गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 76, कुल 286 में से
संदर्भ में पढ़ें५६ आयुर्वेदियग्रन्थमाला। [तैलाधिकारः छागलस्य तु मांसस्य द्वे तुले तत्र दापयेत् । एतत्सर्वं समालोड्य तोयद्रोणेषु पञ्चसु ॥ २८३ ॥ द्विद्रोणशेषं पूतं च तैलद्रोणेन संसृजेत् । पाठा मगधजा रास्ना सुषवी गोक्षुरं बला ॥ २८४ ॥ प्रियङ्गूर्द्वे हरिद्रे च मांसी चैला कुटन्नटम् । देवदारु वचा लोध्रं कुष्ठं व्याघ्रनखं शठी ॥ २८५ ॥ मञ्जिष्ठा मधुकं मुस्तं रोध्रं द्वे चापि सारिवे । सश्रीप्रियं चन्दनं च रक्तकं तैलपर्णिकम् ॥ २८६ ॥ समृणालत्वचं पत्रं पतङ्गं नीलमुत्पलम् । एषां द्विपलिकान् भागान् रम्भागर्भं समावपेत्॥२८७॥ दध्नो दद्याच्च त्रीन्द्रोणान् ततः सिद्धं निधापयेत् । शैरीषमिति विख्यातमेतत्तैलं क्षयापहम् ॥ २८८ ॥ प्रशस्तममृताकारं पानाभ्यञ्जनबस्तिषु । अपस्मारं तथोन्मादं शोषान् सोपद्रवानपि ॥ २८९ ॥ अङ्गमर्दमथो दाहं पाण्डुत्वं स्वरवैकृतम् । अर्दितं गृध्रसीं गुल्मान् कम्पं पक्षवधं तथा ॥ २९० ॥ हनुग्रहं खुडावातमूर्ध्ववातापतानकौ । मूकत्वं गद्गदत्वं च बाधिर्यं कर्णवेदनाम् ॥ २९१ ॥ उरौ जानुनि कुक्षौ च विसर्पं वातशोणितम् । हन्याद्गरुडबलोपेतो जीवेच्च शरदां शतम् ॥ २९२ ॥ प्रयोगादस्य तैलस्य न च रोगाः क्रमन्ति तम् । विषपीताश्च दुष्टाश्च भूतोपहतचेतसः ॥ २९३ ॥ ये पिबन्ति शिरीषाद्यं नीरुजस्ते भवन्ति हि । मूलकर्मविकाराणां भूतानां दंष्ट्रिणामपि ॥ २९४ ॥ अस्पृश्यं तद्गृहं यत्र तैलमेतद्विधीयते ।