गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 92, कुल 286 में से
संदर्भ में पढ़ें७२ आयुर्वेदग्रन्थमाला । [ चूर्णाधिकारः यवानी चाजमोदं च समभागानि कारयेत् । सूक्ष्मचूर्णमिदं कृत्वा बिडालपदकं पिबेत् ॥ २८ ॥ मद्यैर्मांसरसैर्युषैस्तत्रेणोष्णोदकेन वा । सर्पिषा वापि लेह्यं तु दधिमण्डेन वा पुनः ॥ २९ ॥ अस्थिसन्धिगतं वायुं स्नायुमज्जाश्रितं तथा । कटिग्रहं गृध्रसीं च मन्यास्तम्भं हनुग्रहम् ॥ ३० ॥ ये च कोष्ठगता रोगास्तांश्च सर्वान् प्रणाशयेत् । आमाद्यं नाम चूर्णेदं सर्वव्याधिविनाशनम् ॥ ३१ ॥ अतिसारे कपित्थाष्टकम् । यवानीपिप्पलीमूलचातुर्जातकनागरैः । मरिचेन्द्रयवाजाजीधान्यसौवर्चलैः समैः ॥ ३२ ॥ वृक्षाम्लधातकीकृष्णाबिल्वदाडिमदीप्यकैः । त्रिगुणैः षड्गुणसितैः कपित्थाष्टगुणीकृतैः ॥ ३३ ॥ चूर्णोऽतिसारग्रहणीक्षयगुल्मगलामयान् । कासश्वासाग्निसार्दार्शःपीनसारोचकाञ्जयेत् ॥ ३४ ॥ ग्रहण्यां द्वितीयं कपित्थाष्टकम् । कनकत्रुटिवराङ्गविश्वौषधं धान्यका चव्याजाजीयवान्यश्च तुल्यांशकाः । मरिचदहनदाडिमं धातकी चुक्रिका बिल्वसौवर्चलं पिप्पलीमूलवृक्षाम्लकम् ॥ ३५ ॥ अपरमपि कपित्थाष्टकं षड्गुणा पिप्पली सर्वतुल्यांशका शर्करा । ग्रहणिगदनाशनं वह्निसन्दीपनं कासहृद्रोगगुल्मार्शसां नाशनम् ॥ ३६ ॥ ग्रहण्यां दाडिमाष्टकम् । कर्षोन्मिता तुगाक्षीरी चातुर्जातं द्विकार्षिकम् । यवानीधान्यकाजाजीग्रन्थिव्योषं पलाशकम् ॥ ३७ ॥