भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 72, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 72

५२ आयुर्वेदीयग्रन्थमाला । [ तैलाधिकार च्युतांश्च केशान्पतितांश्च दन्तानाबद्धमूलांश्च दृढीकरोति । सुपर्णदृष्टिप्रतिमं च चक्षुर्बाहोर्बलं चाभ्यधिकं करोति॥२३६। दन्तरोगे बकुलाद्यं तैलम् । बकुलस्य फलं लोध्रं बला वल्ली कुरण्टकम् । चतुरङ्गुलबब्बूलवाजिकर्णारिमेदकम् ॥ २३७ ॥ एषां कल्ककषायाभ्यां तैलं पक्वं मुखे धृतम् । स्थैर्यं करोति दन्तानां चलतां नावनेन च ॥ २३८ ॥ दन्तरोगे नीलसहचराद्यं तैलम् । तुलां धृतां नीलसहाचरस्य संक्षुद्य द्रोणे श्रपयेज्जलस्य । दत्त्वा चतुर्थावशेषेन तेन तैलं पचेदर्धपलग्रयुक्तैः ॥ २३९ ॥ कल्कैरनन्ताखदिरेरिमेदजम्ब्वाग्रयष्टीमधुकोत्पलानाम् । तत्तैलमाश्वेव धृतं मुखेन स्थैर्यं द्विजानां चलतां विदध्यात्२४० मुखरोगे इरिमेदाद्यं तैलम् । इरिमेदत्वक्पलशतमभिनवमापोथ्य खण्डशः कृत्वा । तोयाढकैश्चतुर्भिर्निष्क्वाथ्य चतुर्थशेषेण ॥ २४१ ॥ क्वाथेन भिषङ्मतिमान् तैलस्यार्धाढकं शनैर्विपचेत् । कल्कैरक्षसमानैर्मञ्जिष्ठारोध्रमधुकानाम् ॥ २४२ ॥ इरिमेदखदिरकट्फललाक्षान्यग्रोधमुस्तसूक्ष्मैला- । कर्पूरागुरुपद्मकलवङ्गकङ्कोलजातीफलानाम् ॥ २४३ ॥ पत्तङ्गमैरिकवराङ्गगजकुसुमधातकीनां च । सिद्धं भिषग्विद्ध्यादिदं मुखोत्थेषु रोगेषु ॥ २४४ ॥ परिशीर्णदन्तविद्रधिसौषिरशीताददन्तहर्षेषु । कृमिदन्तदरणचलितप्रहृष्टमांसावदीर्णेषु ॥ २४५ । मुखदौर्गन्ध्ये च तथा प्रागुक्तेष्वामयेषु वृद्ध्यर्थम् । धार्यं मुखेन युक्तेजैन्तुश्च संलेपुकुर्याय ॥ २४६