गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 70, कुल 286 में से
संदर्भ में पढ़ेंआयुर्वेदीयग्रन्थमाला । [तैलाधिकारः कर्णरोगे बृहत्क्षारतैलम् । शुष्कमूलकशुण्ठीनां क्षारो हिङ्गु महौषधम् ॥ २१४ ॥ शतपुष्पा वचा कुष्ठं दारु शिग्रू रसाञ्जनम् । मातुलुङ्गरसश्चैव कदल्या रस एव च ॥ २१५ ॥ तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम् । बाधिर्यं कर्णनादश्च पूयास्रावश्च दारुणः ॥ २१६ ॥ पूरणादस्य तैलस्य कृमयः कर्णसंश्रिताः । क्षिप्रं विनाशं गच्छन्ति कृष्णात्रेयस्य शासनात्॥२१७॥ क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् । नेत्ररोगे भृङ्गराजतैलम् । भृङ्गरसस्य प्रस्थं तैलात्कुडवं पलं च मधुकस्य ॥ २१८ ॥ क्षीरप्रस्थविपक्वं गतमपि चक्षुर्निवर्तयति । केशवृद्धौ द्वितीयं भृङ्गराजाद्यं तैलम् । भृङ्गरसत्रिफलोत्पलसारि लोहपुरीषसमन्वितकारि ॥२१९॥ तैलमिदं पच दारुणहारि लुञ्चितकेशघनस्थिरकारि । केशवृद्धौ तृतीयं भृङ्गराजतैलम् । मार्कवस्वरसभावितगुञ्जाबीजचूर्णपरिपाचिततैलम् ॥२२०॥ मिश्रितं तु त्रुटिजटासुरकाष्ठैः केशवर्धनं वनितायाः । बृहद्भृङ्गराजाद्यं तैलम् । आनूपदेशजं पुष्टं गृहीत्वा मार्कवं शुभम् ॥ २२१ ॥ प्रक्षाल्य जर्जरीकृत्य रसं तस्य प्रपीडयेत् । चतुर्गुणेन तेनैव तैलप्रस्थं विपाचयेत् ॥ २२२ ॥ क्षीरपिष्टैरिमैर्द्रव्यैः संयोज्य मतिमान् भिषक् । मञ्जिष्ठा पद्मकं रोध्रं चन्दनं गैरिकं बलाम् ॥ २२३ ॥ रजन्यौ केसरं दारु प्रियङ्गुमधुयष्टिके । प्रपौण्डरीकं सौम्यं च पलिकान्यत्र दापयेत् ॥ २२४ ॥