गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 74, कुल 286 में से
संदर्भ में पढ़ें५४ आयुर्वेदौयग्रन्थमाला । [तैलाधिका एषां भागान् समान् कृत्वा पक्त्वा तोये चतुर्गुणे । तुर्यभागावशेषं तु गर्मे चैनं समावपेत् ॥ २५९ ॥ हरेणुका पद्मकं च हयगन्धा तथैव च । वेतसं चोरकं कुष्ठं देवदारु नखत्वचम् ॥ २६० ॥ शतपुष्पा पुण्डरीकं मांसी मधुकमेव च । एभिरक्षसमैः कल्कैः कषायेनाथ पेषितैः ॥ २६१ ॥ दधिशुक्तारनालानामाढकाढकमावपेत् । क्षीराढकसमायुक्तं तैलप्रस्थं विपाचयेत् ॥ २६२ ॥ तदभ्यङ्गे प्रशंसन्ति तैलं दाहनिवारणम् । वातपित्तोद्भवं क्षिप्रं ज्वरमेतन्नियच्छति ॥ २६३ ॥ सप्रलापं सतृष्णं च तालुशोषमथ भ्रमम् । ग्रहोपसृष्टं बालं च रक्तसंदूषिताश्च ये ॥ २६४ ॥ एत्तैलं प्रशमयेल्लाक्षादिकमिति स्मृतम् । ज्वरे लघुलाक्षादितैलम् । लाक्षारसं समादाय तैलप्रस्थाच्चतुर्गुणम् । ॥ २६५ ॥ मस्तुनश्चाढकं दद्याद्द्रव्यैरेभिश्च कार्षिकैः । मधुकेन हरिद्राभ्यां मुस्तेन सह मूर्वया ॥ २६६ ॥ रास्नया कटुरोहिण्या चन्दनेनाश्वगन्धया । शताह्वया च कुष्ठेन हरेण्वा देवदारुणा ॥ २६७ ॥ मञ्जिष्ठापद्मकोशीरबलामांसीभिरेव च । तत्सिद्धमथ पूतं च स्थापयेद्भाजने शुभे ॥ २६८ ॥ जीर्णज्वरपरीतानां श्वासकासार्त्तिनां तथा । गर्भिणीनां च नारीणां बालानां शुष्यतामपि ॥२६९॥ क्षीणानां शोषिणां चाथ तैलं लाक्षादिकं हितम् । विषमज्वरमोक्षार्थं सर्वज्वरग्रहापहम् ॥ २७० ॥