गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 82, कुल 286 में से
संदर्भ में पढ़ें६२ आयुर्वेदीयग्रन्थमाला । [ तैलाधिकारः नखं व्याघ्रनखं स्पृक्का बोलो दमनको मुरा ॥ ३५०॥ स्थौणेयकं चोरकं च शैलेयं सैलवालुकम् । सरलः सप्तपर्णश्च च लाक्षा तामलकी तथा ॥ ३५१ ॥ लामजकं पद्मकं च धातक्याः कुसुमानि च । प्रपौण्डरीकं कर्पूरः समान्शैः शाणमात्रकैः ॥ ३५२ ॥ महासुगन्धमित्येतत्प्रस्थं तैलस्य साधयेत् । प्रस्वेदमलदौर्गन्ध्यकण्डुकुष्ठहरं परम् ॥ ३५३ ॥ अनेनाभ्यक्तगात्रः स्याद्वृद्धः सप्ततिकोऽपि वा । युवा भवति शुक्राढ्यः स्त्रीणां चात्यन्तवल्लभः ॥३५४॥ सुभगो दर्शनीयश्च गच्छेच्च प्रमदाशतम् । वन्ध्यापि लभते गर्भं षण्ढोऽपि पुरुषायते ॥ ३५५ ॥ अपुत्रः पुत्रमाप्नोति जीवेच्च शरदं शतम् । कुष्ठे मरीचाद्यं तैलम् । मरीचं त्रिवृता मुस्तं हरितालं मनःशिला ॥ ३५६ ॥ देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् । विशाला करवीरश्च भानुक्षीरं शक्रद्रसः ॥ ३५७ ॥ एतेषां कार्षिकान् भागान् विषस्यार्धपलं भवेत् । प्रस्थं च कटुतैलस्य गोमूत्रे द्विगुणे पचेत् ॥ ३५८ ॥ मृत्पात्रे लोहपात्रे वा शनैर्मृद्वग्निना भिषक् । तैलेनानेन नश्यन्ति रोगा देहे शरीरिणाम् ॥ ३५९॥ पामा विचार्चिका चैव दद्रुविस्फोटकानि च । अभ्यङ्गेन प्रणश्यन्ति श्यामलत्वं प्रजायते ॥ ३६० ॥ प्रच्छिन्नान्यपि श्वित्राणि तैलेनानेन प्रक्षयेत् । चिरोत्थमपि यच्छिद्रं सवर्णं प्रक्षणाद्भवेत् ॥ ३६१ ॥ कुष्ठे आमरिकं तैलम् । गुञ्जामूलं फलं कुष्ठं विषं सिन्दूरसिक्थकम् । द्वे हरिद्रे जलञ्जाल्चौ गुग्गुलूत्रे तयैव च ॥ ३६२ ॥