भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 51, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 51

३० आयुर्वेदियम्रन्थमाला । [घृताधिकारः कासार्दिताः शोणितपित्तिनश्च पिवेयुरेते शिखिसर्पिरग्र्यम् ३१३ वृष्यं च बल्यं च रसायनं च सर्वेन्द्रियाणां बलवर्धनं च । ओजःखरं प्रीणयते च मात्रं विषघ्नमेतद्दरनाशनं च ॥ ३१४॥ एतेन वृद्धाः कृशदुर्बलाश्च तथैव वाग्ध्वससङ्गाहताश्च । प्रक्षीणवीर्याश्च रतिप्रसक्ताः स्त्रियः समागम्य तृषीमवन्ति ३१५ हिमव्यपाये हिमदग्धपल्लवाः पुनः प्ररोहन्ति यथा महीरुहाः । पुनस्तथा यौवनपुष्टिमन्तो नरा भवन्तीह घृतप्रयोगात्॥३१६॥ तिमिरे जीवन्त्याद्यं घृतम् । तुलां पचेद्वि जीवन्त्या द्रोणेऽपां पादशेषिते । दत्वा चतुर्गुणं क्षीरं घृतप्रस्थं विपाचयेत् ॥ ३१७ ॥ प्रपौण्डरीककाकोलीपिप्पलीरोध्रसैन्धवैः । शताह्वामधुकद्राक्षासितादारुफलत्रयैः ॥ ३१८ ॥ कार्षिकैर्निशि तत्पीतं तिमिरापहरं परम् । अपस्मारे पञ्चगव्यं घृतम् । दशमूलेन्द्रवृक्षत्वङ्मूर्वाभार्गीफलत्रयैः । शम्याकश्रेयसीसप्तपर्णापामार्गफल्गुभिः ॥ ३१९ ॥ शृतैः कल्कैश्च भूनिम्बतृवृताव्योषचित्रकैः । त्रिवृत्पाठाविशालारुङ्मलारिविडङ्गपौष्करैः ॥ ३२० ॥ कटुकावासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः । सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्रसैः ॥ ३२१ ॥ साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत् । चतुर्थकज्वरश्वासानुन्मादांश्च नियच्छति ॥ ३२२ ॥ ज्वरे महापञ्चगव्यं घृतम् । दशमूलमपामार्गं त्रिफलां कुटजत्वचम् । सप्तपर्णं हरिद्रे द्वे नीलिनीं कटुरोहिणीम् ॥ ३२३ ॥ आरग्वधं पुष्करं च फल्गुमूलं दुरालभाम् । द्विपलांशान् पचेद् द्रोणे साधयेत्पादशेषिते ॥ ३२४ ॥