥ अग्निवेशात्कुष्ठे महातिक्तकं घृतम् । सप्तच्छदं प्रतिविषां शम्याकं तिक्तरोहिणीं पाठाम् । मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम् ॥ १६२ धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे । षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे ॥ १६३ ।