भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 73, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 73

गदनिग्रहः । ५३ दन्तरोगे द्वितीयमिरिमेदाद्यं तैलम् । न वृद्धानातिबालाच त्वक्तुलामिरिमेदकात् । अपां द्रोणे समावाप्य पचेत्पादावशेषितम् ॥ २४७ ॥ ततस्तेन कषायेण क्षीरप्रस्थसमन्वितम् । लाक्षारससंयुक्तं तैलप्रस्थं पचेन्नरः ॥ २४८ ॥ लोध्रकट्फलमञ्जिष्ठापद्मकेसरपद्मकैः । चन्दनोत्पलयष्ट्याह्वैः पालिकैर्धातकीसमैः ॥ २४९ ॥ एतद्रुजापहं नाम तैलं गण्डूषधारणात् । दारणं दन्तचालं च हनुमोक्षं कपालिकाम् ॥ २५० ॥ शीतादं पूतिवक्त्रं च शौषिरं विरसास्यताम् । हन्यादाशु गदानेतान् कुर्याद्दन्तांस्थिरानपि ॥ २५१ ॥ दन्तरोगे खदिराद्यं तैलम् । शतं खदिरसारस्य जलद्रोणेन साधितम् । पादशेषे रसे लोध्रमञ्जिष्ठारक्तचन्दनैः ॥ २५२ ॥ कट्फलोशीरलाखैलात्वक्पत्रामरदारुभिः । समङ्गाकुङ्कुमनलदपरिप्लववालुकैः ॥ २५३ ॥ वालुकागुरुकुस्तैलास्पृक्कातगरपद्मकैः । कल्कीकृतैः पचेदेभिस्तैलप्रस्थं भिषग्वरः ॥ २५४ ॥ धार्यं स्यात्कृमिदन्तेषु दन्तेषु चलितेषु च । शौषिरे दन्तनाडीषु विद्रध्यां मुखजेषु च ॥ २५५ ॥ हन्यादाशु तदभ्यङ्गात्कुष्ठं च कफपित्तजम् । वातजानि तु कुष्ठानि व्यङ्गप्लीहातिसुप्तिकाम् ॥ २५६ ॥ त्वग्दोषपिटकाकण्डूरजसं वातशोणितम् । व्रणं मासं च नस्येन वलिपलितनाशनम् ॥ २५७ ॥ ज्वरे बृहल्लाक्षादितैलम् । लाक्षा हरिद्रा मञ्जिष्ठा फलिनी मधुकं बला । लामज्जकं चन्दनं च गैरिकं नीलमुत्पलम् ॥ २५८ ॥