गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 65, कुल 286 में से
संदर्भ में पढ़ेंकार्पासिकास्थिषणबीजकुलत्थकोल- क्वाथेन बस्तपिशितस्य रसेन तैलम् ॥ १५६ ॥ शुण्ठ्या समागधिकया शतपुष्पया च सैरण्डमूलसपुनर्नवया सपर्ण्या । रास्नाबलामृतलताकटुकैर्विपक्वं माषाख्यमेतदवबाहुकहारि तैलम् ॥ १५७ ॥ अर्द्धाङ्गशोषमपतानकमाढ्यवात- माक्षेपकं ससृजकम्पशिरःप्रकम्पम् । नस्येन बस्तिविधिना परिषेचनेन हन्यात्कटीजघनजानुरुजः समीरान् ॥ १५८ ॥ वातव्याधौ दशाङ्गतैलम् । सैरेयकोऽमृतलता वाजिगन्धा शतावरी । प्रसारणी नागबला श्वदंष्ट्रा सपुनर्नवा ॥ १५९ ॥ बला चेति समान् भागान् रास्नारससमन्वितान् । विज्ञाय दोषप्रकृतिं कषायमुपकल्पयेत् ॥ १६० ॥ तेन पादावशेषेण तिलतैलाढकं पचेत् । दधिमस्त्विक्षुनिर्यासशुक्तलाक्षोदकैः समैः ॥ १६१ ॥ चतुर्गुणेन पयसा कल्कैरेभिर्पलोन्मितैः । मांसीशताह्वमधुकमञ्जिष्ठारक्तचन्दनैः ॥ १६२ ॥ शतावरीदेवदारुकौन्तीत्वक्पत्रवारिजैः । कुष्ठागरुवचायुक्तैस्तैलं सिद्धं प्रदापयेत् ॥ १६३ ॥ बस्तौ पाने तथाऽभ्यङ्गे नस्ये च परिषेचने । सर्वरोगान् जयत्येतत्संसृष्टान् मातरिश्वना ॥ १६४ ॥ विशेषतो ह्यपस्मारमुन्मादं वातशोणितम् । स्त्रीणामपत्यजननं पुंसां चातिबलप्रदम् ॥ १६५ ॥ नराणां गद्गदानां च मूकानां वाक्प्रवर्तनम् । मेधाजननमायुष्यं बलवर्णाग्निवर्धनम् ॥ १६६ ॥