गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 83, कुल 286 में से
संदर्भ में पढ़ें२.] गदनिग्रहः । ६३ कृकलाससमायुक्तं कटुतैलं विपाचयेत् । क्षिपेत्स्वरुपद्रव्याणि सुदग्धान्यवतारयेत् ॥ ३६३ ॥ उद्धृत्य तैलमध्यात्तु सूक्ष्मचूर्णानि कारयेत् । चूर्णं तैले पुनः कृत्वा त्रिशूलीं दापयेत्ततः ॥ ३६४ ॥ जीवन्तीं जीवनीमूलं तथा च व्रणरोहिणीम् । एतच्चूर्णं समालोड्य त्वेकरात्रं तु धारयेत् ॥ ३६५ ॥ शिरोरोगं व्रणं कुष्ठं पामां चैव विचार्चिकाम् । ये व्रणा न प्ररोहन्ति गम्भीरा भैरवाश्च ये ॥ ३६६ ॥ तांस्तु नाशयते सर्वान् सप्ताहेन न संशयः । भिषजां नात्र सन्देहस्तैलं आमरिकं खलु ॥ ३६७ ॥ व्रणे महाकषायं तैलम् । उदुम्बरो वटश्चैव प्लक्षः पिप्पल एव च । मधूक आम्रः सर्जश्च जम्बूद्वयमथार्जुनः ॥ ३६८ ॥ कम्पिल्लकः पियालश्च कदम्बस्तिन्दुकस्तथा । पलाशो रोध्रसंमिश्रं बदरं पद्मकेसरम् ॥ ३६९ ॥ शिरीषो बीजकश्चैव तथा रक्तं च चन्दनम् । अमीषां क्वाथकल्काभ्यां तैलं मन्दाग्निसधितम् ॥३७०॥ नाम्ना महाकषायं तु क्षिप्रमभ्यञ्जनाद्धरेत् । व्रणांस्तु देहिनामेतच्चिरकालभवानपि ॥ ३७१ ॥ वल्मीके मनःशिलाद्यं तैलम् । मनःशिलालभल्लातसूक्ष्मैलागुरुचन्दनैः । जातीपल्लवपत्रैश्च निम्बतैलं विपाचयेत् ॥ ३७२ ॥ वल्मीकं नाशयत्येतद्द्बहुच्छिद्रं बहुस्रवम् । गण्डमालायां फणिज्जकाद्यं तैलम् । फणिज्जकः सक्षवको नादेयं नवमालिका ॥ ३७३ ॥ अश्मन्तको विडङ्गानि मयूरकफलानि च । वितुन्नकं देवदारु सहदेवा च कङ्कलः ॥ ३७४ ॥