गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 91, कुल 286 में से
संदर्भ में पढ़ें३.] गदनिग्रहः । ७१ एरण्डतैलसंयुक्तं सद्यो लिह्यात्ततो नरः । बिडालपदकं चापि पिवेदुष्णेन वारिणा ॥ १६ ॥ श्वासं हन्यात्तथा शोषमर्शसि च भगन्दरम् । हृच्छूलं पार्श्वशूलं च बस्तिशूलमरोचकम् ॥ १७ ॥ प्लीहकासप्रमेहांश्च कामलां पाण्डुरोगताम् । आमवातमुदावर्त्तमन्त्रवृद्धिं गुदकृमीन् ॥ १८ ॥ हन्याच्च ग्रहणीरोगान् ये मया परिकीर्तिताः । महाज्वरोपसृष्टानां भूतोपहतचेतसाम् ॥ १९ ॥ अप्रजानां च नारीणां प्रजावर्धनमेव च । विजयं नाम चूर्णेदं सर्वव्याधिहरं परम् ॥ २० ॥ वातरोगे अजमोदाद्यं चूर्णम् । अजमोदमरिचपिप्पलिविडङ्गसुदारुचित्रकशताह्वाः । सैन्धवपिप्पलिमूलं भागा नवस्य पलिकाः स्युः ॥ २१ ॥ शुण्ठी दशपलिका स्यात्पलानि तावन्ति वृद्धदारुकस्यापि । अभया पलानि पञ्च सर्वाण्येकत्र कारयेच्चूर्णम् ॥ २२ ॥ समगुडवटकानदतस्तच्चूर्णं कोष्णवारिणा पिबतः । नश्यन्त्यामानिलजाः सर्वे रोगाः सुदारुणाः शीघ्रम् ॥२३॥ विश्वाचीप्रतूनीतूनीरोगाश्च गृध्रसी चोग्रा । कटिपृष्ठगुदस्फुटनं स्फुटनं चैवास्थिजङ्घयोस्तीव्रम् ॥ २४ ॥ श्वयथुः स्तब्धोऽङ्गसन्धिषु ये चान्ये चामवातसंभूताः । सर्वे प्रयान्ति नाशं तम इव सूर्यांशुविध्वस्तम् ॥ २५ ॥ क्षुद्बोधमरोगित्वं स्थिरयौवनतां च वलीपलितनाशम् । कुरुते च तदभ्यासाद्बहूनन्यानपि गुणांश्च ॥ २६ ॥ वातरोगे आभाद्यं चूर्णम् । आभा रास्ना गडूची च शतावर्यां महौषधम् । शतपुष्पाऽश्वगन्धा च हपुषा वृद्धदारकम् ॥ २७ ॥