गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 38, कुल 286 में से
संदर्भ में पढ़ें[Header] गदनिग्रहः । १७. वत्सकबीजं वासां मूर्वाममृतां किराततिक्तं च । कल्कान्कुर्यान्मतिमान् यष्टयाह्वं त्रायमाणां च ॥ १६४ ॥ कल्कस्य चतुर्थभागो जलमष्टगुणं रसोऽमृतफलानाम् । द्विगुणो घृतात्प्रदेयस्तत्सिद्धं पाययेत्सर्पिः ॥ १६५ ॥ कुष्ठानि वातपित्तप्रबलान्यर्शांसि रक्तवाहीनि । वीसर्पमम्लपित्तं वातासृक् पाण्डुतां गुल्मम् ॥ १६६ ॥ विस्फोटकान् सपामामुन्मादं कामलां कृमीन् कण्डूम् । हृद्रोगं ज्वरपिडकामसृग्दरं गण्डमालां च ॥ १६७ ॥ हन्यादेतत् सद्यः पीतं काले यथाबलं सर्पिः । योगशतैरप्यजितान्महाविकारान्महातिक्तम् ॥ १६८ ॥ जतुकर्णोक्तकुष्ठे द्वितीयं महातिक्तकं घृतम् । करञ्जसप्तच्छदपिप्पलीनां मूलानि कृष्णा मधुकं विशाला । यवासकं चन्दनमुत्पलं च स्यात्रायमाणा कटुका वचा च ॥ १६९ उशीरपाठातिविषारजन्यः किराततिक्तं कुटजस्य बीजम् । निम्बासनारग्वधमालतीनां पत्राणि मूलानि च कण्टकार्याः १७० शतावरीपद्मकदेवदारुमुस्तानि कालीयककेसराणि । वासागुडूचीनतसारिवाश्च बला पटोलं त्रिफला च मूर्वा ॥ १७१ नीपं कदम्बो धववेतसौ च कर्कोटं पर्पटकं पयस्या । वाराहकन्दं मदयन्तिका च ब्राह्मी समङ्गर्लभकं बला च ॥ १७२ एतैः समांशैरथ कार्षिकैश्च घृतस्य पात्रं विपचेन्नवं च । द्रोणं जलस्याकलुषस्य दद्यात् पात्रद्वयं चामलकीरसस्य ॥ १७३ ॥ पक्कं प्रशान्तं गतफेनशब्दं प्रयोजयेत् कुष्ठहरं प्रशस्तम् । तद्रक्तपित्तानिलसन्निपातविस्फोटपाल्यामयविद्रधीनाम् ॥ १७४ किलासकासज्वरगण्डमालाग्रन्थ्यर्बुदानि त्वथ वातरक्तम् । हृत्पाण्डुरोगान् सभगन्दरांश्च निषेव्यमाणं नियमेन काले ॥ १७५ घृतं महातिक्तमिदं प्रशस्तं निहन्ति सर्वान् श्वयथूपदिष्टान् ।