गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 68, कुल 286 में से
संदर्भ में पढ़ेंआयुर्वेदियग्रन्थमाला । [तैलाधिकारः बस्तौ पाने तथाऽभ्यङ्गे नस्यकर्मणि भोजने ॥ १९० ॥ यत्र यत्र विधातव्यं तन्मे निगदतः शृणु । खञ्जमूकजडत्वे च तिमिरे च तथाऽर्बुदे ॥ १९१ ॥ पक्षाघाते तथाऽऽयामे च्युतभग्नास्थिसन्धिषु । विधेयं पृष्ठमग्नेषु हनुमन्याग्रहे तथा ॥ १९२ ॥ स्तम्भकम्पेषु शोषेषु रुजासु विविधासु च । ज्वरे च विषमे गुल्मे तथा मारुतशोणिते ॥ १९३ ॥ प्लीहि प्लीहोदरे चैव विद्रधिगृध्रसीषु च । क्षीणेन्द्रिया नष्टशुक्रा ये चान्ये षण्ढका नराः ॥ १९४ ॥ भूतोपहतचित्ताश्च शस्यते तेषु नित्यशः । व्यापन्नयोनौ वन्ध्यासु पाययेत तदा भिषक् ॥ १९५॥ पुत्रदं परमं प्रोक्तं धन्वन्तरिवचो यथा । बालव्याध्याश्वगन्धाख्यं तैलम् । अश्वगन्धाशतं क्षुण्णं क्वाथ्य द्रोणे जलस्य च ॥ १९६ ॥ निःस्राव्य विपचेत्तैलं क्षीरं दत्त्वा चतुर्गुणम् । कल्कैर्मृणालशालूकबिशकिञ्जल्कमालती- ॥ १९७ ॥ पुष्पैर्ह्रीवेरमधुकवक्रसारिवकैशरैः । मेदापुनर्नवाद्राक्षामञ्जिष्ठाबृहतीद्वयैः ॥ १९८ ॥ वचैलापत्रत्रिफलामुस्तचन्दनपद्मकैः । पित्तरक्तास्रपान्वातान् रक्तपित्तमसृग्दरम् ॥ १९९ ॥ हन्यात्पुष्टिकारं चैव कृशानां मांसवर्धनम् । रेतोयोनिविकारघ्नं भ्रूणदोषापकर्षणम् ॥ २०० ॥ षण्ढानपि वृषान् कुर्यात्पानाभ्यङ्गानुवासनैः । कुङ्कुमाद्यं मुखकान्तिदं तैलम् । कुङ्कुमं चन्दनं पत्रमुशीरं कमलोत्पले ॥ २०१ ॥ गोरोचना हरिद्रे द्वे मञ्जिष्ठा मधुयष्टिका । सारिवास्तोकसद्वाङ्गपत्रपैरिककेशरम् ॥ २०२ ॥