गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 78, कुल 286 में से
संदर्भ में पढ़ें५८ आयुर्वेदियग्रन्थमाला । [तैलाधिकारः अर्शसि लघुकासीसाद्यं तैलम् । काशीसलाङ्गलीदन्तीकरवीराम्लैः पचेत् । तैलमर्कपयोन्मिश्रमभ्यङ्गात्पायुकीलजित् ॥ ३०८ ॥ अर्शसि पृथुकासीसाद्यं तैलम् । कासीसं सैन्धवं कृष्णा शुण्ठी कुष्ठं च लाङ्गली । शिला ट्रेकाश्वमारश्च जन्तुहृद्दन्तिचित्रकौ ॥ ३०९ ॥ हरितालं तथा स्वर्णक्षीरी चैतैः पचेत्समैः । तैलं सुधार्कपयसा गवां मूत्रे चतुर्गुणे ॥ ३१० ॥ एतदभ्यङ्गतोऽर्शासि क्षारवत्पातयेद्ध्रुवम् । क्षारकर्मकरो ह्येष न च दूष्यते वलिम् ॥ ३११ ॥ अर्शसि चित्रकाद्यं तैलम् । चित्रकं मदनं पीलुं शृङ्गवेरं शुकाननाम् । स्रोतोर्जं सैन्धवं दन्ती हरितालं मनःशिलाम् ॥३१२॥ तालीसं करवीरस्य मूलं लाङ्गलिकां वचाम् । भद्रकं क्षीरिकां चैव स्वर्णक्षीरीं च पेषयेत् ॥ ३१३ ॥ सुह्वर्कक्षीरकुडवौ पाच्यमाने प्रदापयेत् । मूत्रे चतुर्गुणे तैलं पक्कमर्शोहरं भवेत् । क्षारकर्मकरं ह्येतदभ्यङ्गात्तैलमुत्तमम् ॥ ३१४ ॥ कुष्ठे शिंशपासारतैलम् । दवदुदावपुंनाटवाकुची- तुम्बीफलोन्मत्तहयारिदारुभिः । तुङ्गफलत्वग्धरिमन्थवह्निजैः प्रस्थोन्मितैः श्यामलसारषड्गुणैः ॥ ३१५ ॥ तैलाढकार्थेन परिप्लुतैस्तैस्तैलं विदध्याद्गलिबन्धयन्त्रे । तत्तैलमभ्यङ्गविधौ प्रदिष्टं पथ्याशिनां कुष्ठविघातकृत्स्यात ३१६ कुष्ठे वज्रकं तैलम् । मूलं स्नुहाद्भात्त्वक् शिरीषाश्वमारा- दर्कान्मालत्याश्चित्रकास्फोटनिम्बात् ।