गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 60, कुल 286 में से
संदर्भ में पढ़ेंआक्षेपके च भग्नानां तथा भग्नास्थिसन्धिषु । एकाङ्गं तुद्यते यस्य गतिर्यस्य विहन्यते ॥ ८३ ॥ रक्तपित्तहरं शस्तं वातघ्नं परमं स्मृतम् । वातव्याधौ रास्नातैलम् । रास्नामूलस्य कुर्वीत द्वेशते च बलाशतम् ॥ ८४ ॥ शतावरीगुडूचीभ्यां वरुणाच्च शतं शतम् । निर्गुण्डीशिग्रुकैरण्डशिरीषारग्वधादपि ॥ ८५ ॥ श्वदंष्ट्राभूतिकाभ्यां च पृथक् पञ्चपलं क्षिपेत् । तोयद्रोणेषु शतसु साधयेत्सूक्ष्मकुट्टितम् ॥ ८६ ॥ द्रोणावशेषे तैलस्य शुद्धस्यार्धार्मणं पचेत् । द्रोणा दश च दुग्धस्य घृतस्यार्धाढकं तथा ॥ ८७ ॥ तदैकध्यं विपक्तव्यं गर्भ चात्र समावपेत् । मधुकं मालतीपुष्पं मञ्जिष्ठां मदयन्तिकाम् ॥ ८८ ॥ काश्मर्याण्यजमोदां च लवलीं तालमस्तकम् । आत्मगुप्ताफलं मूर्वां वार्त्ताकानि मधूलिकाम् ॥ ८९ ॥ सहदेवामयैरण्डं रोहिषं नवमालिकाम् । कायस्थां च वयस्थां च मधुपर्णी च चित्रकम् ॥ ९० ॥ महापुरुषदान्तां च बलां सकदलीफलाम् । देवदार्वगुरुश्रेष्ठं चन्दनं परिपेलवम् ॥ ९१ ॥ नीलोत्पलमुशीराणि मृद्वीकां साम्लवेतसाम् । एभिः पलशतैः पिष्टैः सम्यक् तैलं विपाचयेत् ॥ ९२ ॥ भोजनाभ्यञ्जने पाने बस्तौ नस्ये च शस्यते । वातव्याधिषु सर्वेषु क्षतक्षीणे शिरोग्रहे ॥ ९३ ॥ अपस्मारे रक्तगुल्मे पुंसां नष्टे च रेतसि । रास्नातैलमिदं श्रेष्ठं बलमांसविवर्धनम् ॥ ९४ ॥ वातव्याधौ शताह्वातैलम् । जलद्रोणे शताह्वायाः पादशेषे तुलां पचेत् ।