भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 50, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 50

व्यापन्नवह्नौ कफगुल्मिनां च कण्डूविकारेषु च शस्तमेतत् । भल्लातकाख्यं नियमेन पीतं जयेच्च सर्वान् ग्रहणीविकारान् ३०१ जीर्णज्वरे पिप्पल्याद्यं घृतम् । पिप्पलयतिविषाद्राक्षासारिवाबिल्वचन्दनैः । कटुकेन्द्रयवोशीरशठीतामलकीघनैः ॥ ३०२ ॥ त्रायमाणास्थिराधात्रीविश्वभेषजचित्रकैः । पक्वेनैतैर्घृतं पर्क विच्छिद्य विषमाश्रिताम् ॥ ३०३ ॥ जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान् । क्षयकासान् ससंतापान् पार्श्वशूलान्यपास्यति ॥३०४॥ मायूरघृतम् । हेमन्तकाले शिशिरे च सेव्यं वसन्तकाले च मयूरसर्पिः । औष्ण्याद्धि बर्ही विषभक्षणाच्च वर्षाशरद्ग्रीष्ममुखे व्यपास्य ३०५ आहारजातं हि विहङ्गमस्य कीटाश्च सर्पाश्च सरीसृपाश्च । पिपीलिकामत्कुणमक्षिकाश्च तेनोष्र्णकालेष्वहितो मयूरः ३०६ तथैव काले जलदाभिरामे विसृज्य शुक्रं च मदं च बर्ही । कृशत्वमायाति हि हीनतां च शरन्मुखे तेन विवर्जनीयः३०७ अथाऽऽहरेत्स्वस्थमृतं वयस्थं निस्तुण्डपत्रात्रनखं मयूरम् । द्विद्रोणमात्रे पयसो निधाय विपाचयेन्द्रेषजसंप्रयुक्तम् ॥३०८॥ सश्रावणीमंशुमतीमनन्तां काकोलीमेदे वृषभे वयस्याम् । सविश्वदेवां सहदेवसाहां सप्तच्छदान्मूलफले बलां च ॥३०९॥ शतावरीजीवकसोमवल्कमेकैकशः स्युः पलसंमिताश्च । ततोऽर्धशिष्टे कथिते सुपूते घृताढकं तत्र पुनर्विपाच्य ॥३१०॥ कल्केरिमैः कर्षसमप्रमाणैर्द्रोणेन दुग्धस्य युतैः सुपिष्टैः । मुञ्जातकाक्षोडमथात्मगुप्ता वृद्धिस्तथा तामलकी सबीरा ३११ पियालमज्जा मधुकं तथैव सिद्धं प्रशान्तं गतफेनशब्दम् । पानेषु भोज्येषु च देयमेतद्भक्तेषु नानाप्रभवेषु चैव ॥ ३१२॥ मन्दाग्निरेतोविषपीडिताश्च क्षीणक्षताश्चापि कृषातिवृद्धाः ।

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक) · पृष्ठ 50, कुल 286 में से · BharatKosha