गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 69, कुल 286 में से
संदर्भ में पढ़ें२.] गदनिग्रहः । स्वर्णक्षीरी प्रियङ्गुश्च कालेयं रक्तचन्दनम् । एभिरक्षसमैर्भागैस्तैलप्रस्थं विपाचयेत् ॥ २०३ ॥ अभ्यङ्गाद्राजपत्नीनां ये चान्ये धनिनो नराः । तिलकान् पिडकान् व्यङ्गान् नीलिकां मुखदूषिकाम्।२०४ कार्श्यं चापि शरीरस्य दुश्छायां च विवर्णताम् । नाशयेदाशु जनयेद्रूपं चाथ मनोहरम् ॥ २०५ ॥ पद्मकेशरवर्णाभं मुखं भवति कान्तिमत् । वातरक्ते यष्टीमधुकाद्यं तैलम् । मधुयष्ट्याः पलशतं कषाये पादशेषिते ॥ २०६ ॥ तैलाढकं समक्षीरं पचेत्कल्कैः पलोन्मितैः । शतपुष्पावरीकुष्ठपयस्यागुरुचन्दनैः ॥ २०७ ॥ स्थिराहंसपदीमांसीद्विमेदामधुपर्णिभिः । काकोलीक्षीरकाकोलीतामलक्यर्धिपद्मकैः ॥२०८॥ जीवन्तीजीवकवचात्वक्पत्रनखवालकैः । प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः ॥ २०९ ॥ चतुष्प्रयोगाद्धन्ति तैलं मारुतशोणितम् । सोपद्रवं साङ्गशूलं सर्वगात्रानुगं तथा ॥ २१० ॥ वातासृक्पित्तदाहर्तिज्वरघ्नं बलवर्णकृत् । कर्णरोगे लघुक्षारतैलम् । शुष्कमूलकशुण्ठीनां क्षारो हिङ्गु महौषधम् ॥ २११ ॥ शतपुष्पा वचा कुष्ठं दारु शिग्रु रसाञ्जनम् । मातुलुङ्गरसश्चैव कदल्या रस एव च ॥ २१२ ॥ तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम् । बाधिर्यं कर्णनादश्च पूयास्रावश्च दारुणः ॥ २१३ ॥ कृमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् । १ अभ्यङ्गपाननस्यबस्तिषु चतुर्षु प्रयोगादित्यर्थः । ५