गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 52, कुल 286 में से
संदर्भ में पढ़ेंगदनिग्रहः । ३१ त्रिवृतां निचुलं भार्गी श्रेयसीं मदयन्तिकाम् । पूतीकं रोहिसं पाठां दन्तीं चित्रकमाढकीम् ॥३२५॥ किराततिक्तकं मूर्वी व्योषं द्वे चापि सारिवे । सकषायं घृतप्रस्थमेभिः पेष्य विपाचयेत् ॥ ३२६ ॥ गव्यं शकृद्रसं क्षीरं तक्रं मूत्रं तथा दधि । तदैकध्यं पचेत्सर्पिः सिद्धं चैवावतारयेत् ॥ ३२७ ॥ एतन्महापञ्चगव्यं विख्यातदमृतं यथा । चातुर्थकान्मोचयति मन्त्रसिद्धो मुनिर्यथा ॥ ३२८ ॥ श्वयथुं पाण्डुरोगं च प्लीहार्शः सभगन्दरम् । उदराणि तथा गुल्मं कामलां चापकर्षति ॥ ३२९ ॥ तस्माद्भिष्क् प्रयुञ्जीत विधियुक्तेन योगवित् । बिन्दुसाराख्यं घृतम् । शतावरीबलारास्नादशमूलीत्रिकण्टकान् । अश्वगन्धासमायुक्तान् कुशकाससमन्वितान् ॥ ३३० ॥ दर्भेक्षुमूलसंयुक्तान् शरमूलविमिश्रितान् । मण्डूक्या च समायुक्तान् द्विपञ्चपलिकान् भिषक् ३३१ पुनर्नवायाः श्वेतायाः शिफां पलशतोन्मिताम् । जलद्रोणे प्रयत्नेन पचेत्सम्यक् चतुर्गुणे ॥ ३३२ ॥ पादावशेषे निःस्राव्य क्वाथमत्रावधिश्रयेत् । यवानीपिप्पलीद्राक्षाशुण्ठीयष्ट्याह्वसैन्धवान् ॥ ३३३ ॥ द्विपलिकान् विनिःक्षिप्य श्लक्ष्णं पिष्ट्वा विधानतः । घृतप्रस्थं पचेत्सम्यक् क्षीरप्रस्थद्वयान्वितम् ॥ ३३४ ॥ एरण्डतैलप्रस्थार्द्धं त्रिंशद्गुडपलैर्युतम् । एतदीश्वरपुत्राणां राज्ञां चैव विशेषतः ॥ ३३५ ॥ स्त्रीसंभोगरतानां च ग्राम्यभोजननिन्दितम् । ऊरुशूले कटिस्तम्भे योनिशूले च दारुणे ॥ ३३६ ॥ बस्तिवाते प्रवृद्धे च वातरोगे सुदुःसहे ।