भारतकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

गदनिग्रहः । ३१ त्रिवृतां निचुलं भार्गी श्रेयसीं मदयन्तिकाम् । पूतीकं रोहिसं पाठां दन्तीं चित्रकमाढकीम् ॥३२५॥ किराततिक्तकं मूर्वी व्योषं द्वे चापि सारिवे । सकषायं घृतप्रस्थमेभिः पेष्य विपाचयेत् ॥ ३२६ ॥ गव्यं शकृद्रसं क्षीरं तक्रं मूत्रं तथा दधि । तदैकध्यं पचेत्सर्पिः सिद्धं चैवावतारयेत् ॥ ३२७ ॥ एतन्महापञ्चगव्यं विख्यातदमृतं यथा । चातुर्थकान्मोचयति मन्त्रसिद्धो मुनिर्यथा ॥ ३२८ ॥ श्वयथुं पाण्डुरोगं च प्लीहार्शः सभगन्दरम् । उदराणि तथा गुल्मं कामलां चापकर्षति ॥ ३२९ ॥ तस्माद्भिष्क् प्रयुञ्जीत विधियुक्तेन योगवित् । बिन्दुसाराख्यं घृतम् । शतावरीबलारास्नादशमूलीत्रिकण्टकान् । अश्वगन्धासमायुक्तान् कुशकाससमन्वितान् ॥ ३३० ॥ दर्भेक्षुमूलसंयुक्तान् शरमूलविमिश्रितान् । मण्डूक्या च समायुक्तान् द्विपञ्चपलिकान् भिषक् ३३१ पुनर्नवायाः श्वेतायाः शिफां पलशतोन्मिताम् । जलद्रोणे प्रयत्नेन पचेत्सम्यक् चतुर्गुणे ॥ ३३२ ॥ पादावशेषे निःस्राव्य क्वाथमत्रावधिश्रयेत् । यवानीपिप्पलीद्राक्षाशुण्ठीयष्ट्याह्वसैन्धवान् ॥ ३३३ ॥ द्विपलिकान् विनिःक्षिप्य श्लक्ष्णं पिष्ट्वा विधानतः । घृतप्रस्थं पचेत्सम्यक् क्षीरप्रस्थद्वयान्वितम् ॥ ३३४ ॥ एरण्डतैलप्रस्थार्द्धं त्रिंशद्गुडपलैर्युतम् । एतदीश्वरपुत्राणां राज्ञां चैव विशेषतः ॥ ३३५ ॥ स्त्रीसंभोगरतानां च ग्राम्यभोजननिन्दितम् । ऊरुशूले कटिस्तम्भे योनिशूले च दारुणे ॥ ३३६ ॥ बस्तिवाते प्रवृद्धे च वातरोगे सुदुःसहे ।

३२ आयुर्वेदीयग्रन्थमाला । [तैलाधिकार घृतमेतत्प्रशंसन्ति सुकुमारं रसायनम् ॥ ३३७ ॥ कासे दशमूलाद्यं घृतम् । दशमूल्याढके प्रस्थं घृतस्याक्षसमैः पचेत् । पुष्कराह्वशठीबिल्वसुरसान्व्योषहिङ्गुभिः ॥ ३३८ ॥ पेयानुपानं तत्पेयं कासे श्वासे कफात्मके । श्वासरोगेषु सर्वेषु कफवातात्मकेषु च ॥ ३३९ ॥ इति श्रीसोढलग्रथिते गदनिग्रहे घृताधिकारः प्रथमः । अथातो द्वितीयस्तैलाधिकारः प्रारभ्यते । कुष्ठे कटुकालाबुतैलम् । कटुकालाबुबीजं द्वे तुत्थे रोचना हरिद्रे द्वे । बृहतीफलमेरण्डः सविशालश्चित्रको मूर्वा ॥ १ ॥ कासीसहिङ्गुत्र्यूषणसुरदारुतुम्बरुविडङ्गम् । लाङ्गलकी कुटजत्वक् कटुकारूष्या रोहिणी चैव ॥ २ ॥ सर्षपतैलं कल्कैर्मूत्रेण चतुर्गुणेन गवां सात्म्यम् । कण्डूकुष्ठविनाशनमभ्यङ्गाद्वातकफहन्तृ ॥ ३ ॥ कुष्ठे भद्रार्यं तैलम् । भद्रश्रीदारुमरिचद्विहरिद्रात्रिवृद्धनैः । गोमूत्रपिष्टैः पलिकैर्विषस्यार्धपलेन तु ॥ ४ ॥ जाम्बीरसार्कजक्षीरगोशकृद्रससंयुतम् । प्रस्थं सर्षपतैलस्य सिद्धमाशु व्यपोहति ॥ ५ ॥ पानाद्यैः शीलितं कुष्ठदुष्टनाडीव्रणापचीन् । वातव्याधौ बलातैलम् । बलाया जातसारायास्तुलां कुर्यात्सुकुट्टिताम् ॥ ६ ॥ क्वाथयेच्चतुर्द्रोणे चतुर्भागावशेषिते । पलानि दश पिष्टानि बलायास्तत्र दापयेत् ॥ ७ ॥

गदनिग्रहः । ३३ लुश्वितानां तिलानां च दद्यात्तैलाढकद्वयम् । चतुर्गुणेन पयसा पाचयेन्मृदुनाऽग्निना ॥ ८ ॥ वातव्याधिषु सर्वेषु रक्तपित्ताश्रयाश्च ये । व्यापन्नासु च योनिषु शस्तं नष्टे च रेतसि ॥ ९ ॥ तालुशोषं तृषां दाहं पार्श्वशूलमसृग्दरम् । हन्ति शोषमपस्मारं विसर्पं सशिरोग्रहम् ॥ १० ॥ आयुर्वर्णकरं चैव बलातैलं प्रजाकरम् । वातव्याधौ बृहद्बलातैलम् । बृहद्वलायास्तु तुलां चतुर्द्रोणेऽम्भसः पचेत् ॥ ११ ॥ समुत्तार्य ततः सम्यग्दशभागस्थिते रसे । दधिमण्डेक्षुनिर्यासयुक्तैस्तैलाढकं समैः ॥ १२ ॥ पचेत्साजपयोर्धार्शैः कल्कैरेभिः पलोन्मितैः । शठीसरलदार्वेलामञ्जिष्ठागुरुचन्दनैः ॥ १३ ॥ पद्मकातिबलामुस्तासूर्यपर्णीहरेणुभिः । यष्ट्याह्वसुरसव्याघ्रनखर्षभकजीवकैः ॥ १४ ॥ पलाशरसकस्तूरीनलिकाजातिकोशकैः । स्पृक्काकुङ्कुमशैलेयमालतीकदफलाम्बुभिः ॥ १५ ॥ त्वचाकुन्दुरुकर्पूरतुरुष्कश्रीनिवासकैः । लवङ्गनखकङ्कोलकुष्ठमांसीप्रियङ्गुभिः ॥ १६ ॥ स्थौणेयतगरध्यामवचादमनचोरकैः । सनागकेशरैः सिद्धे दद्यात्पात्रावतारिते ॥ १७ ॥ तत्र कल्कं ततः पूतं विधिना च प्रयोजयेत् । कासं श्वासं ज्वरं छर्दिं शूलं हिक्कां क्षतक्षयम् ॥ १८ ॥ प्लीहं शोषमपस्मारमलक्ष्मीं च प्रणाशयेत् । बलातैलमिदं श्रेष्ठं वातव्याधिहरं परम् ॥ १९ ॥ वातव्याधौ तृतीयं बलातैलम् । बलाशतकषाये तु तैलस्यार्धाढकं पचेत् ।

३४ आयुर्वेदborder/ग्रन्थमाला । [ तैलाधिकार कल्कैर्मधुकमञ्जिष्ठाचन्दनोत्पलपद्मकैः ॥ २० ॥ सूक्ष्मैलापिप्पलीकुष्ठत्वगेलागुरुकेसरैः । गन्धैश्च जीवनीयैश्च क्षीराढकसमायुतम् ॥ २१ ॥ हतन्मृद्वग्निना पक्वं स्थापयेद्भाजने शुभे । सर्ववातविकारांस्तु सर्वधात्वन्तराश्रयान् ॥ २२ ॥ तैलमेतत्प्रशमयेच्छिन्नाभ्रमिव मारुतः । बलातैलं नरेन्द्रार्हमेतद्वातविकारनुत् ॥ २३ ॥ मूढगर्भे चतुर्थं बलातैलम् । बलामूलकषायस्य दशमूलीकृतस्य च । यवकोलकुलत्थानां क्वाथस्य पयसस्तथा ॥ २४ ॥ अष्टावष्टौ शुभा भागास्तैलादेकस्तदैकतः । पचेदावाप्य मधुरं गणं सैन्धवसंयुतम् ॥ २५ ॥ तथागरुं सर्जरसं सबलं देवदारु च । मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुसारिवाम् ॥ २६ ॥ शतावरीं चाश्वगन्धां शतपुष्पां पुनर्नवाम् । तत्साधु सिद्धं सौवर्णे राजते मृन्मयेऽपि वा ॥ २७ ॥ प्रक्षिप्य कलशे सम्यक् खनुगुप्तं निधापयेत् । बलातैलमिदं ख्यातं सर्ववातविकारनुत् ॥ २८ ॥ यथाबलमतो मात्रां सूतिकायै प्रदापयेत् । या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान् ॥ २९ ॥ धातुक्षीणे मर्महते मथितेऽभिहते तथा । मग्ने श्रमाखिपन्ने च सर्वथैव प्रयुज्यते ॥ ३० ॥ एतदाक्षेपकादींश्च वातव्याधीनपोहति । अलपघातुः पुरुषो भवेत्सुस्थिरयौवनः ॥ ३१ ॥ राज्ञामेतत्प्रकर्तव्यं राजमात्राश्च ये नराः । सुखिनः सुकुमाराश्च धनिनाश्चापि ये नराः ॥ ३२ ॥

गदनिग्रहः । ३५ वातव्याधौ प्रसारणीतैलम् । समूलपत्रामुत्पाट्य जातसारां प्रसारणीम् । कुट्टयित्वा पलशतं कटाहे समधिश्रयेत् ॥ ३३ ॥ वारिद्रोणसमायुक्तं चतुर्थांशावशेषितम् । कषायसममात्रं तु तैलमत्र प्रदापयेत् ॥ ३४ ॥ दध्नस्तथाऽऽढकं दत्वा द्विगुणैश्चाम्लकाञ्जिकैः । यवक्षारपले द्वे च सैन्धवस्य पलद्वयम् ॥ ३५ ॥ द्वे पले पिप्पलीमूलाच्चित्रकस्य पलद्वयम् । एतत्सर्वं समालोड्य शनैर्मृद्वग्निना पचेत् ॥ ३६ ॥ एतदभ्यञ्जनं श्रेष्ठं नस्यकर्मणि शस्यते । पाने बस्तौ च दातव्यं न क्वचित्प्रतिहन्यते ॥ ३७ ॥ अशीतिर्वातरोगाणां तैलमेतद्व्यपोहति । गृध्रसीं सास्थिभङ्गां च मन्दाग्नित्वं च नाशयेत् ॥ ३८ ॥ अपस्मारमथोन्मादं विद्रधिं मन्दगामिताम् । त्वग्गताश्चापि ये वाताः शिरासन्धिगताश्च ये ॥ ३९ ॥ जानुगुल्फगताश्चैव पादपृष्ठगतास्तथा । अश्वं वा वातसंभग्नं नरं वा जर्जरीकृतम् ॥ ४० ॥ सर्वान् प्रशमयत्येतत्तैलमात्रेयपूजितम् । इन्द्रियैश्वर्यजननं वन्ध्यानां च प्रजाकरम् ॥ ४१ ॥ एतेनान्धकवृष्णीनां बहुच्छत्रं कुलं कृतम् । प्रसारणीतैलमिदं बलमांसविवर्धनम् ॥ ४२ ॥ धन्यं प्रजाकरं श्रेष्ठं वृद्धकालेऽपि सेवितम् । पङ्गुः पीठसर्पी वा पीत्वैतत्सं प्रधावति ॥ ४३ ॥ द्वितीयं प्रसारणीतैलम् । प्रसारण्याः पलाशतं बलामूलार्धमाषिकम् । शतावर्यह्वगन्धा च शतपुष्पा पुनर्नवा ॥ ४४ ॥ भङ्गी दशमूलं च चित्रको मदनं शठी । CATALOGUED.

पलाशंकान् समापोथ्य जलद्रोणे विपाचयेत् ॥ ४५ ॥ चतुर्भागावशेषं तु कषायमवतारयेत् । रास्त्रां शताह्वां मधुकं पिप्पलीं नागरं वचां ॥ ४६ ॥ कुष्ठं हरेणुकां मांसीं प्रियङ्गि्वन्द्रयवान् बिडम् । सैन्धवं शृङ्गवेरं च यवक्षारं सचित्रकम् ॥ ४७ ॥ मधूलिकां व्याघ्रनखं पालिकान् श्लक्ष्णपेषितान् । पचेत्तैलाढकं पूतमारानालपयोयुतम् ॥ ४८ ॥ एतदभ्यञ्जनं श्रेष्ठं नस्यकर्मानुवासने । गृध्रसीमस्थिभङ्गं च ये च मन्दाग्नयो नराः ॥ ४९ ॥ अपस्मारं तथोन्मादं विद्रधिं मन्दगामिताम् । त्वग्गतांश्चापि ये वाताः शिरासन्धिंगताश्च ये ॥ ५० ॥ अश्वं वा वातसम्भग्नं नरं वा जर्जरीकृतम् । सर्वान् प्रशामयत्येतत्तैलमात्रेयपूजितम् ॥ ५१ ॥ स्थिरीकरणमेतद्धि वलीपलितनाशनम् । इन्द्रियाणां बलकरं वर्णौदार्यकरं तथा ॥ ५२ ॥ बल्यं प्रजाकरं श्रेष्ठं वृद्धकालेऽपि सेवितम् । पङ्गुर्वाऽप्यथवा खञ्जः पीत्वा तैलं प्रधावति ॥ ५३ ॥ वातरोगे तृतीयं प्रसारणीतैलम् । समूलपत्रामुत्पाट्य जातसारां प्रसारणीम् । कुट्टयित्वा पलशतं कटाहे समधिश्रयेत् ॥ ५४ ॥ दशमूली बला रास्ना तथा सहचरामृते । शतावरी श्वदंष्ट्रा च एरण्डः कपिकच्छुका ॥ ५५ ॥ पृथग्दशपलान् भागांस्तथैव समधिश्रयेत् । वारिद्रोणे समायुक्तं चतुर्भागावशेषितम् ॥ ५६ ॥ काञ्जिकसमभागं तु तैलमत्र प्रदापयेत् । प्रशस्ते ऽहनि दिने कार्ये नक्षत्रे चापि शोभने ॥ ५७ ॥

देवदारु वचा कुष्ठं शताह्वा मधुयष्टिका । पिप्पली मधुकं रास्त्रा ह्यष्टवर्गेण संयुता ॥ ५८ ॥ चित्रकं पद्मकोशीरे कुष्ठं व्याघ्रनखं शठी । शुण्ठीसैन्धवमञ्जिष्ठाः कल्कपेष्याणि कारयेत् ॥ ५९ ॥ दधिमस्त्वम्लशुक्तानां तथा मांलरसस्य च । आढकाढकमादाय शनैर्मृद्वग्निना पचेत् ॥ ६० ॥ एतदभ्यञ्जनं पानं नस्यकर्मानुवासनम् । पृष्ठपार्श्वग्रहे शूले सक्थिवङ्क्षणयोस्तथा ॥ ६१ ॥ एकाङ्गे पक्षवधे हनुमन्याशिरोग्रहे । बाधिर्ये कर्णशूले च कर्णनादे च दापयेत् ॥ ६२ ॥ अभ्यङ्गात्त्वग्गतं हन्ति पानान्मांसगतं तथा । पक्वाशयगते बस्तिर्निरूहः सार्वकार्मिकः ॥ ६३ ॥ अशीतिर्वातजान् रोगांश्चत्वारिंशच्च पैत्तिकान् । विंशतिः श्लेष्मजांश्चैव सर्वानेवापकर्षति ॥ ६४ ॥ गृध्रसीं वातभग्नं च ऋतुदोषं तथैव च । ये नरा नष्टशुक्राश्च ऋतुहीनाश्च याः स्त्रियः ॥ ६५ ॥ वन्ध्या च लभते गर्भमृतुस्नाता न संशयः । (यस्मात्प्रसारयत्येषा मेधाग्निजनता शुभा ॥ ६६ ॥ आयुर्वृद्धिकरा चैव तथा जनकपूजिता । ?) वातव्याधौ चतुर्थं प्रसारणीतैलम् । प्रसारणीशतं क्षुण्णं पचेत्तोयार्मणे शुभे ॥ ६७ ॥ पादशेषे पचेत्तैलं दधिमस्त्वम्लकाञ्जिकम् । द्विगुणं श्लक्ष्णपिष्टानि द्रव्याणीमानि योजयेत् ॥ ६८ ॥ द्विपलाभ्यधिकंमधुककणामूलं पटुं वचाम् । मूलं तथा प्रसारण्याः क्षारं च यवशूकजम् ॥ ६९ ॥ त्रिंशद्बल्लातकास्थीनि नागरात्पलपञ्चकम् । ४

३८ आयुर्वेदग्रन्थमाला । [तैलाधिकारः सिद्धं मृद्वग्निना तैलं वातश्लेष्मामयाञ्जयेत् ॥ ७० ॥ अशीतिर्नरनारीणां वातरोगान्निषूदति । कुब्जवामनपङ्गुत्वं खञ्जत्वं गृध्रसीं खुडम् ॥ ७१ ॥ हन्यात्पृष्ठकटिग्रीवास्तम्भं चाशु व्यपोहति । पीठसर्पी विभग्नश्च पीत्वा तैलं सुखी भवेत् ॥ ७२ ॥ प्रसारणीतैलमिदं बलवर्णाग्निवर्धनम् । वातरक्ते शतावरीतैलम् । शतावरीरसप्रस्थं क्षीरप्रस्थं तथैव च ॥ ७३ ॥ शतपुष्पा देवदारु मांसी शैलेयकं बला । चन्दनं तगरं कुष्ठमेला सांशुमती तथा ॥ ७४ ॥ एतैः कर्षसमैर्भागैस्तैलप्रस्थं विपाचयेत् । कुष्ठवामनपङ्गनां बधिरव्यङ्गकुष्ठिनाम् ॥ ७५ ॥ वायुना भग्नदेहानां येऽवसीदन्ति मैथुने । जराजर्जरदेहानां घर्मार्तमुखशोषिणाम् ॥ ७६ ॥ त्वग्गताश्चापि ये वाताः सिरास्नायुगताश्च ये । सर्वांस्तान्नाशयत्याशु तैलं नास्त्यत्र संशयः ॥ ७७ ॥ नारायणमिदं नाम्ना विष्णुना समुदाहृतम् । दक्षाङ्गमिव विख्यातं न क्वचित्प्रतिहन्यते ॥ ७८ ॥ वातव्याधौ द्वितीयं शतावरीतैलम् । शतावर्यास्तु मूलानां रसप्रस्थं समाहरेत् । क्षीरद्विगुणसंयुक्तं तैलप्रस्थं विपाचयेत् ॥ ७९ ॥ शतपुष्पा देवदारु मांसी शैलेयकं वचा । मञ्जिष्ठा चन्दनं कुष्ठमेला चांशुमती बला ॥ ८० ॥ तुरङ्गन्धा काकोली मेदा रास्ना पुनर्नवा । एतैरर्धपलैर्द्रव्यैः शनैर्मृद्वग्निना पचेत् ॥ ८१ ॥ अस्य तैलस्य पक्वस्य शृणु वीर्यमतः परम् । कुब्जानां वामनानां च पङ्गनां पीठसर्पिणाम् ॥ ८२ ॥

आक्षेपके च भग्नानां तथा भग्नास्थिसन्धिषु । एकाङ्गं तुद्यते यस्य गतिर्यस्य विहन्यते ॥ ८३ ॥ रक्तपित्तहरं शस्तं वातघ्नं परमं स्मृतम् । वातव्याधौ रास्नातैलम् । रास्नामूलस्य कुर्वीत द्वेशते च बलाशतम् ॥ ८४ ॥ शतावरीगुडूचीभ्यां वरुणाच्च शतं शतम् । निर्गुण्डीशिग्रुकैरण्डशिरीषारग्वधादपि ॥ ८५ ॥ श्वदंष्ट्राभूतिकाभ्यां च पृथक् पञ्चपलं क्षिपेत् । तोयद्रोणेषु शतसु साधयेत्सूक्ष्मकुट्टितम् ॥ ८६ ॥ द्रोणावशेषे तैलस्य शुद्धस्यार्धार्मणं पचेत् । द्रोणा दश च दुग्धस्य घृतस्यार्धाढकं तथा ॥ ८७ ॥ तदैकध्यं विपक्तव्यं गर्भ चात्र समावपेत् । मधुकं मालतीपुष्पं मञ्जिष्ठां मदयन्तिकाम् ॥ ८८ ॥ काश्मर्याण्यजमोदां च लवलीं तालमस्तकम् । आत्मगुप्ताफलं मूर्वां वार्त्ताकानि मधूलिकाम् ॥ ८९ ॥ सहदेवामयैरण्डं रोहिषं नवमालिकाम् । कायस्थां च वयस्थां च मधुपर्णी च चित्रकम् ॥ ९० ॥ महापुरुषदान्तां च बलां सकदलीफलाम् । देवदार्वगुरुश्रेष्ठं चन्दनं परिपेलवम् ॥ ९१ ॥ नीलोत्पलमुशीराणि मृद्वीकां साम्लवेतसाम् । एभिः पलशतैः पिष्टैः सम्यक् तैलं विपाचयेत् ॥ ९२ ॥ भोजनाभ्यञ्जने पाने बस्तौ नस्ये च शस्यते । वातव्याधिषु सर्वेषु क्षतक्षीणे शिरोग्रहे ॥ ९३ ॥ अपस्मारे रक्तगुल्मे पुंसां नष्टे च रेतसि । रास्नातैलमिदं श्रेष्ठं बलमांसविवर्धनम् ॥ ९४ ॥ वातव्याधौ शताह्वातैलम् । जलद्रोणे शताह्वायाः पादशेषे तुलां पचेत् ।

४० आयुर्वेदीयग्रन्थमाला । [तैलाधिकारः क्वाथं तैलाढकोन्मिश्रं पचेत्क्षीरे चतुर्गुणे ॥ ९५ ॥ हरेणुकुष्ठसूक्ष्मैलातगरामरुसैन्धवैः । पक्वं कल्कैः पलसमैः प्रयोज्यं वातशीघ्रनुत् ॥ ९६ ॥ योनिशुक्ररजोदोषनाशनं स्त्रीषु पुत्रदम् । शताह्वातैलमित्येतद्बृंहणं बलवर्धनम् ॥ ९७ ॥ वातव्याधौ मूलकतैलम् । बालमूलकनिर्यूहस्तैलदध्यम्लकाञ्जिकम् । क्षीरं गवाढकोन्मानं पचेत्कल्कैः पलोन्मितैः ॥ ९८ ॥ रास्ना भल्लातकं चैव सैन्धवं गजपिप्पली । बला सातिविषा शुण्ठी पिप्पलीचित्रकं वचा ॥ ९९ ॥ श्वदंष्ट्रा चेति तत्पक्वं श्लेष्मवातामयापहम् । वर्ध्मगृध्रसीपङ्गुत्वं कुण्डलं सापतन्त्रकम् ॥ १०० ॥ कट्यूरूतम्भशोषं च पर्वस्तम्भं सकम्पनम् । हन्याद्गुल्मं च वातोत्थं बलवर्णाग्निवर्धनम् ॥ १०१ ॥ वन्ध्यानां पुत्रदं चैव तैलं मूलकसाह्वयम् । वातव्याधौ सहचरतैलम् । समूलपत्रशाखस्य शतं सहचरस्य च ॥ १०२ ॥ चतुर्गुणे जलद्रोणे साधयेत्सूक्ष्मचूर्णितम् । द्रोणावशेषे पूते च पचेत्तैलाढकं शनैः ॥ १०३ ॥ सहचरस्य मूलानां पेष्यं दशपलं भवेत् । परिस्राव्य सुखोष्णे तु शर्करायाः प्रदापयेत् ॥ १०४॥ पलानि दश चाष्टौ च निर्मथ्य च निधापयेत् । बस्तौ पाने तथाऽभ्यङ्गे नस्ये चैव प्रशस्यते ॥ १०५ ॥ एकाङ्गिकं पक्षवधं हनुग्रहशिरोग्रहम् । अर्दितं वेपथून्मादं सर्वगात्रग्रहं ज्वरम् ॥ १०६ ॥ गृध्रसीं वातगुल्मं च भूतोपहतचेतसम् । अपस्मारं हनुस्तम्भमूरुस्तम्भं च नाशयेत् ॥ १०७ ॥

गदनिग्रहः । ४१ मण्डकुण्डलवधर्माणि हनुजानुविकुञ्चनम् । संधानं सर्वगात्राणां स्तम्भनं शोधनं तथा ॥ १०८ ॥ तैलमेतत्प्रशमयेच्छिन्नाञ्चाणीव मारुतः । वातव्याधौ सहचरतैलम् । समूलपत्रशाखस्य शतं सहचरस्य च ॥ १०९ ॥ क्षोदयित्वा जलद्रोणे क्वाथं पादावशेषितम् । शतपुष्पा देवदारु मांसी शैलेयकं वचा ॥ ११० ॥ चन्दनं तगरं कुष्ठमेलां चांशुमतीं तथा । एतैः कर्षसमैर्भागैस्तैलप्रस्थं विपाचयेत् ॥ १११ ॥ पयस्तद्द्विगुणं दत्त्वा पलान्यष्टौ च शर्करा । अथ तैलस्य पक्वस्य शृणु वीर्यमतः परम् ॥ ११२ ॥ ये च कोष्ठगता वाता ये च वाताः शिरोगताः । अस्थिमज्जगताश्चैव कर्णमध्यगताश्च ये ॥ ११३ ॥ मूकानां मिन्मिणानां च पीठकट्यूरूसर्पिणाम् । स्वभावेन च ये भग्ना अस्थिभग्नाश्च ये नराः ॥ ११४ ॥ तेषां च संप्रयोक्तव्यं हितमेतदनुत्तमम् । वातव्याधौ श्योनाकतैलम् । श्योनाकमूलस्य शतं दशमूलीशतं तथा ॥ ११५ ॥ रोहिषं शिग्रुकं रास्नां पृथक् पञ्चशतं क्षिपेत् । छागलादथमव्याच्च माहिषात्कौक्कुटादपि ॥ ११६ ॥ पञ्चाशत्पलिकान् भागान् मांसादेषां प्रदापयेत् । चतुर्षु तोयद्रोणेषु साधयेच्छक्ष्णकुट्टितम् ॥ ११७ ॥ द्रोणावशेषे पूते च पचेत्तैलाढकं शनैः । महासहां क्षुद्रसहां जीवन्तीं जीवकं वचाम् ॥ ११८ ॥ कुष्ठं च शतपुष्पां च सूक्ष्मैलां चैलवालुकम् । जीवकर्षभकौ द्राक्षां शृङ्गीं कर्कटकस्य च ॥ ११९ ॥ मोचां च निचुलं मुस्तां सारिवे द्वे महौषधम् ।

गदनिग्रहः । ४३ खुड्डाकपद्मकं तैलम् । पद्मोशीरयष्ट्याह्वरजनीक्वाथसाधितम् ॥ १३३ ॥ सुपिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः । खुड्डाकपद्मकं तैलं वातासृग्दरदाहजित् ॥ १३४ ॥ वातरक्ते महापद्मकं तैलम् । पद्मवेतसयष्ट्याह्वफलिनीपद्मकोत्पलैः । पृथक् पञ्चपलैर्दर्भबलाचन्दनकिंशुकैः ॥ १३५ ॥ जले शृतैः पचेत्तैलं प्रस्थं सौवीरसंयुतम् । लोध्रकालीयकोशीरजीवकर्षभकेसरैः ॥ १३६ ॥ मदयन्तिलतापत्रपद्मकेशरपत्रकैः । प्रपौण्डरीककाकोलीमांसीदारुप्रियङ्गुभिः ॥ १३७ ॥ कुङ्कुमस्य पलार्धेन मञ्जिष्ठाद्विपलेन च । महापद्ममिदं तैलं वातास्ररोगनाशनम् ॥ १३८ ॥ ज्वरे तृतीयं महापद्मकं तैलम् । दर्भवेतसमूलानि चन्दनं मधुकं बला । फेनिलापद्मकोशीरमञ्जिष्ठाकमलोत्पलैः ॥ १३९ ॥ कैंशुकं च विभागाः स्युः पृथक् पञ्चपलोन्मिताः । जलद्रोणे विपक्तव्यमष्टभागावशेषितम् ॥ १४० ॥ जीवकर्षभकौ मेदां रोध्रं भल्लातकं तथा । कालीयकं प्रियङ्गुं च दद्यात्केशरमेव च ॥ १४१ ॥ प्रपौण्डरीकं मधुकं पद्मकं पद्मकेशरम् । सुरभि कुङ्कुमं चैव मञ्जिष्ठां मदयन्तिकाम् ॥ १४२ ॥ मांसीं पत्रं च तुल्यांशं द्विगुणं कुङ्कुमं भवेत् । चतुर्गुणा तु मञ्जिष्ठा सौवीरं तैलसंमितम् ॥ १४३ ॥ तैलप्रस्थं पचेदेभिः कषायेणाथ पेषितैः । एतदभ्यञ्जनं तैलं विषमज्वरनाशनम् ॥ १४४ ॥ १ खुड्डाकशब्दोऽल्पार्थः । यथा चरके-खुड्डिका गर्भावक्रान्तिः, अल्पेत्यर्थः ।

आयुर्वेदीयग्रन्थमाला । [ तैलाधिकारः महापद्ममिदं ख्यातमेतत्तैलं महागुणम् । वर्णप्रसादजननं सौकुमार्यविवर्धनम् ॥ १४५ ॥ पानाभ्यञ्जनवस्तौ च नस्यकर्मणि च स्मृतम् । वातपित्तभवं श्वित्रं ज्वरमेतन्नियच्छति ॥ १४६ ॥ वातव्याधौ बृहन्माषतैलम् । प्रस्थे द्वे खण्डमाषाणां क्वाथयेत्सलिलेऽर्मणे । चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥ १४७ ॥ मस्तुनस्त्वढकं दत्त्वा तत्समं चाम्लकाञ्जिकम् । औषधानि च पेष्याणि तत्रेमानि प्रदापयेत् ॥ १४८ ॥ सैन्धवं मदनं रास्ना शताह्वा त्र्यूषणं वचा । समरं चोरबुकं च मञ्जिष्ठा पद्मकेशरम् ॥ १४९ ॥ बला गोक्षुरकं श्लाठा सरलं देवदारु च । साजगन्धाऽश्वगन्धा च पुष्करं सपुनर्नवम् ॥ १५० ॥ एतानि चाक्षमात्राणि कल्कीकृत्य प्रयोजयेत् । नस्ये पाने तथाऽभ्यङ्गे बस्तिकर्मणि योजयेत् ॥ १५१ ॥ अर्दितं कर्णशूलं च मन्यास्तम्भं हनुग्रहम् । बाधिर्यं पक्षघातं च गृध्रसीं खञ्जपङ्गुलम् ॥ ॥ १५२ ॥ सर्वानेतान् जयेच्छीघ्रं वृक्षमिन्द्राशनिर्यथा । माषतैलमिदं नाम्ना सर्ववातविकारनुत् ॥ १५३ ॥ बाहुरोगे सूक्ष्ममाषतैलम् । कपिकच्छुवात्यालकशतावरीसिञ्चपुनर्नवामूलैः । सैन्धवजिङ्गिणिकातरुनिर्यासाभ्यां च कटुतैलम् ॥१५४॥ माषक्वाथेन पचेद्द्विगुणेन पूर्वकल्‍कसंयुक्तम् । सकृदुपयुक्तमिदं नस्येन निहन्ति बाहुरुजम् ॥ १५५॥ वातव्याधौ तृतीयं महामाषतैलम् । माषात्मगुप्तोरुबूककण्टकारी- जीवन्तीङ्गुदजटाकपिकच्छुतोयैः ।

कार्पासिकास्थिषणबीजकुलत्थकोल- क्वाथेन बस्तपिशितस्य रसेन तैलम् ॥ १५६ ॥ शुण्ठ्या समागधिकया शतपुष्पया च सैरण्डमूलसपुनर्नवया सपर्ण्या । रास्नाबलामृतलताकटुकैर्विपक्वं माषाख्यमेतदवबाहुकहारि तैलम् ॥ १५७ ॥ अर्द्धाङ्गशोषमपतानकमाढ्यवात- माक्षेपकं ससृजकम्पशिरःप्रकम्पम् । नस्येन बस्तिविधिना परिषेचनेन हन्यात्कटीजघनजानुरुजः समीरान् ॥ १५८ ॥ वातव्याधौ दशाङ्गतैलम् । सैरेयकोऽमृतलता वाजिगन्धा शतावरी । प्रसारणी नागबला श्वदंष्ट्रा सपुनर्नवा ॥ १५९ ॥ बला चेति समान् भागान् रास्नारससमन्वितान् । विज्ञाय दोषप्रकृतिं कषायमुपकल्पयेत् ॥ १६० ॥ तेन पादावशेषेण तिलतैलाढकं पचेत् । दधिमस्त्विक्षुनिर्यासशुक्तलाक्षोदकैः समैः ॥ १६१ ॥ चतुर्गुणेन पयसा कल्कैरेभिर्पलोन्मितैः । मांसीशताह्वमधुकमञ्जिष्ठारक्तचन्दनैः ॥ १६२ ॥ शतावरीदेवदारुकौन्तीत्वक्पत्रवारिजैः । कुष्ठागरुवचायुक्तैस्तैलं सिद्धं प्रदापयेत् ॥ १६३ ॥ बस्तौ पाने तथाऽभ्यङ्गे नस्ये च परिषेचने । सर्वरोगान् जयत्येतत्संसृष्टान् मातरिश्वना ॥ १६४ ॥ विशेषतो ह्यपस्मारमुन्मादं वातशोणितम् । स्त्रीणामपत्यजननं पुंसां चातिबलप्रदम् ॥ १६५ ॥ नराणां गद्गदानां च मूकानां वाक्प्रवर्तनम् । मेधाजननमायुष्यं बलवर्णाग्निवर्धनम् ॥ १६६ ॥

आयुर्वेदीयग्रन्थमाला। [तैलाधिकारः सर्वग्रहघ्नं विषजित् सन्निपातहरं परम् । दशाङ्गमिति विख्यातमश्विभ्यां परिकीर्तितम् ॥१६७॥ ऊरुस्तम्भे सैन्धवाद्यं तैलम् । द्वे पले सैन्धवात्पञ्च शुण्ठ्या ग्रन्थिकचित्रकात् । द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽढकम् ॥१६८॥ आरनालं पचेत्प्रस्थं तैलस्यैरण्डजस्य च । गृध्रस्यूरुग्रहाशर्तिसर्ववातविकारनुत् ॥ १६९ ॥ कुसुम्भाद्यं तैलम् । कुसुम्भकुङ्कुमोशीरमञ्जिष्ठारक्तचन्दनैः । सिक्थसर्जरसातङ्ख्यगुडूचीसैन्धवाम्बुदैः ॥ १७० ॥ मूर्वाशतावरीलाक्षामधुकैश्च पलांशकैः । चतुर्गुणेन पयसा पचेत्तैलाढकं भिषक् ॥ १७१ ॥ अर्दितं कर्णशूलं च शिरःशूलं च दारुणम् । गृध्रसीं वातरक्तं च पक्षाघातं व्यपोहति ॥ १७२ ॥ तद्वस्तिषु च पानेषु नस्ये च कर्णपूरणे । अभ्यङ्गे च शिरोरोगे तैलं विद्याद्यथाऽमृतम् ॥१७३॥ पाणिपादांसदाहेषु गुदयोनिरुजासु च । सुप्तिवातेऽस्थिभङ्गे च देवदेवेन पूजितम् ॥ १७४ ॥ भगन्दरे मागध्याद्यं तैलम् । मागधी मधुकं रोध्रं कुष्ठमेला हरेणवः । समङ्गा धातकी चैव सारिवा रजनीद्वयम् ॥ १७५ ॥ प्रियङ्गवः सर्जरसः पद्मकं पद्मकेशरम् । मातुलुङ्गस्य पत्राणि मधूच्छिष्टं ससैन्धवम् ॥ १७६ ॥ एतत्संभृत्य संभारं तैलं धीरो विपाचयेत् । एतद्धि गण्डमालासु मण्डलेष्वथ मेहिषु ॥ १ रोपणार्थं हितं तैलं भगन्दरविनाशनम् ।

गदनिग्रहः । १४ भगन्दरे चित्रकाद्यं तैलम् । चित्रकार्कत्रिवृत्पाठामलयूहयमारकान् ॥ १७८ ॥ सुधां वचां लाङ्गलिकां सप्तपर्णं सुवर्चिकाम् । ज्योतिष्मतीं च संभृत्य तैलं धीरो विपाचयेत् ॥१७९॥ एतदभ्यञ्जनं तैलं भृशं दद्याद्भगन्दरे । शोधनं रोपणं चैव सवर्णकरणं तथा ॥ १८० ॥ गण्डमालायामजमोदाद्यं तैलम् । अजमोदा च सिन्दूरं हरितालं निशाद्वयम् । क्षारद्वयं फेनयुतं सार्द्रकं सरलोद्भवम् ॥ १८१ ॥ इन्द्रवारुण्यापामार्गकदलीकन्दकैः समैः । एभिः सार्षपकं तैलमजामूत्राष्टयोजितम् ॥ १८२ ॥ मृद्वग्नौ पाचयेदेतत्स्नुह्यर्कक्षीरसंयुक्तम् । अजमोदादिकं तैलं गण्डमालां व्यपोहति ॥ १८३ ॥ आमां विदग्धां तु पचेत्पक्वां चैव विशोधयेत् । रोपणं मृदुभावं च तैलेनानेन कारयेत् ॥ १८४ ॥ वातव्याधावश्वगन्धाद्यं तैलम् । मूलानि चाश्वगन्धायाः शतं स्यात्खण्डशः कृतम् । द्विद्रोणेऽपां पचेत्क्वाथमष्टभागावशेषितम् ॥ १८५ ॥ तैलाढकं समावाप्य क्षीरं दद्याच्चतुर्गुणम् । एतत्समालोड्य पचेत्कल्कांश्चेमान् समावपेत् ॥१८६॥ तगरं शतपुष्पां च मुस्तं व्याघ्रनखं त्वचम् । मधुकं शृङ्गवेरं च पृश्निपर्णीं बलां स्थिराम् ॥ १८७ ॥ रास्नां पुष्करमूलं च भूतीकं सपुनर्नवम् । मञ्जिष्ठां नलदं पत्रं द्र्रवन्तीं सुरसां वचाम् ॥ १८८ ॥ श्वदंष्ट्रां च मृणालं च वयःस्थां बहुपुत्रिकाम् । श्लक्ष्णपिष्टार्धपलिकान् दत्त्वा गर्भे विपाचयेत् ॥१८९॥ तत्सिद्धमविदग्धं च ततः समवतारयेत् ।

आयुर्वेदियग्रन्थमाला । [तैलाधिकारः बस्तौ पाने तथाऽभ्यङ्गे नस्यकर्मणि भोजने ॥ १९० ॥ यत्र यत्र विधातव्यं तन्मे निगदतः शृणु । खञ्जमूकजडत्वे च तिमिरे च तथाऽर्बुदे ॥ १९१ ॥ पक्षाघाते तथाऽऽयामे च्युतभग्नास्थिसन्धिषु । विधेयं पृष्ठमग्नेषु हनुमन्याग्रहे तथा ॥ १९२ ॥ स्तम्भकम्पेषु शोषेषु रुजासु विविधासु च । ज्वरे च विषमे गुल्मे तथा मारुतशोणिते ॥ १९३ ॥ प्लीहि प्लीहोदरे चैव विद्रधिगृध्रसीषु च । क्षीणेन्द्रिया नष्टशुक्रा ये चान्ये षण्ढका नराः ॥ १९४ ॥ भूतोपहतचित्ताश्च शस्यते तेषु नित्यशः । व्यापन्नयोनौ वन्ध्यासु पाययेत तदा भिषक् ॥ १९५॥ पुत्रदं परमं प्रोक्तं धन्वन्तरिवचो यथा । बालव्याध्याश्वगन्धाख्यं तैलम् । अश्वगन्धाशतं क्षुण्णं क्वाथ्य द्रोणे जलस्य च ॥ १९६ ॥ निःस्राव्य विपचेत्तैलं क्षीरं दत्त्वा चतुर्गुणम् । कल्कैर्मृणालशालूकबिशकिञ्जल्कमालती- ॥ १९७ ॥ पुष्पैर्ह्रीवेरमधुकवक्रसारिवकैशरैः । मेदापुनर्नवाद्राक्षामञ्जिष्ठाबृहतीद्वयैः ॥ १९८ ॥ वचैलापत्रत्रिफलामुस्तचन्दनपद्मकैः । पित्तरक्तास्रपान्वातान् रक्तपित्तमसृग्दरम् ॥ १९९ ॥ हन्यात्पुष्टिकारं चैव कृशानां मांसवर्धनम् । रेतोयोनिविकारघ्नं भ्रूणदोषापकर्षणम् ॥ २०० ॥ षण्ढानपि वृषान् कुर्यात्पानाभ्यङ्गानुवासनैः । कुङ्कुमाद्यं मुखकान्तिदं तैलम् । कुङ्कुमं चन्दनं पत्रमुशीरं कमलोत्पले ॥ २०१ ॥ गोरोचना हरिद्रे द्वे मञ्जिष्ठा मधुयष्टिका । सारिवास्तोकसद्वाङ्गपत्रपैरिककेशरम् ॥ २०२ ॥

२.] गदनिग्रहः । स्वर्णक्षीरी प्रियङ्गुश्च कालेयं रक्तचन्दनम् । एभिरक्षसमैर्भागैस्तैलप्रस्थं विपाचयेत् ॥ २०३ ॥ अभ्यङ्गाद्राजपत्नीनां ये चान्ये धनिनो नराः । तिलकान् पिडकान् व्यङ्गान् नीलिकां मुखदूषिकाम्।२०४ कार्श्यं चापि शरीरस्य दुश्छायां च विवर्णताम् । नाशयेदाशु जनयेद्रूपं चाथ मनोहरम् ॥ २०५ ॥ पद्मकेशरवर्णाभं मुखं भवति कान्तिमत् । वातरक्ते यष्टीमधुकाद्यं तैलम् । मधुयष्ट्याः पलशतं कषाये पादशेषिते ॥ २०६ ॥ तैलाढकं समक्षीरं पचेत्कल्कैः पलोन्मितैः । शतपुष्पावरीकुष्ठपयस्यागुरुचन्दनैः ॥ २०७ ॥ स्थिराहंसपदीमांसीद्विमेदामधुपर्णिभिः । काकोलीक्षीरकाकोलीतामलक्यर्धिपद्मकैः ॥२०८॥ जीवन्तीजीवकवचात्वक्पत्रनखवालकैः । प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः ॥ २०९ ॥ चतुष्प्रयोगाद्धन्ति तैलं मारुतशोणितम् । सोपद्रवं साङ्गशूलं सर्वगात्रानुगं तथा ॥ २१० ॥ वातासृक्पित्तदाहर्तिज्वरघ्नं बलवर्णकृत् । कर्णरोगे लघुक्षारतैलम् । शुष्कमूलकशुण्ठीनां क्षारो हिङ्गु महौषधम् ॥ २११ ॥ शतपुष्पा वचा कुष्ठं दारु शिग्रु रसाञ्जनम् । मातुलुङ्गरसश्चैव कदल्या रस एव च ॥ २१२ ॥ तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम् । बाधिर्यं कर्णनादश्च पूयास्रावश्च दारुणः ॥ २१३ ॥ कृमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् । १ अभ्यङ्गपाननस्यबस्तिषु चतुर्षु प्रयोगादित्यर्थः । ५

आयुर्वेदीयग्रन्थमाला । [तैलाधिकारः कर्णरोगे बृहत्क्षारतैलम् । शुष्कमूलकशुण्ठीनां क्षारो हिङ्गु महौषधम् ॥ २१४ ॥ शतपुष्पा वचा कुष्ठं दारु शिग्रू रसाञ्जनम् । मातुलुङ्गरसश्चैव कदल्या रस एव च ॥ २१५ ॥ तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम् । बाधिर्यं कर्णनादश्च पूयास्रावश्च दारुणः ॥ २१६ ॥ पूरणादस्य तैलस्य कृमयः कर्णसंश्रिताः । क्षिप्रं विनाशं गच्छन्ति कृष्णात्रेयस्य शासनात्॥२१७॥ क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् । नेत्ररोगे भृङ्गराजतैलम् । भृङ्गरसस्य प्रस्थं तैलात्कुडवं पलं च मधुकस्य ॥ २१८ ॥ क्षीरप्रस्थविपक्वं गतमपि चक्षुर्निवर्तयति । केशवृद्धौ द्वितीयं भृङ्गराजाद्यं तैलम् । भृङ्गरसत्रिफलोत्पलसारि लोहपुरीषसमन्वितकारि ॥२१९॥ तैलमिदं पच दारुणहारि लुञ्चितकेशघनस्थिरकारि । केशवृद्धौ तृतीयं भृङ्गराजतैलम् । मार्कवस्वरसभावितगुञ्जाबीजचूर्णपरिपाचिततैलम् ॥२२०॥ मिश्रितं तु त्रुटिजटासुरकाष्ठैः केशवर्धनं वनितायाः । बृहद्भृङ्गराजाद्यं तैलम् । आनूपदेशजं पुष्टं गृहीत्वा मार्कवं शुभम् ॥ २२१ ॥ प्रक्षाल्य जर्जरीकृत्य रसं तस्य प्रपीडयेत् । चतुर्गुणेन तेनैव तैलप्रस्थं विपाचयेत् ॥ २२२ ॥ क्षीरपिष्टैरिमैर्द्रव्यैः संयोज्य मतिमान् भिषक् । मञ्जिष्ठा पद्मकं रोध्रं चन्दनं गैरिकं बलाम् ॥ २२३ ॥ रजन्यौ केसरं दारु प्रियङ्गुमधुयष्टिके । प्रपौण्डरीकं सौम्यं च पलिकान्यत्र दापयेत् ॥ २२४ ॥

गदनिग्रहः । ५१ कुष्ठं तगरमाषांश्च सिद्धार्थंश्चागुरुं तथा । मुस्तकं चाथ शैलेयं कर्पूरं परिकल्पितम् ॥ २२५ ॥ सम्यक्पक्वं ततो ज्ञात्वा शुभे भाण्डे निधापयेत् । केशशाते शिरोदुःखे मन्यास्तम्भे हनुग्रहे ॥ २२६ ॥ अकालपलिते चैव दारुणे चैव दारुणे । दन्तकर्णाक्षिरोगेषु नस्यमेतत्प्रदापयेत् ॥ २२७ ॥ नस्यप्रयोगान्मासेन क्षीरान्नप्रतिभोजिनः । सुकुञ्चिताग्रान् केशांश्च स्निग्धान्कुर्याद्बहूंस्तथा । खालित्ये सेन्द्रलुप्ते च तैलमेतद्यथाऽमृतम् ॥ २२८ ॥ केशरोगे असनार्थं तैलम् । असनसारकषायविपाचितं त्रिफलया मधुकेन च संयुतम् । भवति नावनतैलमनुत्तमं पलितनेत्रविकाररुजापहम् ॥ २२९॥ शिरोरोगे षड्बिन्दुतैलम् । एरण्डमूलं तगरं रास्ना यष्टी च सैन्धवम् । जीवन्ती शतपुष्पा च विडङ्गं नागरं तथा ॥ २३० ॥ मधूकसारमिलेभिः कल्कपिष्टैस्तिलोद्भवम् । तैलं पचेद्भृङ्गरसे द्विगुणे च पयस्यथ ॥ २३१ ॥ षड्बिन्दुनस्यदानेन हन्याच्छीर्षामयान् बहून् । चलतां द्विजकेशानां पततां दार्थ्यमानयेत् ॥ २३२ ॥ दृग्बलं परमं तेषां बाह्वोः स्यादुत्तमं बलम् । वलिपलितहृत्तैलमिदं षड्बिन्दुसंज्ञितम् ॥ २३३ ॥ शिरोरोगे द्वितीयं षड्बिन्दुतैलम् । एरण्डमूलं तगरं शताह्वा जीवन्ती रास्ना लवणोत्तमं च । भृङ्गं विडङ्गं मधुयष्टिका च विश्वौषधं कृष्णतिलस्य तैलम्॥२३४॥ आजं पयस्तैलविमिश्रितं च चतुर्गुणे भृङ्गरसे विपक्वम् । षड्बिन्दवो नासिकया प्रयुक्ता निघ्नन्ति सर्वाञ्छिरसो विकारान्