गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 61, कुल 286 में से
संदर्भ में पढ़ें४० आयुर्वेदीयग्रन्थमाला । [तैलाधिकारः क्वाथं तैलाढकोन्मिश्रं पचेत्क्षीरे चतुर्गुणे ॥ ९५ ॥ हरेणुकुष्ठसूक्ष्मैलातगरामरुसैन्धवैः । पक्वं कल्कैः पलसमैः प्रयोज्यं वातशीघ्रनुत् ॥ ९६ ॥ योनिशुक्ररजोदोषनाशनं स्त्रीषु पुत्रदम् । शताह्वातैलमित्येतद्बृंहणं बलवर्धनम् ॥ ९७ ॥ वातव्याधौ मूलकतैलम् । बालमूलकनिर्यूहस्तैलदध्यम्लकाञ्जिकम् । क्षीरं गवाढकोन्मानं पचेत्कल्कैः पलोन्मितैः ॥ ९८ ॥ रास्ना भल्लातकं चैव सैन्धवं गजपिप्पली । बला सातिविषा शुण्ठी पिप्पलीचित्रकं वचा ॥ ९९ ॥ श्वदंष्ट्रा चेति तत्पक्वं श्लेष्मवातामयापहम् । वर्ध्मगृध्रसीपङ्गुत्वं कुण्डलं सापतन्त्रकम् ॥ १०० ॥ कट्यूरूतम्भशोषं च पर्वस्तम्भं सकम्पनम् । हन्याद्गुल्मं च वातोत्थं बलवर्णाग्निवर्धनम् ॥ १०१ ॥ वन्ध्यानां पुत्रदं चैव तैलं मूलकसाह्वयम् । वातव्याधौ सहचरतैलम् । समूलपत्रशाखस्य शतं सहचरस्य च ॥ १०२ ॥ चतुर्गुणे जलद्रोणे साधयेत्सूक्ष्मचूर्णितम् । द्रोणावशेषे पूते च पचेत्तैलाढकं शनैः ॥ १०३ ॥ सहचरस्य मूलानां पेष्यं दशपलं भवेत् । परिस्राव्य सुखोष्णे तु शर्करायाः प्रदापयेत् ॥ १०४॥ पलानि दश चाष्टौ च निर्मथ्य च निधापयेत् । बस्तौ पाने तथाऽभ्यङ्गे नस्ये चैव प्रशस्यते ॥ १०५ ॥ एकाङ्गिकं पक्षवधं हनुग्रहशिरोग्रहम् । अर्दितं वेपथून्मादं सर्वगात्रग्रहं ज्वरम् ॥ १०६ ॥ गृध्रसीं वातगुल्मं च भूतोपहतचेतसम् । अपस्मारं हनुस्तम्भमूरुस्तम्भं च नाशयेत् ॥ १०७ ॥