गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 84, कुल 286 में से
संदर्भ में पढ़ें६४ आयुर्वेदीयग्रन्थमाला । [ तैलाधिकारः बीजं कारञ्जपालाशं मूलकस्र्यार्जकस्य च । महापर्पटको मुस्तं त्रिकटु त्रिफला वचा ॥ ३७५ ॥ सुवर्चला च हिङ्गुश्च समभागानि कारयेत् । अक्षमात्रैः पचेदेभिस्तैलप्रस्थं सुखाग्निना ॥ ३७६ ॥ अजाक्षीरेण संयुक्तमजाक्षीरे चतुर्गुणे । तदस्य नस्यं दद्याच्च गण्डमालाविनाशनम् ॥ ३७७ ॥ विदारिकां गलग्रन्थि गलगण्डं च नाशयेत् । गण्डमालायां काकादनीतैलम् । काकादनीलाङ्गलिकानदीहतुण्डिकाफलैः ॥ ३७८ ॥ जीमूतबीजकर्कोटैर्विशालाकृतवेधनैः । पाठान्वितैः पलार्धांशैर्विषकर्षयुतैः पचेत् ॥ ३७९ ॥ प्रस्थं करञ्जतैलस्य निर्गुण्डीस्वरसाढके । अनेन गण्डमाला हि चिरजा पूयवाहिनी ॥ ३८० ॥ सिद्ध्यत्यसाध्यकल्पापि पानाभ्यञ्जननावनैः । रक्तपित्ते मूर्वाद्यं तैलम् । मूर्वामधुकद्राक्षेक्षुरसचन्दनपद्मकैः ॥ ३८१ ॥ सारिवाद्ययनक्ताहैस्तैलप्रस्थं विपाचयेत् । क्षीरे चतुर्गुणे पक्त्वा कल्कैरक्षसमैर्भिषक् ॥ ३८२ ॥ रक्तपित्तहरं त्वेतद्वर्ण्यं वातघ्नमुत्तमम् । मूर्वातैलमिदं नाम्ना सवर्णकरणं परम् ॥ ३८३ ॥ कुष्ठे विषादनं तैलम् । कम्पिल्लकनिशायुग्मैः शालनिर्यासचित्रकैः । पुरकीटारिसंयुक्तैः पालिकैः सुविचूर्णितैः ॥ ३८४ ॥ एकीकृत्य समैरेभिर्विषस्य च पलद्वयम् । आतपे स्थापयेद्धीमान् कटुतैलपरिप्लुतम् ॥ ३८५ ॥ विषादनमिदं तैलं लेपात्सिध्मविचर्चिके । हन्ति पामापचीव्यङ्गादुष्टव्रणभगन्दरान् ॥ ३८६ ॥