गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 158, कुल 446 में से
संदर्भ में पढ़ेंसप्तमः पटलः । ७७ तर्पयित्वा गुरूनादौ मूलदेवीं च तर्पयेत् । बीजद्वयं ततो विद्या हुतभुग्दयितान्विता ॥ ६२ ॥ ततो देव्याः स्वनामान्ते तर्पयामि नमःपदम् । देवान् पितॄन् ऋषींश्चैव तर्पयेत् कुलवारिणा ॥ ६३ ॥ तर्पणादौ प्रयुञ्जीत तृप्यतां वृद्धभैरवः । तथैव परमेशानि विष्णुं रुद्रं प्रजापतिम् ॥ ६४ ॥ एवं ऋषीन् प्रतर्प्याथ पितॄनपि च भैरवान् । तृप्यतां सुन्दरी माता पिता भैरवस्तृप्यताम् ॥ ६५॥ आदौ त्रिपुरपूर्वं च तर्पणे विनियोजयेत् । श्राद्धे विवाहे दाने च स्नाने चानङ्गपूजने ॥ ६६ ॥ सर्वदा सर्वकार्येषु तान्त्रिके वैदिके तथा । त्रिपुरभैरवं चैव स्मरेत् त्रिपुरसुन्दरीम् ॥ ६७ ॥ स्वविद्यां संस्मरन् कुर्यात् क्रियां सर्वत्र चोदिताम् । द्विजातीनां च संस्कारो वेदोक्तः समुदाहृतः ॥ ६८ ॥ तेषां तु तत्र तत्रापि विद्यया विधिमाचरेत् । अन्येषामपि वर्णानां विद्ययैव समापयेत् ॥ ६९ ॥ विद्यया संस्कृतो यस्तु स एव ब्राह्मणो मतः । निघ(नो?ने)विद्यया दाहो विद्ययान्यत् समाचरेत् ॥१००॥ तेनैव तन्मयी सिद्धिः सर्वत्र भवति ध्रुवम् । यावन्न दीयते देवि सूर्यायार्घ्यं विधानतः ॥ १०१ ॥ विधिना विहिता पूजा तावत् केन प्रगृह्यते । मार्तण्डभैरवायार्घ्यं दूर्वाभिः सिततण्डुलैः ॥ १०२ ॥ १ 'यात्' क पाठः । २ 'शि' क पाठ. ।