गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 66, कुल 286 में से
संदर्भ में पढ़ेंआयुर्वेदीयग्रन्थमाला। [तैलाधिकारः सर्वग्रहघ्नं विषजित् सन्निपातहरं परम् । दशाङ्गमिति विख्यातमश्विभ्यां परिकीर्तितम् ॥१६७॥ ऊरुस्तम्भे सैन्धवाद्यं तैलम् । द्वे पले सैन्धवात्पञ्च शुण्ठ्या ग्रन्थिकचित्रकात् । द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽढकम् ॥१६८॥ आरनालं पचेत्प्रस्थं तैलस्यैरण्डजस्य च । गृध्रस्यूरुग्रहाशर्तिसर्ववातविकारनुत् ॥ १६९ ॥ कुसुम्भाद्यं तैलम् । कुसुम्भकुङ्कुमोशीरमञ्जिष्ठारक्तचन्दनैः । सिक्थसर्जरसातङ्ख्यगुडूचीसैन्धवाम्बुदैः ॥ १७० ॥ मूर्वाशतावरीलाक्षामधुकैश्च पलांशकैः । चतुर्गुणेन पयसा पचेत्तैलाढकं भिषक् ॥ १७१ ॥ अर्दितं कर्णशूलं च शिरःशूलं च दारुणम् । गृध्रसीं वातरक्तं च पक्षाघातं व्यपोहति ॥ १७२ ॥ तद्वस्तिषु च पानेषु नस्ये च कर्णपूरणे । अभ्यङ्गे च शिरोरोगे तैलं विद्याद्यथाऽमृतम् ॥१७३॥ पाणिपादांसदाहेषु गुदयोनिरुजासु च । सुप्तिवातेऽस्थिभङ्गे च देवदेवेन पूजितम् ॥ १७४ ॥ भगन्दरे मागध्याद्यं तैलम् । मागधी मधुकं रोध्रं कुष्ठमेला हरेणवः । समङ्गा धातकी चैव सारिवा रजनीद्वयम् ॥ १७५ ॥ प्रियङ्गवः सर्जरसः पद्मकं पद्मकेशरम् । मातुलुङ्गस्य पत्राणि मधूच्छिष्टं ससैन्धवम् ॥ १७६ ॥ एतत्संभृत्य संभारं तैलं धीरो विपाचयेत् । एतद्धि गण्डमालासु मण्डलेष्वथ मेहिषु ॥ १ रोपणार्थं हितं तैलं भगन्दरविनाशनम् ।